Pramāṇa · Search · About · API

A History of Hindu Chemistry from the Earliest Times to the Middle of the Sixteenth Century A.D. v2.c35.s4: Extracts from Rasachintamani

A History of Hindu Chemistry from the Earliest Times to the Middle of the Sixteenth Century A.D. v2.c35.s4

Language
English

Extracts from Rasachintamani

v2.c35.s4.1

मदनान्तदेवसूरिविरचितात् रसचिन्तामणेः उद्धृताः श्लोकाः ।

v2.c35.s4.2

सैन्धवं तोरिकां सूतं कासीसं लकुचद्रवैः ।
विष्ट्य खल्वभाण्डस्थं सर्बल्लक्षणं दिनत्रयम् ॥ ७६ ॥
हण्डिकायां तदारोप्य काष्ठवह्निविधोयते ।
दिनत्रयेऽप्यतिक्रान्ते भस्म श्वेततरं भवेत् ॥ ७७ ॥

v2.c35.s4.3

इति त्रयोदश भस्मसूतः ।

v2.c35.s4.4

खर्परो द्वादशांशः स्यात् शिखिग्रीवं च तुल्यकं ।
षड्गुणं माक्षिकं नेत्रभागं ग्राह्यं मनःशिला¹ ।
भागत्रयमिदं ग्राह्यं शोभनागतकर्करैः² ॥ ३८ ॥

v2.c35.s4.5

¹ चापि नेत्रभागा मनःशिला is the correct reading as stated in the margin of the text.

v2.c35.s4.6

² त्रयो भागा अपि ग्राह्याः शोभना गतकर्कराः is the correct reading as stated in the margin of the text.

v2.c35.s4.7

गन्धकत्रयमेवास्ते काचमाचोरसैर्भृतं । दिनसप्तात्र कर्त्तव्या भावना मर्दनं क्रमात् ॥ ३९ ॥ अधोमुखेन यन्त्रेण तेन निःसारयेद्बुधः । सत्वं तद्रसकस्याथ दृढं कार्य्यकरं परं ॥ ४० ॥ अवश्यं तद्दृढं सत्वं निर्धूमं कर्मसाधनं ॥ इति रसकसत्वपातनं ।

v2.c35.s4.8

त्रिवारं गन्धकहृतं ताम्रहेमद्वयत्रयं । सत्वं तालस्य मासैकं योजयेत् सर्वकामदं ॥ ४३ ॥ अश्रवर्णं भवेद्धेमं ताम्रगन्धकमारितं । एतयोर्दीयते रम्यं जायते कांचनं शुभं ॥ ४४ ॥

v2.c35.s4.9

इति श्रोमदनांतदेवविरचिते रसचिंतामणौ हेमीकरणप्रयोगः ॥

v2.c35.s4.10

पारदं सोसकं गंधं कुनटी तच्चतुष्टयं । भोजपूरांभसा पिष्ट्वा बाढं दिनचतुष्टयं ॥ १०८ ॥ अथ सूक्ष्माणि पत्राणि तेन तारस्य लेपयेत् । भोजपूररसेनैतत् अतिमात्राग्नितापितं ॥ १०९ ॥

v2.c35.s4.11

एकाधिका भवंत्यत्र भावनाश्चास्य विंशतिः । विशेष्यावर्त्तितं तारं भवेत्तारस्य कांचनं ॥ ११० ॥ इति चिंतामणौ हेमीकरणप्रयोगः ॥

v2.c35.s4.12

हेमभागद्वयं तारं तथा ताम्रं चतुष्टयं । एकतः क्रियते पत्रमतिसूक्ष्मं निरामयं ॥ १११ ॥ जंबीरनीरसंपिष्टं खर्परस्याष्टटंकणं । तेन तान्यथ पत्राणि लेपनीयानि वै बहु ॥ ११२ ॥ आवर्त्तंते पुनर्दत्त्वा मूषके गलितानि च । तदा तानि भवंत्यत्र हेमरूपाणि नान्यथा ॥ ११३ ॥ इति हेमीकरणप्रयोगः ॥

