Pramāṇa · Search · About · API

A History of Hindu Chemistry from the Earliest Times to the Middle of the Sixteenth Century A.D. v2.c35.s4.12

A History of Hindu Chemistry from the Earliest Times to the Middle of the Sixteenth Century A.D. v2.c35.s4.12

Language
English

v2.c35.s4.12

हेमभागद्वयं तारं तथा ताम्रं चतुष्टयं । एकतः क्रियते पत्रमतिसूक्ष्मं निरामयं ॥ १११ ॥ जंबीरनीरसंपिष्टं खर्परस्याष्टटंकणं । तेन तान्यथ पत्राणि लेपनीयानि वै बहु ॥ ११२ ॥ आवर्त्तंते पुनर्दत्त्वा मूषके गलितानि च । तदा तानि भवंत्यत्र हेमरूपाणि नान्यथा ॥ ११३ ॥ इति हेमीकरणप्रयोगः ॥