A History of Hindu Chemistry from the Earliest Times to the Middle of the Sixteenth Century A.D. v2.c35.s3.64
A History of Hindu Chemistry from the Earliest Times to the Middle of the Sixteenth Century A.D. v2.c35.s3.64
- Language
- English
v2.c35.s3.64
क्रगणेरष्टभिः सम्यक् कपोतपुटमुच्यते ॥ इति कपोतपुटः ॥ तुषैर्वा गोवरैर्वापि रसभास्मप्रसाधनम् । माणिकाद्यमानेन गोवरं पुटमुच्यते ॥ इति गोवरपुटः ॥ मृद्भाण्डे तु प्रपूर्यैव मध्ये द्रव्यं तु विन्यसेत् । अधस्ताज्ज्वालयेदग्निं मृद्भाण्डपुटमुच्यते ॥ इति (मृद्)भाण्डपुटः ॥ गर्तं तु बालुकापूर्णं मध्ये द्रव्यं तु विन्यसेत् । उपरिष्टादधस्ताच्च वह्निं कुर्यात् प्रयत्नतः । तद्बालुकापुटं सम्यगुच्यते शास्त्रकोविदः ॥ इति बालुकापुटः ॥ मूषिकां भूमिमध्ये तु स्थापितां द्यङ्गुलादधः । उपरिष्टात् पुटं दद्यात् तत् पुटं भूधराभिधम् ॥ इति भूधरापुटः ॥