Pramāṇa · Search · About · API

A History of Hindu Chemistry from the Earliest Times to the Middle of the Sixteenth Century A.D. v2.c35.s3.73

A History of Hindu Chemistry from the Earliest Times to the Middle of the Sixteenth Century A.D. v2.c35.s3.73

Language
English

v2.c35.s3.73

शतांऽशं वेधयेत्तारं शुद्धहेम प्रजायते । जलभेदो यदा न स्यान्नात्र कार्या विचारणा ॥ शिलया मारितं नागं कुमार्याः स्वरसेन तु । पुटद्वादशयोगेन नागभस्म प्रजायते ॥ शतसंख्यानि वै कुर्यात् पुटान्येवं शरावके । कुमार्याः स्वरसेनैव भावयेद्दिनसप्तकम् ॥ पूर्വ്വवत् पुटं कार्य्यं शतसंख्यामितं तथा । सूतगन्धशिलादट्टसमं चेन्नागभस्म कम् । त्रिंशदुपलैर्दद्यात् पुटं वाराहसंज्ञकम् ॥ अनेन विधिना सम्यक् शतसंख्यानि दापयेत् । पुटान्येवं कृते त्रीणि शतानि द्वादशाधिकम् ॥ पश्चादृढे काचमये कूपे द्वात्रिंशयाम कम् । बालुकाग्निं प्रद्याच्च स्वाङ्गशीतं समुद्धरेत् । तद्भस्म ग्रहीतव्यं वेधयेत्तारशुद्धके । शुद्धहेम भवेत्तेन नात्र कार्या विचारणा ॥ दृष्टप्रत्यययोगोऽयं कथितो नात्र संशयः ॥