Pramāṇa · Search · About · API

A History of Hindu Chemistry from the Earliest Times to the Middle of the Sixteenth Century A.D. v2.c35.s8: Extracts from Dhatukriya or Dhatumanjari

A History of Hindu Chemistry from the Earliest Times to the Middle of the Sixteenth Century A.D. v2.c35.s8

Language
English

Extracts from Dhatukriya or Dhatumanjari

v2.c35.s8.1

रुद्रयामले धातुक्रिया धातुमञ्जरी वा ।*

v2.c35.s8.2

श्रीगणेशाय नमः ।

v2.c35.s8.3

पार्वत्युवाच ।

v2.c35.s8.4

अथानन्तरं¹ देवेश ब्रूहि धातुसुसंस्कृतिम्² । येन विज्ञानमात्रेण साधयेद्धातुसंज्ञितः ॥ १ ॥

v2.c35.s8.5

महादेव उवाच ।

v2.c35.s8.6

धातुसुर्य्यविधः प्रोक्तः तुर्य्यसुर्य्यं स्वपचतः(?)³ । सत्त्वं रजस्तमश्चैव चतुर्थस्तु निरामयः ॥ २ ॥

v2.c35.s8.7

* The Ulwar MS. (A) reads धातुक्रिया, a part of the Rudraya'mala ; but the Benares MS. (B) reads धातुमञ्जरी, a part of the same. The two MSS. are exactly the same in subject matter, differing only in name.

v2.c35.s8.8

(1) A reads अयानंतर, which is grammatically incorrect.

v2.c35.s8.9

(2) A reads धात्वस्य संस्कृति, which is grossly incorrect.

v2.c35.s8.10

(3) The sense here is not clear.

v2.c35.s8.11

राजसे राजसी सिद्धिस्तामसे तामसी सदा । सत्त्वसाधनं सात्त्विञ्चे आनीते¹ सर्वसाधनम् ॥ ३ ॥

v2.c35.s8.12

पार्वत्युवाच ।

v2.c35.s8.13

कथ्यतां देवदेवेश सत्त्वं राजसतामसम् । अतीव गुणवत्² धातोः कार्यं लक्षणलक्षितम्³ ॥४॥ उपधातुक्रमेणैव तेषां लक्षणसाधनम् । विटकी च मुदा युक्ता तेषां कर्मसु⁴ साधनम् ॥ ५ ॥ उपकारो⁵ गुणत्वं नाना कार्यक्रिया शुभा । वियोगयोगचाञ्चल्यं वर्णभेदस्तु मारणम् ॥ ६ ॥ समग्रं देवदेवेश विशेषा धातुकृतक्रियाः । येन विज्ञानमात्रेण साधयेत् गन्धकौः क्रियाः ॥ ७ ॥

v2.c35.s8.14

(1) A reads अनीते, which seems to be incorrect.
(2) A has गुणवती, which appears to be incorrect.
(3) कार्या लक्षणलक्षिताः, a variant in A, which is not correct.
(4) A reads erroneously कर्मस्य.
(5) A reads उपकारं, which is grammatically incorrect.

v2.c35.s8.15

पृथिव्या गर्भमध्ये तु अनेका धातुस्तिष्ठति¹ । विस्तृता² कियत्कालेन धातुर्नानाविधोदिता³ ॥८॥ गुणलक्षणसंयुक्तां⁴ साम्प्रतं न स्मरामि ह⁵ । कथं ते कथयिष्यामि⁶ वद ब्रह्माण्डवासिनि ॥९॥

v2.c35.s8.16

¹ अनेका धातु तिष्ठति, a variant in A, which treats the word धातु in the masculine as well as in the feminine genders.

v2.c35.s8.17

² A reads विस्तृता, which is not correct.

v2.c35.s8.18

³ धातुनानाविधोदिता, an incorrect variant in A.

v2.c35.s8.19

⁴ A reads संयुक्ता, which is grammatically incorrect.

v2.c35.s8.20

⁵ A reads स्मरति ह, which is incorrect.

v2.c35.s8.21

⁶ कथयामास is the incorrect reading in A.

v2.c35.s8.22

पार्वत्युवाच । ये केचित् स्मर्य्यन्त⁷ ईश व्यक्तं कथय साम्प्रतम् । भवतो⁸ऽनुग्रहेणैव साधनार्थञ्च⁹ सिध्यति ॥१०॥

v2.c35.s8.23

⁷ A and B read स्मरते, which is grammatically incorrect.

v2.c35.s8.24

⁸ भवता is the reading in A and B, which is not correct.

v2.c35.s8.25

⁹ साधनार्थ्य is the incorrect reading in A and B.

v2.c35.s8.26

शृणु देवि प्रवक्ष्यामि धातुं नानाविधस्थितम् । गुणलक्षणयुक्तां यथा बुद्धिः¹ कथयिष्यति ॥ ११ ॥ मुख्यप्राधान्यता² एते रङ्गलोहकताम्रकैः । रजतेनैव⁴ संयुक्ता धातोरुत्तमता सदा ॥ १२ ॥ मध्यमा सत्त्वजा धातुः⁵ नीचा च नपुसयोः । संयोगे धातुनामा हि नीचा नीचतरा स्मृता ॥ १३ ॥ संयोगात्ते त्रिधा प्रोक्ता उत्तमा मध्यमाधमा । ताम्रजासत्वयोगेगि⁶ नारीधातुः प्रजायते ॥ १४ ॥

v2.c35.s8.27

(1) A and B read बुद्धा.
(2) मुख्याप्रधानता is the correct reading. प्राधान्यता is grammatically incorrect.
(3) A and B have रंगलोहताम्रकैः, which mars the metre.
(4) A reads रजतेनैव, which is not correct.
(5) धातुः is used here in the feminine gender both by A and B.
(6) Vide verse 20.

v2.c35.s8.28

एषा¹ मध्योत्तमा प्रोक्ता कार्यकारणयोगके । त्रपुताम्रसंयोगेन² जाता धातुश्च मध्यमा ॥ १५ ॥ सीसके³ भङ्गदा प्रोक्ता कार्यकाले सदोदिता । अनेनैव प्रकारेण येन येन च कर्मसु ॥ १६ ॥ कर्त्तव्या जाघवो विद्या ज्ञात्वा⁴ बुद्धिविशारदैः । अभङ्गं सीसके जातं शुद्ध उत्पत्यकारकम् ॥ १७ ॥ हाटके श्वेतता जातिः⁵ अत्तया⁵ रजते यदि । लघुद्रावः शुभे शुल्वे लोहे च द्राविणी कला ॥१८॥

v2.c35.s8.29

(1) Both A and B read एतत्, which is grammatically incorrect.
(2) संयोगि is the reading in A and B, which mars the metre.
(3) A and B reads शोषके.
(4) A reads ज्ञात्वा, which is incorrect.
(5) A and B read जाति, which is incorrect.
(6) A reads अत्तयो. B reads अत्तमी. Both the readings seem to be incorrect.

