Pramāṇa · Search · About · API

A History of Hindu Chemistry from the Earliest Times to the Middle of the Sixteenth Century A.D. v2.c35.s3.68

A History of Hindu Chemistry from the Earliest Times to the Middle of the Sixteenth Century A.D. v2.c35.s3.68

Language
English

v2.c35.s3.68

अथातः संप्रवक्ष्यामि धातूनां कौतुकं परम् । स्वानुभूतं मया किञ्चित् श्रुतं यच्छास्त्रतः खलु ॥ तदहं कथयिष्यामि यत् कृत्वा ना सुखी भवेत् । रसकं दरदं ताभ्यं गगनं कुनटीसमम् । रक्तस्नुहोपयोभिश्च मर्दयेद्दिनसप्तकम् ॥ जलयन्त्रेण वै पाच्यं चतुर्विंशतियामकम् । तेन वेध्यं द्रुतं ताम्रं तारं वा नागमेव वा ॥ सहस्रवेधो तु तत्कल्पो जायते नात्र संशयः ॥ एकभागस्तथा सूतो वज्रवल्ल्यथ मर्दितः । खल्ले विनिष्पाच्य रसे पञ्चभागसमन्विते । वेत्रयष्ट्या च रागिण्या पीतल्कं प्रजायते ॥

Linked texts (1)