Pramāṇa · Search · About · API

A History of Hindu Chemistry from the Earliest Times to the Middle of the Sixteenth Century A.D. v2.c35.s4.15

A History of Hindu Chemistry from the Earliest Times to the Middle of the Sixteenth Century A.D. v2.c35.s4.15

Language
English

v2.c35.s4.15

खर्परः स्वेद्यते पूर्वं कोलथेन जलेन च । वटारोहजलेनापि पर्णचूर्णेन शोभनः ॥ ७५ ॥ गुड़टंकणमिश्रस्त्रिफलाक्वाथमर्दितः । मृन्मये कूपके कृत्वा ध्मायमानो भृशं च सः ॥ ७६ ॥ श्वेतधूमोद्गमे जाते तत उत्थाप्य कूपकं । सावधानं करेणैव भूमौ तं चाध आनयेत् ॥ ७७ ॥ पुनश्च ध्मायते कूपः तथाजातं च तं पुनः । कूपकं च पुनर्भूमौ तथा तं नामयेत् पुनः ॥ ७८ ॥ सत्वं खर्परस्यैतत् नागरूपं पतत्यधः ॥ ७९ ॥ इति खर्परसत्वपातनं ॥