v2.c35.s8.30

जासत्वे अङ्गहीना च काठिन्याभ्यधिकौ परौ । कला एताश्च धातूनां जातेर्भवति शुद्धता¹ ॥ १६ ॥ कला एतादृशी दिव्याः प्राप्तः² सिद्धस्तु जायते । शुल्वजात्वसंयोगे नारीधातुस्तु³ जायते ॥ २० ॥ कार्यानैककरी प्रोक्ता पात्राभ्योदसु⁴कोमला । मारणे जारणे दिव्या चारणे चोटने तथा ॥ २१ ॥ निर्गन्धा वर्णरहिता जातिभेदकरी स्मृता⁵ । एतावद्⁶गुणसंयुक्ता कार्यकारणसंयुता ॥ २२ ॥

v2.c35.s8.31

¹ जाते भवति शुद्धता:, a variant in A. जाते भवति रशुद्धता:, an incorrect variant in B.

v2.c35.s8.32

² A and B read प्राप्त, which is grammatically incorrect.

v2.c35.s8.33

³ A reads नारीधन्यवसु. B reads नारीधन्यवस्तु. Both seem to be incorrect. (Vide verse 14.)

v2.c35.s8.34

⁴ B reads पात्राभ्योदसु, which is unintelligible.

v2.c35.s8.35

⁵ A reads मता.

v2.c35.s8.36

⁶ Both A and B read एतद्, which destroys the metre.

v2.c35.s8.37

संस्कारैः संस्कृता सर्वैः¹ सर्वसिद्धिकरी स्मृता । नानासुवर्णकार्य्येषु रूप्यकार्य्येषु संयुता ॥ २३ ॥ धातुधौता च या² धातुः सुधामयःसुसंस्कृता । कार्य्यसिद्धिकरी³ श्रेष्ठा ज्येष्ठकार्य्यविधायिका⁴ ॥ २४ ॥ सर्व्वयाशु सुधामयः⁵ ग्रासग्रहणग्राहकः(?) । ग्राहयेत् ग्रासमात्रेण पाचयेदशनं⁶ स्त्रियम् ॥ २५ ॥ स्वकीयाशनसंपक्के⁷ जाति भवति सिद्धिदा । अन्यथा नैव सिध्यन्ति जायते मृग-अम्बुवत् ॥ २६ ॥

v2.c35.s8.38

(1) A and B want सर्वैः, thus rendering the foot incomplete.
(2) A and B read या, which is not correct.
(3) कार्य्यसिद्धिकरा is the variant in A and B.
(4) A and B read विधायका, which is grammatically incorrect.
(5) A has an incomplete foot सर्व्वतेगुधा B also has सर्वो तेसुधा.
(6) A reads पाचयेत् शन. B reads पाचयेत् शनं. Both of them seem to be incorrect.
(7) B reads संयुक्ते.

v2.c35.s8.39

तस्मात्तेनैव यत्नेन सुधामायः¹सुसंस्कृतिः । यथोक्तसंस्कृतियुता² सर्व्वतो धातुरुत्तमा³ ॥ २७ ॥ क्रियोचितसुसंस्कारान्⁴ कारयेद्यत्नतः सदा । यथोदितैस्तु संस्कारैर्युक्ता कार्य्यकरी सदा ॥ २८ ॥ सर्व्वलक्षणसंयुक्ता धातुधौता सदैव हि । जायते नैव सन्देहः कार्य्यकारणकारिका⁵ ॥ २९ ॥ पार्व्वत्युवाच । कियत्परिमिता धातुः संख्या वदतु मे विभो । उत्पत्तिर्लक्षणं तेषां स्थानं चैव⁵ पृथक् पृथक् ॥ ३० ॥

v2.c35.s8.40

(1) A reads सुधाम्नाय. B reads सुधाभाय. Both are unintelligible.
(2) Both A and B read संयुक्ता, which mars the metre.
(3) सर्व्वते धातुरुत्तमाः, a variant in A and B, which is grammatically incorrect.
(4) A and B read only संस्कारा, which is incorrect.
(5) Both A and B read कारकाः, which seems to be incorrect.
(6) B reads स्थानं तेषां.

v2.c35.s8.41

कथ्यतां देवदेवेश लक्षणलक्षणसंस्कृतिः । भेदोऽभेदोऽथ योगश्च मारणं चारणं तथा ॥ ३१ ॥ पातनं द्रावणं चैव त्रोटनं जारणं तथा । सारणं जीवनं षष्ठं गोपनं लेपनं पुनः ॥ ३२ ॥ जातिभेदः सुगन्धश्च मिलनं जरणं परम् । समग्रं कथ्यतां देव उपधातुकरी क्रिया ॥ ३३ ॥ महादेव उवाच । शृणु देवि प्रवक्ष्यामि धातुस्थानानि लक्षणम् । उपधातुर्नेका हि तेषां मारणचारणम् ॥ ३४ ॥ अक्षयं राग(?)कारं च शोधनं बन्धनं तथा । मारणादि च यत् प्रोक्तं तत् सर्वं श्रूयतां शुभे ॥ ३५ ॥

v2.c35.s8.42

(1) भेदामेदाय is the incorrect reading in A and B.
(2) A reads युतः, which is senseless.
(3) उपधातुर्नेकानि, an incorrect variant in A and B.
(4) Both A and B want this word, which may be supposed to be राग or बल here.
(5) तत् सर्वं कथयामि वे, a variant in A.

v2.c35.s8.43

पार्वत्युवाच । प्रथमं वद देवेश धातवनुक्रमलक्षणम् । प्रत्येकस्थानरूपं हि गुणसम्बन्धकारकम् ॥ ३६ ॥ महादेव उवाच । शृणु देवि प्रयत्लेन सिद्धान्तवचनं मम । येन विज्ञानमात्रेण जायते धातुकृत्क्रिया ॥ ३७ ॥ प्रयमे धातुनामानि संक्षेपात् कार्यकारणम् । कथयामि च ते भद्रे पश्चात् स्थानस्य संपदः¹ ॥३८॥ आदौ सुवर्णनामानि संक्षेपात् शृणुतां प्रिये । स्वर्णं सुवर्णं सूर्य्यश्च हाटकं वङ्गिरोचनम् ॥ ३९ ॥ सु(स)रङ्गं च तथा लोहं देवधातुमनोहरम् । वेशी² विश्वासगं चैव धम्मंदं ऋषिदेवता ॥ ४० ॥ जीवनम् अमृतं चैव हेम³ हिमवतोद्भवम्⁴ । देववल्लभगं दिव्यं संसारोत्तारणं महत् ॥ ४१ ॥

v2.c35.s8.44

¹ Both A and B read संपदि, which has no sense.

v2.c35.s8.45

² A reads वशी.

v2.c35.s8.46

³ हेम is generally used.

v2.c35.s8.47

⁴ हिमवदुद्भवं is the correct term.