v2.c35.s4.13

एकभागो भवेदारः तारं भागद्वयं भवेत् । वेदभागं भवेत्तीक्ष्णं सत्वं सत्वाच्च वै दश । वंगभागं भवेत्यत्रं सर्वमेकत्र कारयेत् ॥ १०९ ॥ टंकेण पुनः ध्मातं पत्रं कृत्वास्य वक्रगं । वेलावयमिदं ध्मातं तक्रमध्ये निवेशयेत् ॥ ११० ॥ एवं तारं भवेन्नूनं परीक्षाक्षममापणे ॥ इति तारोत्पादकं ॥

v2.c35.s4.14

तुत्यकं पिष्यते खल्वे त्रिफलाहिंगुटंकणैः । मध्वाज्यमिश्रितं ध्मातं सत्वं पातयते ध्रुवं ॥ ६८ ॥ इति तुत्यकसत्वपातनं ॥

v2.c35.s4.15

खर्परः स्वेद्यते पूर्वं कोलथेन जलेन च । वटारोहजलेनापि पर्णचूर्णेन शोभनः ॥ ७५ ॥ गुड़टंकणमिश्रस्त्रिफलाक्वाथमर्दितः । मृन्मये कूपके कृत्वा ध्मायमानो भृशं च सः ॥ ७६ ॥ श्वेतधूमोद्गमे जाते तत उत्थाप्य कूपकं । सावधानं करेणैव भूमौ तं चाध आनयेत् ॥ ७७ ॥ पुनश्च ध्मायते कूपः तथाजातं च तं पुनः । कूपकं च पुनर्भूमौ तथा तं नामयेत् पुनः ॥ ७८ ॥ सत्वं खर्परस्यैतत् नागरूपं पतत्यधः ॥ ७९ ॥ इति खर्परसत्वपातनं ॥

v2.c35.s4.16

RASAKALPA.

v2.c35.s4.17

रुद्रयामलान्तर्गातात् रसकल्पादुद्धृताः श्लोकाः ।

v2.c35.s4.18

शिवं नत्वा रसाधीशं चण्डिकाचरणं तथा । क्रियते¹ रसकल्पोऽयं रसज्ञानविशारदः² ॥ १ ॥

v2.c35.s4.19

॥ अथ परीक्षा ॥

v2.c35.s4.20

अतेजा अगुरुः शुभ्रो लोहहा(ऽ)चञ्चलो रसः³ । यदा⁴ नावर्त्तयेदङ्कौ नोर्द्धं गच्छेत्तदा मृतः ॥ ४० ॥

v2.c35.s4.21

(1) The text reads करामि, which is grammatically incorrect.
(2) The reading in the text is विशारदम्, which is incorrect.
(3) The text reads रस, which is incorrect.
(4) The text reads यदामावर्त्तयेत्, which is not correct.

v2.c35.s4.22

दन्ते शृङ्गे मणौ वेणौ रञ्जयेत् साधितं रसम् ॥ ४२ ॥

v2.c35.s4.23

इति श्रीरुद्रयामले रसंकेतकं नाम प्रथमोल्लासः ।

v2.c35.s4.24

हेमरूप्यार्कवङ्गाहि¹लौहा लोहा:² षड़िरिताः । अकृत्रिमा इमे येषां वर्त्ताया: स्युस्तु³ कृत्रिमा: ॥१॥

v2.c35.s4.25

सन्तो बद्धाञ्जलिपुटो युष्मान् विज्ञापयाम्यहम् । कृपासुधारसयुता दृष्टिग्रन्थे प्रदीयताम् ॥ महारसा: स्युस्तत्रादावष्टौ पारदहिङ्गले । वैषावं शस्यकं शैलं चपलं रसकोऽमलम् ॥ (महारसा:)

v2.c35.s4.26

(1) The text reads वङ्गाहि:, which is grammatically incorrect.

