Pramāṇa · Search · About · API

A History of Hindu Chemistry from the Earliest Times to the Middle of the Sixteenth Century A.D. v2.c35.s3.70

A History of Hindu Chemistry from the Earliest Times to the Middle of the Sixteenth Century A.D. v2.c35.s3.70

Language
English

v2.c35.s3.70

स्वर्णमाक्षिकं स्वेद्य काञ्जिके दिवसत्रयम् । चम्परंग्या (गा) रसेनैव मर्दयेद्दिनसप्तकम् । जलेन धौतं तावच्च यावद्धेमनिभं भवेत् ॥ दरदं रसदेशीयं¹ गोमूत्रेणैव स्वेदयेत् । दोलायन्त्रेऽह्नि² चत्वारि पश्चाच्छुद्धतमो भवेत् ॥ मनःशिला पद्मनिभा रक्ता चैव सुशोभना । स्वेदिता मुनिपुष्पस्य रसेनैव तु दोलया । याममष्टमिता शुद्धा सर्वकार्येषु योजयेत् ॥ नवसारस्तथा सूतः शोधितोऽग्निमति स्थले । समभागानि सर्वाणि मर्दयेन्निम्बुकारसैः ॥ मातुलुङ्गरसेनैव कुमारीसुरसेन वा । सूर्यातपे विमर्द्यसौ पाचितो जलयन्त्रके । दिनानि त्रीणि तीव्राग्नौ कुर्यात्तदवतारयेत् ॥