v2.c35.s8.48

जीवनं सर्ब्लोकानां¹ नारीणां रञ्जनं शुभम् । अन्यानि विविधानामानि² गोप्यगोप्यतराणि च॥४२॥ रजतं च तथा रूप्यं चन्द्रश्चन्द्रस्य दोपकम् । शुभ्रज्योतिकरं⁴ स्वर्णैषद्वीजं तारकं तथा ॥ ४३ ॥ अनन्ता वर्त्तते तेषां कथा वृद्धिकराश्च ये । स्थापितं लौकिकं चैव⁵ येनाग्रन्यसमूह्नम् ॥ ४४ ॥ शीतवीर्य्यं लघुवीर्य्यं विषघ्नं वातनाशनम् । रसपुञ्जोकरं श्रीदं धातुपुञ्जनकारकम् ॥ ४५ ॥

v2.c35.s8.49

(1) The first term in the previous verse is only जीवनं. But here it is सर्ब्लोकजीवनं. Hence there is no repetition.
(2) अन्यानि विविधान् नामान्, an incorrect variant in A and B.
(3) गोप्यगोप्यतराणि च is the reading in A and B, which has no clear sense.
(4) A and B read शुभ्रज्योतिकरं, which is incorrect.
(5) A reads लौकिका येना, which leaves out चैव.

v2.c35.s8.50

रतिदं बहुवीर्य्यं च शुभधाम च संचयम् । एतानि रजतनामानि शतान्यन्यानि सन्ति वै ॥४६॥ ताम्रं च² चाम्बकाधिष्ठं शुल्वं नागस्य मर्द्दनम् । नीलं च नीलविभ्रमं वमनं³ चैव पातकम् ॥ ४७ ॥ उषाम् उष्ाकरं सिद्धं ककशं कालमर्द्दनम् । हेमगर्भ⁴ च कामोदं विषदं विषनाशनम् ॥ ४८ ॥ आरक्तश्च सहायश्च⁵ मन्मथो मार एव च । एतानि शुल्वनामानि अन्यानि विविधानि च ॥४९॥ जासत्वं च जरातितं रजतं यशदायकम् । रूप्यभ्राता वरीयश्च चोटकं कोमलं लघु ॥ ५ ०॥

v2.c35.s8.51

(1) A has शतान्यानि वर्त्तते. B has शतानानि वर्त्तते. Both the readings are grammatically incorrect.
(2) च is dropped in A and B.
(3) The sense of नीलविभ्रमं seems to be नीलविभ्रमं = नीलशोभम्. A reads चमनं, which is incorrect.
(4) A reads हैमगर्भं.
(5) A and B read सहायं च.

v2.c35.s8.52

चञ्चकं खर्परं चैव रसं रसवर्दकम्¹ । सदापथ्यं बलोपेतं पीतरागं सुभस्मकम ॥ ५१ ॥ एतत्त² खर्परनाम कार्यकर्मसु सिद्धिदम्³ । रसराजार्द्रकं कम्म⁴ कृतं सिद्धिषु⁵ जायते ॥ ५२ ॥ वपुस्तापहरं वङ्गं रजतारिञ्च⁶ नीरदम् । शीतवीर्यकरं श्रीदं रतिदं तापहारकम् ॥ ५३ ॥

v2.c35.s8.53

(1) रसाङ्कं, the reading in A and B, is not grammatically correct.

v2.c35.s8.54

(2) तत्त is the reading in A and B, which is incorrect.

v2.c35.s8.55

(3) Both A and B read कार्यकर्मेषु सिद्धिदान्, which is grammatically incorrect.

v2.c35.s8.56

(4) रसराजार्द्रकान् कष्मान्, an incorrect variant in A and B.

v2.c35.s8.57

(5) A reads कृते सिद्धिषु. B reads कृते सिद्धिषु. Both are incorrect.

v2.c35.s8.58

(6) Both A and B read रजतानि च, which is senseless here.

v2.c35.s8.59

मेच्छ्रं माहलाद्(?)भूतं सहायं धातुशेषयोः । एतानि त्रपुनामानि सुसिद्धं कार्यकारकम्¹ ॥५४॥ सीसकं² धातुभङ्गं च मृतकं रोचकं परम् । रक्तं च रक्तवीर्यं³ च रक्तस्तुविवर्धनम् ॥५५॥ अन्तरूप्यं च गम्भीरं धातुभञ्जनकारकम् । ग्राहकं रसराजेन अच्छोभ्याच्छोभणं परम् ॥५६॥ विचित्रं विनतं चैव नानारङ्गप्रदायकम् । नागं नगालयं प्रोक्तं सिक्थकं कण्ठशोधनम् ॥५७॥ षण्डं षण्डकरं⁴ चैव दुरितं षण्डकारकम् । एतानि⁵ नागनामानि कार्यकाले प्रयोजयेत् ॥५८॥ लोहं च आयसं शूरं सूर्यकर्मविशारदम् । हन्तकं खननं स्वर्णमारकं⁶ ताटकं मलम् ॥५९॥

v2.c35.s8.60

¹ सुसिद्धे कार्यकारकान्, an incorrect variant in A. and B.

v2.c35.s8.61

² A and B read शीशकं.

v2.c35.s8.62

³ B has only रक्तं वीर्यं च, which is incomplete.

v2.c35.s8.63

⁴ A reads खंडं खंडकरं चैव.

v2.c35.s8.64

⁵ A and B read एतत्ते, which is incorrect.

v2.c35.s8.65

⁶ A has स्वर्णं मारकं. B has स्वर्ण मारकं.

v2.c35.s8.66

अजरं च जरायुक्तं धात्वाद्यम् अवनीसुतम् । कालेयं जीषणं कालं रुधिरं रोगनाशनम् ॥ ६० ॥ ग्रन्थिदं सर्व्वधातूनाम् अक्षोभ्यं जलवह्निषु । वह्निदं वह्निवोजं च सर्व्वधातुसहायकम् ॥ ६१ ॥ एतानि लोहनामानि ज्ञात्वा कम्माणि कारयेत् । जायते¹ सकला सिद्धिर्वियोगयोगसंयुता² ॥ ६२ ॥ नामानि धातुसंयोगे जातानि तानि च शृणु³ । शुल्वखर्परसंयोगे जायते पित्तलं शुभम् ॥ ६३ ॥ पित्तलं चैव नारोकं कफदं गन्धदुर्ज्यम् । वर्णदं दुब्बलं चैव रजतं वल्लभं लघु ॥ ६४ ॥ वङ्गताम्रसंयोगेन जायते तेन⁴ कांस्यकम् । कांस्यकं कोमलं चैव नैरसं रसकाठिनम्⁵ ॥ ६५ ॥

v2.c35.s8.67

(1) A reads नीयते.
(2) वियोगायोग is the variant in A. विषोगायोग is the variant in B. Both the readings seem to be incorrect.
(3) जातानि च ते शृणु, an incomplete variant in A and B.
(4) A has जातेनैव. B has जायते तेनैव.
(5) A and B read erroneously कठिनं.

v2.c35.s8.68

तीव्रनादं महाशब्दम्¹ उग्रकान्ति रविग्रहम् । ज्वालापिधानं रौद्रं च ग्राहकं² धूमरोधनम् ॥६६॥ एतानि³ कांस्यनामानि कार्यकाले प्रयोजयेत् । बन्धने धारणे चैव मुद्रणे धूमबन्धने ॥ ६७ ॥ खर्परैः सह पारदं दिव्यं⁴ किञ्चित् प्रमेलयेत् । जायते रसको नाम नानारोगहरो भवेत् ॥ ६८ ॥ नागस्तु रहते⁵ होनो मृतधातुस्तु जायते । स एव कोमलाग्निस्थः⁶ सिन्दूरं जायते ध्रुवम् ॥६९॥

v2.c35.s8.69

(1) A reads महच्छब्दं. B reads महत्शब्दं. Both the readings are incorrect.
(2) A reads व्याहकं, which has no clear sense.
(3) A and B read एतसे, which is incorrect
(4) पारदो दिव्यो is the reading in A and B, which is incorrect.
(5) B reads रहते, which is not correct.
(6) कोमलाग्निस्थे is the reading in A and B, which is not correct.