v2.c35.s4.27

(2) लौहिलौहा is the reading of the text, which seems to be incorrect.

v2.c35.s4.28

(3) The text reads रेवात्त्यासकृत्रिमा, which is palpably an error.

v2.c35.s4.29

अभ्रकं तुत्थकं कान्तं राजावर्त्त मथाञ्जनम् । वज्रं वैक्रान्तकं चैव टङ्गणं च रसा बहु ॥ (रसाः)

v2.c35.s4.30

गन्धकं तालकशिले क्षितिखेचरगैरिकाः । इत्यादयश्चोपरसाः सर्ब्बाचार्यैरुदीरिताः ॥ (उपरसाः)

v2.c35.s4.31

सितासितारुणं पीतं गन्धकं तच्चतुर्विधम् ॥ तालकं द्विपकारं स्यात् गोदन्तः पाटलच्छविः¹ ॥ रक्ता पीता शिला द्वेधा पूर्व्वी श्रेष्ठोत्तराधमा² ॥ बहुप्रकारा सौराष्ट्री कासीसं त्रिविधं मतम्³ ॥ कासीसं पुष्पकासीसं हीरकासीसमित्यथ ॥ गैरिको द्विविधः प्रोक्तः सौवर्ण्णो लोहितस्तथा ॥

v2.c35.s4.32

¹ The text reads पटलाच्छवि, which seems to be incorrect.

v2.c35.s4.33

² पूर्वाश्रेष्ठोत्तमाधमा is the reading of the text, which is incorrect.

v2.c35.s4.34

³ The text reads कासीसस्त्रिविधो मतः, which is incorrect, as it is mentioned neuter in the next line.

v2.c35.s4.35

कङ्कुष्ठादीन्¹ रसान् केचिदाचार्या वर्णयन्ति वै । अस्माभिरिह तन्नोक्तं मुनिमार्गानुसारिभिः ॥

v2.c35.s4.36

इत्येष प्रोदितो मार्गो रसशोधनकर्मणि । स्वच्छन्दभैरवायुक्त्तो गोविन्दादिसमाहृतः² ॥

v2.c35.s4.37

लवणं चूलिकोद्धूतं गन्धकेन समन्वितम् । सर्वाङ्गदञ्च³ चित्राद्र्यं मूलभस्मप्रगालितम् ॥ गोमूत्रेण शतं भाव्यं तद्रसे जारयेत् शनै⁴ । तस्य संर्पकतः सूतो राक्षसो भवति ध्रुवम् ॥

v2.c35.s4.38

(1) The text reads कंकुष्टादीन्, which is an error of the scribe.

v2.c35.s4.39

(2) The text reads समादितः, which is incorrect.

v2.c35.s4.40

(3) The text reads सर्वांगदश्च, which seems to be incorrect.

v2.c35.s4.41

(4) शनैः, as given in the text, is grammatically incorrect.

v2.c35.s4.42

एतदेव विड़ं दद्यात् सर्व्वदा हेमजारणे¹ । मुखं संजायते तेन जीर्य्यते च² विनिश्चितम् ॥ इति श्रीरुद्रयामले रसकल्पे उमामहेश्वरसंवादे रसशोधनप्रकारः ॥

v2.c35.s4.43

¹ The text reads हेमजारणौ, which is not correct.

v2.c35.s4.44

² The text reads न, which appears to be an error.

v2.c35.s4.45

इति संधानयोगोऽयं जारणेऽतिगुणावहः । प्रकाशितः संप्रदायक्रमप्राप्तः शिवोदितः ॥ इति श्रीरुद्रयामले रसकल्पे उमामहेश्वरसंवादे रसाधिकरणो³ नाम द्वितीयोल्लासः ॥

v2.c35.s4.46

³ The text reads रसाधिकारणा, wnich is incorrect.

