Pramāṇa · Search · About · API

A History of Hindu Chemistry from the Earliest Times to the Middle of the Sixteenth Century A.D. v2.c35.s3.8

A History of Hindu Chemistry from the Earliest Times to the Middle of the Sixteenth Century A.D. v2.c35.s3.8

Language
English

v2.c35.s3.8

तीक्ष्णं नीलाञ्जनोपेतं खातं हि बहुशो दृढम् । मृदुक्ष्णां द्रुतद्रावं¹ वरनागं तदुच्यते ॥ मृतस्य पुनरूतिः संप्रोक्तोत्थापनाख्यया² । द्रुतद्रव्यस्य निक्षेपो द्रवे तद्गालनं मतम् ॥ विंशत्पलमितं नागं भानुदुग्धेन मर्द्दितम् । विमर्द्य पुटयेत्तावत् यावत् कर्षावशेषितम् ॥ न तत् पुटसहस्रेण क्षयमायाति सर्व्वथा³ । चपलोऽयं समुद्दिष्टो वार्त्तिर्कैर्नागसम्भवः⁴ ॥ इत्यं हि चपलः⁵ कार्य्यो वङ्गस्यापि न संशयः । तत्स्पृष्टहस्तसंस्पृष्टः केवलो बध्यते रसः ॥