v2.c35.s8.70

अनेकाः¹ साधयेद्विद्या मन्त्रयन्त्रकरोः क्रियाः । पूजनार्थे मम गुणाः सब्बे कल्पितरोचनाः² ॥७०॥ ताम्रदाहजलैर्योगे जायते तुल्यकं शुभम् । नाना रसायनी विद्या साधयेत् सा³ सदैव हि ॥७१॥ रसरसक(?)⁴ योगेषु राजमर्य्यादा जायते । राजकं जायते नाम नारी राजकलागतिः⁵ ॥ ७२ ॥ संयोगे साधनं दिव्यं वियोगे साधनं शुभम् । वियोगं पुननैर्योगं रसतान्ने शुभो विधिः⁶ ॥ ७३ ॥

v2.c35.s8.71

(1) A reads अनेका. B reads एतका. Both are incorrect.
(2) A and B read कल्पितरोचनं.
(3) सा is not found in A and B.
(4) A and B read रसारसयोगेषु, which is incomplete.
(5) नाराराजकलागतिः, a variant in A. नाराजकलागतिः, a variant in B. Both the readings seem to be incorrect.
(6) A and B read शुभविधिः.

v2.c35.s8.72

अनेका साधनी विद्या साधयेद्रव्यकाङ्क्षितम्¹ । लभते रसायनीं विद्यां स्वस्थोऽपि विहतोद्यमी ॥७४॥ अनेनैव प्रकारेण ज्ञायते नाम कम्मभिः । नामकम्मज्ञता² जाते चित्ते निर्मलता³ भवेत् ॥७५॥ एतत्ते कथिता धातोरुपधातोस्तु तां⁴ शृणु । येन विज्ञानमात्रेण कालकाल्या⁵ न लिप्यते ॥७६॥ उपधातोस्तु मध्येषु श्रेष्ठा माता रसायनी । तस्या नामानि वक्ष्यामि पश्चात् स्थानगुणानपि⁶ ॥७७॥

v2.c35.s8.73

¹ A reads द्रव्यकोखिनः. B reads द्रव्यकाङ्क्षितः.

v2.c35.s8.74

² A and B read नामकर्मदाजाते, which is unintelligible.

v2.c35.s8.75

³ A and B read निर्मला, which is not grammatically correct.

v2.c35.s8.76

⁴ A and B read ते, which is incorrect.

v2.c35.s8.77

⁵ A reads कालकाव्य. B reads कालकाष्. Both the readings are incorrect.

v2.c35.s8.78

⁶ Both A and B read गुणानि च, which is incorrect.

v2.c35.s8.79

हरितालं विसङ्गा च रङ्गदीप्तिकरी सदा । तालं च हरिता हंसी श्वेतपीतविधायिनी ॥ ७८ ॥ नर्त्तकस्य प्रिया देशी निशा चैव निशाचरी । पारदस्य क्षयकरी पत्रच्छेदकरी स्मृता¹ ॥ ७९ ॥ रोगहा जोविनो जेत्री जरादारिद्रनाशिनी । एतानि तालनामानि संक्षेपात् कथितानि ते² ॥८०॥ युक्तो ज्ञानेन यः³ कर्त्ता अक्षोभ्यो⁴ जायते सदा । अनेनैव प्रकारेण कर्त्ता कर्माणि साधयेत् ॥ ८१ ॥ मनःशिला शिला शृङ्गी कुनटी च कृतोद्यमा । दरदा⁵ भगिनी देशी सिन्दूरस्य सखी सदा ॥ ८२ ॥

v2.c35.s8.80

(1) The 78th and 79th slokas are not found in A.
(2) संक्षेपे चिकथ्यानिते, a variant in A and B, which has no sense.
(3) युक्तज्ञानेन ये, an incorrect variant in A and B.
(4) A reads अक्षन्यो, which is incorrect.
(5) B reads देरदा.

v2.c35.s8.81

पुष्पा पुष्पवती¹ पत्री शालिनी रसिनो गुणा । एतत्त च शिलानाम² कार्यकाले प्रयोजयेत् ॥८३॥ अभ्रकं चैव व्योम³ च गगनं ग्राहकं परम् । दुष्टवीर्य्यञ्च वातञ्च वह्निनादोन्नताकृति⁴ ॥ ८४ ॥ अजरम् अमरं घोरं घोरषण्डत्व⁵नाशनम् । रसमूलरसातीतं रसज्ञे राज्यवर्धनम् ॥ ८५ ॥ अमृतम् अमर⁶ चैव महामृत्युविनाशनम् । एतान्यभ्रकनामानि ज्ञात्वा कर्माणि कारयेत् ॥८६॥ सोमलं मल्लराजं च विषं वातविनाशनम् । श्वेतवीर्य्यं बलग्न्यि नीलउज्ज्वलकारकम् ॥ ८७ ॥ स्वेदनं भेदनं चैव कामवीर्य्यविवर्द्धनम् । बन्धनं सर्व्वधातूनां मारणं पारदे रसे ॥ ८८ ॥

v2.c35.s8.82

(1) A reads पुष्पवत्ती.
(2) एतत्ते च शिला नामन्, an incorrect variant in A and B.
(3) Generally used as व्योम.
(4) A reads वह्निनाइ एतः क्षतिः, which is incorrect.
(5) A and B read खंडत्व, which is incorrect.
(6) A repetition of the name.

v2.c35.s8.83

गगनग्राहके दिव्ये रसयुग्मे प्रमेलनम् । एतानि मङ्गनामानि कार्यकाले प्रयोजयेत् ॥८९॥ हीनधातोश्च नामानि संक्षेपात् तानि च शृणु¹ । येन विज्ञानमात्रेण जायते पारदी क्रिया ॥ ९० ॥ मुक्ता मुक्ताफलं वारि वारिजं स्वातिसम्भवम् । शुक्तिगर्भं² च सगरं शृङ्गारं मङ्गलोदयम् ॥ ९१ ॥ तैजसम्³ अमृतोद्भूतं शीतलं श्लीमीं मनः⁴ । स्वयम्भुवं कलं दीप्तं स्त्रियि सौभाग्यदायकम्⁵ ॥९२॥ रतिराजग्रहः शोभाकामसन्दीपनं तथा । मुक्तानामानि रम्याणि⁶ ज्ञात्वा कर्माणि कारयेत्॥९३॥

v2.c35.s8.84

(1) A reads वते शृणु, which is incorrect.
(2) B reads मुक्तिगर्भं, which is not correct.
(3) B reads तैजसं, which is incorrect.
(4) B reads मनः, which is not correct.
(5) स्त्रियि सौभाग्यदायिनं, an incorrect variant in A and B.
(6) A and B read ते रम्यान्, which is incorrect.