v2.c35.s4.47

महारसानां सर्व्वेषां रसानां शुद्धिरुच्यते । तथैवोपरसानाञ्च शास्त्रदृष्टेन वर्त्मना ॥ १ ॥

v2.c35.s4.48

कदलीपत्रजैनौरैः माक्षीकं भावयेत् शतम्⁴ । गन्धर्व्वतैलमध्वाज्य-पक्कमेकं दिनत्रयम् ॥

v2.c35.s4.49

⁴ The text reads शतं, which is senseless.

v2.c35.s4.50

तत्ताप्यं वज्रमूषायां¹ पक्वायां निक्षिपेत्ततः । लोहसन्धानकरणं तत्समं तत्र निष्पचेत् ॥ दृढां प्रकल्पयेन्मूषां² कोष्ठिके³ विनिवेशयेत् । अङ्गारैः खदिरोद्भूतैः धमेद्ध्मात्रादयेन वै ॥ वक्रनालयुजा सत्त्वं ताप्यस्य पतति ध्रुवम् ॥ शुक्लदीप्तिः सशब्दश्च⁴ यदा वैश्वानरो भवेत् । तदा सत्त्वं तु पतितं जानीयान्नान्यथा क्वचित् ॥

v2.c35.s4.51

रसकं स्वेदयेदादौ⁵ पटुचूर्णकृतं बुधः । चतुर्गुणेन वस्त्रेण दृढं बद्ध्वा च डोलिकाम् ॥

v2.c35.s4.52

(1) तत्तत्प्यं वज्रमूषा is the reading of the text, which appears to be incorrect.

v2.c35.s4.53

(2) The text प्रस्तरूपेन्मूषां is evidently incorrect.

v2.c35.s4.54

(3) कोष्ठिकानि निवेशयेत् is the reading of the text, which has no meaning at all.

v2.c35.s4.55

(4) The text reads सशब्दस्य, which is grammatically incorrect.

v2.c35.s4.56

(5) रसकांस्वेदयेदादौ is the reading of the text, which seems to be incorrect.

v2.c35.s4.57

कृत्वा भाण्डे च सजले¹ स्वेदयेन्मासपञ्चकम् । उद्धृत्य पश्चाद्रसकं खल्लमव्ये² विचूर्णयेत् ॥ पाठां मालतीजातं सगुड़ं जीर्णगुञ्जकम् । गृहधूमं रेवकीं च निशामं कुल्लजीरकान्³ ॥ तत् सर्वं चूर्णितं कृत्वा गोपंचकविभावितम् । कृत्वा तद्वटिकाः पश्चात् छायायां शोषयेत्ततः ॥ कोष्ठेनाग्निना⁴ पश्चाद्भेदभस्वादयानिलैः । सत्वं पतत्यसंदेहं स्थिररङ्गं दृढं बहु ॥ एकमासं द्विमासं वा रसं खेदितं यदि । न भातव्यं तच्च कोष्ठे धमेत्तत् नालमूषया ॥

v2.c35.s4.58

इति सम्पादितो मार्गो द्रुतीनां पातने स्फुटः । साक्षादनुभवर्दृष्टो न श्रुतो गुरुदर्शितः ॥

v2.c35.s4.59

(1) कृत्वा भाण्डे च सजले is the reading of the text, which is incorrect.
(2) The text reads खल्लमव्ये.
(3) The text has जीरकां, which is grammatically incorrect.
(4) The text reads कोष्ठेनाग्निना, which is not correct.

v2.c35.s4.60

लोकानामुपकाराय एतत् सर्वं निवेदितम् । सर्वेषां चैव लोहानां द्रावणं परिकीर्त्तितम् ॥

v2.c35.s4.61

इति श्रीरुद्रयामले रसकल्पे उमामहेश्वरसंवादे सर्वलोहद्रुतिपातनाधिकारः समाप्तः¹ ॥

v2.c35.s4.62

¹ समाप्तं शुभम् is the reading of the text, which is not correct.

Linked texts (1)