A History of Hindu Chemistry from the Earliest Times to the Middle of the Sixteenth Century A.D. v2.c35.s8.101
A History of Hindu Chemistry from the Earliest Times to the Middle of the Sixteenth Century A.D. v2.c35.s8.101
- Language
- English
v2.c35.s8.101
शृणु देवि प्रयत्नेन स्थानानि विविधानि च । सुवर्णस्योदयो धातोः सर्व्वव्यापकपर्व्वते¹ ॥ ११३ ॥ पार्थिव्यं हि च तत् सर्व्वं² मृदामध्यात् प्रजायते । तस्मात् स्थानस्य संक्षेपः श्रूयतां सादरं³ शुभे ॥११४॥ हेमं च प्रथमं कल्पं मेरुमध्ये सदैव हि । दुर्लभं मर्त्यलोकेषु कष्टेनैव तु लभ्यते ॥ ११५ ॥ पुनर्हेमाद्रिणा तेन जायते सर्व्वदा शुभे । महाश्रोतकृते⁴ तेन दुर्लभं स्यात् सदैव हि⁵ ॥११६॥ पश्चाज्जम्बूनदोद्भूतं जम्बूद्वीपेषु जायते । तच्च कष्टतरं मन्ये दुर्लभं तत् सदैव हि ॥ ११७ ॥