v2.c35.s8.85

विद्रुमं वरदं¹ वेलावलीजातं प्रबालकम् । नोरसम्² अधरेसौमा शिखरं शिखरोज्भवम् ॥ ८४ ॥ वर्णदं विवरं चैव ग्रैवेयं³ च विभूषणम् । विद्रुमस्यैतन्नामानि⁴ कार्यकाले प्रयोजयेत् ॥ ८५ ॥ चम्मकं कूर्मकं चैव कमठपृष्ठं सकालकम् । कमठं कर्कशं चैव कलिङ्गजात⁵माशुभम् ॥ ८६ ॥ कचकं कदहुः⁵ कम्भ लोके कचकटं तथा । एतानि कूर्मपृष्ठस्य नामानि च विशेषतः ॥ ८७ ॥ शङ्खं च जलजं चैव देववादित्रमेव च । विष्णुवल्लभकं⁷ चैव सोमदैवतकं शुभम् ॥ ८८ ॥

v2.c35.s8.86

(1) A reads विद्रुमे वरदं. B reads विद्रुमे वरदे.
(2) A reads नोरसे.
(3) A and B read ग्रावेयं.
(4) A has विद्रुमैनवि. B has विद्रुमैनानि. Both are incorrect.
(5) कलिङ्गमाशुभं is an incomplete variant in A and B.
(6) A has कन्वककदहुः. B has कचकहहुः.
(7) B reads erroneously विष्णुवल्लभाभकं.

v2.c35.s8.87

वरायुधं च वरदं शुभ्रं माङ्गल्यदायकम् । अजेयं सर्व्वजन्तूनां दानवास्थि वरोदयम्¹ ॥ ९९ ॥ गम्भीरं घोषशब्दं च पवित्रं पारदं गृहम् । एतानि² शंखनामानि वामदक्षिणौ³ ॥ १०० ॥ शुक्तिका सौफिका⁴ कान्ती मुक्तामाता गरीयसी । चन्द्रपत्नी पयोग्राही संपुटो पटवादिनी ॥ १०१ ॥ रजताभासिनी दीप्ता वङ्गवारिविशोषणी । पद्माकरीगतिः पद्मगर्भ⁵ समुद्रसम्भव ॥ १०२ ॥ उत्तमा मध्यमा नीचा त्रिविधा सागरोद्भवा । नद्युद्भवा तु सा नीचा⁶ नोचकर्मविशारदा ॥ १०३ ॥

v2.c35.s8.88

¹ Both A and B read वरं द्यं, which destroys both grammar and metre.

v2.c35.s8.89

² A and B read एतत्, which is grammatically incorrect.

v2.c35.s8.90

³ A reads वामदक्षिणयाकभौ. B reads वामदक्षिणौभौ.

v2.c35.s8.91

⁴ B has only सौका.

v2.c35.s8.92

⁵ A and B read पद्मगर्भ.

v2.c35.s8.93

⁶ नद्युद्भवा तन्नीचा, an incomplete variant in A. नद्योद्भवा तन्नीवा, an incorrect and incomplete variant in B.

v2.c35.s8.94

एतत्तुलक्षणंशुक्तेः¹कर्मकालेप्रयोजयेत्²। ज्ञात्वायःकुरुतेकर्मसिद्धयेत्सकलंफलम्॥१०४॥ गजोद्भवंरदं³दन्तंद्विजंचैवतुपुष्पकम्। नारीसौभाग्यदंचैवगजभूषणसम्मुखम्॥१०५॥ तैलरत्नाकरंश्रीदंसंपुटंपुटिकंतथा। नामानिगजदन्तस्यअन्यानिमध्यमानिच⁴॥१०६॥ पिच्छंकुकुटंचैवशिखिपिच्छंसुचित्रकम्। हरिमौलिधरंश्रीदंमोहनंचन्द्रकांतथा॥१०७॥ नागारिसर्पदमनंविषदंविषनाशनम्। एतानि शिखिपिच्छस्यनामानिविविधानिच ॥१०८॥

v2.c35.s8.95

(1) A and B read एतत्तेलक्षणशुक्ति, which is an incorrect variant.

v2.c35.s8.96

(2) कर्मकार्येंप्रयोजने, a variant in A, which seems to be incorrect.

v2.c35.s8.97

(3) A reads वरदं, which is incorrect.

v2.c35.s8.98

(4) अन्यस्तेमध्यगानिच, a variant in A and B, which is grammatically incorrect.

v2.c35.s8.99

नखं सहृदयपुरं¹ धातुकोमलकारणम्² । वज्रं³ दुर्गन्धिकं चैव तुरीटापस्तु क्षोभकम्⁴ ॥१०९॥ कचं केशं च बालं च मूर्धजालकमेव च । श्मश्रुं चैव घनं प्रोक्तं कर्कशं नर्मदं लघु ॥११०॥ एतानि धातुनामानि यथाकर्मभिधानकम् । ज्ञात्वा आरभ्यते कर्म स्वस्थे सिद्धिः प्रजायते ॥१११॥ पार्वत्युवाच । शम्भो शङ्कर विश्वेश विश्वनाथ जगद्गुरो । श्रुतानि चैव नामानि स्थानानि कथ्यतां⁵ प्रभो ॥११२॥

v2.c35.s8.100

(1) न हृदयपुरं, a variant in A. न हृदयपुरं, a variant in B. Both are incorrect.
(2) B reads कारकं.
(3) B reads वज्रे, which is not correct.
(4) A reads तुरीटापसुक्षोभकं.
(5) A and B read कथतां, which is grammatically incorrect.

v2.c35.s8.101

शृणु देवि प्रयत्नेन स्थानानि विविधानि च । सुवर्णस्योदयो धातोः सर्व्वव्यापकपर्व्वते¹ ॥ ११३ ॥ पार्थिव्यं हि च तत् सर्व्वं² मृदामध्यात् प्रजायते । तस्मात् स्थानस्य संक्षेपः श्रूयतां सादरं³ शुभे ॥११४॥ हेमं च प्रथमं कल्पं मेरुमध्ये सदैव हि । दुर्लभं मर्त्यलोकेषु कष्टेनैव तु लभ्यते ॥ ११५ ॥ पुनर्हेमाद्रिणा तेन जायते सर्व्वदा शुभे । महाश्रोतकृते⁴ तेन दुर्लभं स्यात् सदैव हि⁵ ॥११६॥ पश्चाज्जम्बूनदोद्भूतं जम्बूद्वीपेषु जायते । तच्च कष्टतरं मन्ये दुर्लभं तत् सदैव हि ॥ ११७ ॥

v2.c35.s8.102

(1) A reads वत्तौत. B reads पत्तौत. Both the readings are incorrect.
(2) पार्थिव्यानि च ते सर्व्वं, an incorrect variant in A and B.
(3) A and B read सादरान्, which is incorrect.
(4) A reads महत्सौतकृते, which is incorrect.
(5) B reads सदैव हि, which is incorrect.

v2.c35.s8.103

पृथिव्यां धातुमध्येषु सर्वेषामधिकं सदा । लोहाधिकतरं तत्र ज्ञातव्यं सर्वदा शुभे ॥ ११८ ॥ कष्टे निःसारणं तेषां मौल्यादधिकं जायते । तस्मात्तेनैव यत्नेन साधनं क्रियते नरैः¹ ॥ ११९ ॥ असाध्यसाधनं तस्य जातं सर्वयुगे शुभे । तस्मात्तु² बहुमूल्येन सर्वधातूपरिस्थितिः³ ॥ १२० ॥ पुनः स्थानं कृतं तेन लङ्कायां च सदैव हि । उङ्कितं तेन यत्नेन मत्ताद्⁴भूतं मया शुभे ॥ १२१ ॥

v2.c35.s8.104

¹ A has क्रयते नराः. B has ज्ञयते नराः. Both are incorrect.

v2.c35.s8.105

² A and B read तस्मात्ते, which is incorrect.

v2.c35.s8.106

³ सर्वधातोपरिस्थितिं, an incorrect variant in A and B.

v2.c35.s8.107

⁴ A and B read erroneously मत्याद्.

v2.c35.s8.108

पार्वत्युवाच । महारुद्र शङ्कर श्रीमन्⁵ लोकनाथ जगत्पते । कथं ते मानुषे भौतिः⁶ कथ्यतां परमेश्वर ॥ १२२ ॥

v2.c35.s8.109

⁵ श्रीमान्, a reading in A and B, is not correct.

v2.c35.s8.110

⁶ मानुषाद्भीतिः is the correct form.

v2.c35.s8.111

सुवर्णस्यैषा महती¹ भौतिमानुषसम्भवा । उच्चो नीचपदं सम्यक् जायते बहुले रतिः ॥ १२३ ॥ मया मानुषभीतेन² उङ्कितं सादरण च । दुर्लभं च विशेषेण प्राक् कलियुगे इदम्³ ॥ १२४ ॥

v2.c35.s8.112

पार्व्वत्युवाच । मदीये मानसे नाथ जातोऽसौ संशयो महान् । भवतां मानुषी भीतिः कथं तु जगदीश्वर⁴ ॥ १२५ ॥

v2.c35.s8.113

महादेव उवाच । कारणं वर्त्तते देवि अव्याख्येयं सदैव हि । कथनीयं त्वयि भद्रे यतस्त्वं⁵ मम वल्लभा ॥ १२६ ॥

v2.c35.s8.114

(1) A and B read सुवर्णस्यैषां महतान्, which is not correct.

v2.c35.s8.115

(2) मां च मानुषीभीतेन, an incorrect variant in A and B.

v2.c35.s8.116

(3) A and B read इमे. This foot is incomplete.

v2.c35.s8.117

(4) A reads कथं ते जगदीश्वरं. B reads कथं ते जगदीश्वरः. Both are incorrect.

v2.c35.s8.118

(5) यत्तेत्वं is an incorrect variant in A and B.

v2.c35.s8.119

बुद्धिचतुरतावृद्धिर्जायते च कलौ युगे । मानुषे च भवतीह¹ मम क्षोभानुवर्त्तिनी ॥ १२७ ॥ तस्मात्तैर्बहुले² द्रव्ये साध्यते गन्धकी क्रिया । अथवा पारदो चैव मम क्षोभानुवर्त्तिनी ॥ १२८ ॥

v2.c35.s8.120

पार्व्वत्युवाच । श्रुता सा गन्धकी विद्या सर्व्वसौभाग्यदायिनी । सङ्गमक्षकृता सा च³ न सिध्यति गरीयसी ॥ १२९॥ भवता पूर्व्वमुक्तं हि सङ्गमक्षरणयोगतः । न सिध्यति च ते विद्या सदा गन्धकपारदो ॥ १३०॥ तस्मात्तु कथ्यतां देव मनो⁴म्लानिर्विवर्जितम् । सुवर्णसाधिनों विद्यां⁵ तस्माद्वदतु मे विभो ॥१३१॥

v2.c35.s8.121

(1) A and B read भवतीह, which is not correct.
(2) A and B read तस्मात्तै, which is incorrect.
(3) A and B read ते च.
(4) A reads मत.
(5) A and B read सुवर्णसाधिनी विद्या.

v2.c35.s8.122

मानसं मदीयं देवि जातं सम्यक् सुनिर्मलम् । तथापि मानुषे भीतिर्विद्या¹ गन्धकपारदी ॥१३२॥ सङ्घभक्षणजं कष्टम्² उभे मेलापनं महत् । सुष्ठु मन्त्रकृते वह्नौ ज्वलते तत्क्षणात् ततः ॥ १३३॥ मन्त्रवत् साधयेद्विद्यां साधयेद्यत्नतः क्रमात् । तस्मात्तेनैव महता गोप्या रिद्धिकरी क्रिया ॥१३४॥

v2.c35.s8.123

पार्वत्युवाच । पुरा प्रोक्तं त्वया नाथ पटले पञ्चदशके³ । कैलासात् परमं सौख्यं भजते मन्त्रविज्जनः ॥ १३५॥ क्रिया गन्धकिनी⁴ मध्ये अथवा पारदी शुभे । कैलासाधिकं सौख्यं भुञ्जते विधिवन्नराः⁵ ॥१३६॥

v2.c35.s8.124

(1) A and B read विषे, which is senseless.
(2) A and B have काष्ठं, which is incorrect.
(3) पटले पंचाधिके, a variant in A and B, which is in-complete.
(4) A and B read गंधकिना.
(5) A and B read नरः, which is incorrect.

v2.c35.s8.125

निर्मलं मानसं जातं तव वाक्यविमोहितम् । कथयामास ते भद्रे गुणलक्षणसंयुतम्¹ ॥ १३७ ॥ स्वर्णोत्पत्तिस्थलं² नित्यं सर्वत्रापि विधीयते । उत्पादनगतिस्तस्य स्थाने स्थाने पृथक् पृथक् ॥ १३८ ॥ श्रूयतां वरदे देवि स्थानं चैव यथोदितम् । तस्य वातोत्थजा रेणुर्धमने स्वर्ण³ जायते ॥ १३९ ॥ पावकाद्रेर्भुवावाहुः⁴ समरत्नाकरे तथा । समुद्रस्य तटे दिव्ये स्थानं स्यात् स्वर्णकस्य च ॥ १४० ॥ स्वल्पं च सिन्धुदेशेन कामरूपैस्तथैव च । अन्यैस्तु विविधैः स्थानैः साम्प्रतोत्पत्तिर्जायते ॥ १४१ ॥

v2.c35.s8.126

¹ A and B read संयुतः, which is not accurate.

v2.c35.s8.127

² Both A and B read स्वर्णोत्पत्तिः स्थलं, which is not correct.

v2.c35.s8.128

³ A and B add च after स्वर्ण.

v2.c35.s8.129

⁴ A reads पावकाद्रस्य शुभावाहुः. B reads पावकाद्रस्य भुवावाहुः.

v2.c35.s8.130

तत्र तत्रोत्पत्तिस्तेषां यत्र यत्र हिमद्रवः । प्रसरन्ति भुवि संघाः¹ संशयो नास्ति ते सदा॥१४२॥ ताम्रोत्पत्तिश्च महता सुखेनैव प्रजायते । तेषां स्थानानि वक्ष्येऽहं² यायातथ्येन च शृणु³ ॥१४३॥ नेपाले कामरूपे च⁴ वङ्गले मदनेश्वरे⁵ । गङ्गाद्वारे मलाद्रौ च म्लेच्छदेशे तथैव च ॥ १४४ ॥ पावकाद्रौ जीर्णदुर्गे रूमदेशे फिरङ्गके । एतान्युदितस्थानानि⁵ सर्वपर्वतके⁷ सदा ॥ १४५ ॥ जासत्वं यत्तु⁸ दिव्यं हि स्थानानि तस्य च शृणु । कुम्भाद्रावथ⁹ काम्बोजे रूमदेशे बलत्तति ॥ १४६ ॥

v2.c35.s8.131

(1) संघाः is the variant in A. संघा is the variant in B.
(2) स्थानान् प्रवक्ष्याहं is the incorrect variant in A and B.
(3) A and B read ते शृणु.
(4) नेपालं कामरूपं च, a reading in A and B.
(5) वङ्गलं मदनेश्वरं, a variant in A and B.
(6) एतानि उदितस्थानात्, an incorrect variant in A.
(7) A and B read सपर्वतगे, which is incorrect.
(8) A and B read यत्त.
(9) A and B read कुम्भाद्रथ, which is incorrect.

v2.c35.s8.132

एतान्युभयोः स्थानानि¹ रजःस्थानं च² उच्यते । जासत्वं वङ्गले नागं नेपालि च सदैव हि ॥ १४७ ॥ केदारे कम्बिकाण्डे च त्र्यम्बके त्रिपुरे तथा । एतत्स्थानानि दिव्यानि³ गोप्यान्त्यन्यानि तानि ह⁴ ॥ १४८ ॥ लोहाद्रौ⁵ लोहकृतकम्भं गयाद्रौ⁶ गौतमाद्रिके⁷ । विन्ध्यमध्ये⁸ हि सर्वत्र नलाद्रौ⁹ निष्कलेऽपि वा ॥ १४९ ॥

v2.c35.s8.133

(1) एति उभयोः स्थानात्, a reading in A. एति उभयोः स्थानात्, a reading in B.
(2) A and B read रजस्थानानि.
(3) A and B read स्थानकान् दिव्यान्.
(4) अन्या गोप्या वितेति ह, a variant in A and B, which is senseless.
(5) A and B read लोहाद्रे, which is incorrect.
(6) Do. Do. गयाद्रे, Do.
(7) Do. Do. गौतमाद्रिणे, Do.
(8) Do. Do. वन्ध्यमध्ये, Do.
(9) Do. Do. नलद्रे, Do.

v2.c35.s8.134

त्र्यम्बके विमले¹ चैव लौहाकश्ालिवाहन ।
समुद्रस्य तटे रम्ये आये अन्ते च मध्यगे ॥ १५० ॥
लोहस्यैतानि स्थानानि² हाटकैश्च³ सदैव हि ।
किञ्चित्⁴ गोप्यानिवि दिव्यानि संस्कारैः रहितानि च⁵
॥ १५१ ॥
युक्ते तु संस्कृते तेषु स्वर्णी सिद्धिः प्रजायते ।
अयुक्ते नैव लभ्या तु⁶ युक्ते प्राप्तिः सदैव हि ॥ १५२ ॥
पारदे गन्धके धात्वोः योग औषधकृत्⁷ सदा ।
मानसे निर्मले चैव लभ्यते⁸ हाटकी क्रिया ॥ १५३ ॥

v2.c35.s8.135

¹ A reads त्रिमले.

v2.c35.s8.136

² लोहस्यैतानि च स्थानात्, a variant in A and B, which is incorrect.

v2.c35.s8.137

³ A reads हाटके च.

v2.c35.s8.138

⁴ केचित् is the reading in A and B, which is incorrect.

v2.c35.s8.139

⁵ A reads ले. B reads ते.

v2.c35.s8.140

⁶ A and B read लभ्यते, which is not correct.

v2.c35.s8.141

⁷ Do. Do. यं.ग्यौषधकृत्, Do.

v2.c35.s8.142

⁸ Do. Do. लभते, Do.

v2.c35.s8.143

(1) A reads त्रिमले.
(2) लोहस्यैतानि च स्थानात्, a variant in A and B, which is incorrect.
(3) A reads हाटके च.
(4) केचित् is the reading in A and B, which is incorrect.
(5) A reads ले. B reads ते.
(6) A and B read लभ्यते, which is not correct.
(7) Do. Do. यं.ग्यौषधकृत्, Do.
(8) Do. Do. लभते, Do.

v2.c35.s8.144

अन्यथा नैव लभ्या तु¹ विना मन्त्रेण सिध्यति । तस्मादेवं² प्रयत्नेन निर्मलं मानसं शुभम् ॥ १५४ ॥ अशुभं समलं चैव मानसं सर्वदा भवेत् । तस्मात्तु चतुराहारे³ सर्वदा शुभमानसः ॥ १५५ ॥ जायते च क्रिया सिद्धा हाटकी भवति सर्वदा । मन्त्रसिद्धिः प्रजायेत सर्वकर्माणि साधयेत् ॥ १५६ ॥ अनेनैव प्रकारेण उत्तमा हाटकी क्रिया । सर्वकार्यकरी नृणां चतुर्वर्गफलप्रदा ॥ १५७ ॥

v2.c35.s8.145

महादेव उवाच । प्रोक्तसंपुटके चैव स्थूलकाचीयकेन च । उष्णाङ्गारकृते अग्नौ⁴ मुमुरं द्वारिकजम् ॥ ८ ॥

v2.c35.s8.146

(1) A and B read लभ्यंते, which is not correct.
(2) A and B read तस्मादेवं, which is not correct.
(3) A reads चतुराहारे, which is unintelligible.
(4) A reads कृतेरग्नि. B reads चतेरग्नि.

v2.c35.s8.147

खर्पराख्ये पुटे चैव आरख्योत्पलकेन च । सार्धं विनास्ति(?)गति च ज्वलिते अर्धमर्धगे¹ ॥ १० ॥ एवानुक्रमतो योगे पुटमेकं च जायते । चतुरंशेन जासत्वं सुवर्णाद्वापयेत् सुधीः ॥ ११ ॥ प्रति संपुटपुटे चैव उङ्खयेत् कुण्डखर्परे । स्वाङ्गशीतं² समुद्धृत्य लेपमुत्तारयेत्ततः³ ॥ १२ ॥ पुनर्लेपः प्रदातव्यः⁴ पुनः क्षारान् प्रदापयेत् । पुनरेव घोटनं देयं सादरं पुनरेव हि ॥ १३ ॥ अनेनैव प्रकारेण तुर्यांशसंपुटेन हि । सुवर्णसंयुक्तं तच्च⁵ गालयेत् क्षारसंयुक्तम् ॥ १४ ॥ ज्वलिते तोलयत्येव तिलाधं संपुटं प्रति । नम्नोभूतं च रक्षेयं संस्कारैः शुध्य साम्मतम् ॥ १५ ॥

v2.c35.s8.148

¹ A and B read ज्वलितेरर्धर्धगा.

v2.c35.s8.149

² स्वांगशीतेन is the reading in A and B, which is not accurate.

v2.c35.s8.150

³ A and B read लेपमुत्तारणं ततः, which is incorrect.

v2.c35.s8.151

⁴ A and B read पुनर्लेपं प्रदातव्यं, which is not correct.

v2.c35.s8.152

⁵ A and B read ते च, which is incorrect.

v2.c35.s8.153

एतत्क्रमक्रमेणैव सुवर्ण¹मनुसंचय । तद्गुणे शोणमापीते महत्ततः प्रजायते ॥ १६ ॥ आरक्तं पीतसंयुक्तं जायते हाटकं महत् । हाटकं मत्तकं² चैव न च हीनेन योजयेत् ॥ १७ ॥ कलागुणते वृद्धिर्जायते उत्तमे नरे³ । अनेनैव प्रकारेण मात्राद्विगुणं दापयेत् ॥ १८ ॥ कलात्रय⁴मिते वृद्धिर्वापिता वृद्धिरीष्यते । निर्दोषं जायते दिव्यं द्रव्यसंपत्तिदायकम् ॥ १९ ॥

v2.c35.s8.154

पार्वत्युवाच । अधिकेन कृते तत्र⁵ शोणपाने सुशोभने । जायते कीदृशं देव संयोगे अधिके सति ॥ २० ॥

v2.c35.s8.155

(1) A and B read सुवर्णान्, which is not correct.
(2) A and B read हाटके मत्तके चैव.
(3) उत्तमो नरः, a variant in A and B.
(4) A and B have कलातकं.
(5) A and B have ते च, which is incorrect.

v2.c35.s8.156

शोणपाने च संयोगे भङ्गदः अस्ति¹ निश्चयः । द्विगुणं² शोणपानेन कलंकं जायतेऽशुभम्³ ॥ २१ ॥ वेधसंगं सुधनार्थे त्रिंशांशे दिक्पलोपमम् । अतिरिक्तकृतं तच्च जायते सगुणं महत् ॥ २२ ॥ गालयेद्यवपूर्वेण क्षायेद्रससांशके । समांशे गन्धकं देयं शुद्धं पीतक⁴ रागकम् ॥ २३ ॥ त्रितुर्थ्यांशकं तालं दापयेद्रसमोदितम् । तदद्धं सादरं देयं मर्दयेत् कन्यकारसे ॥ २४ ॥ यामत्रितयमामद्य⁵ छायाशुष्कमण्डजे रसे । अतिशुल्बतरे खल्ले अथवा लोहसंभवे ॥ २५ ॥

v2.c35.s8.157

(1) A and B read भंगदा अस्ति, which is incorrect.
(2) Do. द्विगुणे.
(3) Do. शुभं, which appears to be incorrect.
(4) Do' पीयत, which is senseless
(5) यामत्रयमामद्य, an incomplete variant in A and B

v2.c35.s8.158

मर्येद्वयवपूर्वेण छायाशोषितं कारयेत् । काचकूप्ये प्रदातव्यं वल्लिर्बालुकयन्त्रगः² ॥ २६ ॥ नखसंख्यामिते यामे पाचयेद्रसं शोभने । स्वाङ्गशीति तु संजाते पुनः खल्वे निधापयेत् ॥ २७ ॥ रमेनानेन आमर्द्य छायाशोषितं कारयेत् । उक्तायामे रसे³ दत्ते पुनः शोषं⁴ प्रदापयेत् ॥ २८ ॥ उक्ताग्नौ दापयत्येव पुनः संस्कारमाचरेत् । संस्कारे त्रिविधे जाते अग्निपूर्वे क्रमोदिते ॥ २९ ॥ जायते रसराजोऽसौ सर्वसामर्थ्यदायकः । संचयेत्तण्डुलार्धस्तु अतिविक्रमवेगवान् ॥ ३० ॥ जायते प्रबला बुद्धिः त्रिदिने सेवते यदि⁵ । सार्धद्विविक्रमेणैव दिने मासफलं सदा ॥ ३१ ॥

v2.c35.s8.159

(1) प्रदातव्या, a reading in A and B.
(2) यन्त्रा, a reading in A and B.
(3) रसो is the variant in A and B.
(4) शोष is the incorrect reading in A and B.
(5) A and B read सेवन्यपि, which is grammatically incorrect.

v2.c35.s8.160

जायते नात्र सन्देहः सिद्धिर्गन्धकसम्भवा । अनेनैव प्रकारेण रससिद्धिः प्रजायते ॥ ३२ ॥

v2.c35.s8.161

पार्व्युवाच । श्वेतता कर्मणा केन¹ जायते रजतेषु च । क्रमेण राजती सिद्धिः पश्चादाटकसम्भवा ॥ ३८ ॥

v2.c35.s8.162

¹ केन कर्मेण, an incorrect variant in A and B.

v2.c35.s8.163

महादेव उवाच । अथानन्तरता विद्या धातुसंस्कारकारिणी । जासत्वे² कठिने जाते शुद्धे कोमलकारिणी ॥ ३९ ॥ तथाच पीतशुल्वेषु जायते शुद्धनम्रता । शृणु यत्ने क्रिया दिव्याः शुद्धजासत्वसम्भवाः ॥ ४० ॥ पिष्टं हयखुरोत्थं च द्विगुणं धातुतः सदा । अर्धन्तु दापयेत् स्त्रावे अर्धं निम्ने च³ रक्षयेत् ॥४१॥

v2.c35.s8.164

² जासत्वं is the reading in A and B, which is not correct.

v2.c35.s8.165

³ A and B read निम्नेन.

v2.c35.s8.166

निर्मलं धातुजं द्रावं स्रावचूर्णेन ढालयेत् । यदधं च स्थितं निम्नं तत्कालं दापयेत् सुधीः ॥४२॥ उपरि संपुटं देयं समुद्रकुकुटे पुटे¹ । स्वाङ्गशीतं समुद्धृत्य जायते निर्मलं महत् ॥ ४३ ॥ जासत्वे सोमलं देयम् उक्तभागेन² साम्प्रतम् । चूर्णान्तरगतं कृत्वा उज्ज्वलं जायते महत् ॥ ४४ ॥ तदेव³ जासत्वं चैव दिव्यम् उज्ज्वलं सदा । रूप्यार्द्ध मेलयत्येव जायते शुद्धता शुभा ॥ ४५ ॥ अनेनैव प्रकारेण धनं किञ्चिच्च जायते । धने चैव तु संजाते कारयेद्र्धजाः क्रियाः ॥ ४६ ॥

v2.c35.s8.167

¹ समुद्र कुकुटे पटे, a variant in A and B, which seems to be incorrect.

v2.c35.s8.168

² उक्तभोगेन, a variant in A and B.

v2.c35.s8.169

³ A and B read स एव, which is not correct.

v2.c35.s8.170

अतीव शोभना विद्या रसगन्धकजा सदा । अतिसौभाग्यदा सा⁴ च साधके सुखदायिका ॥४७॥

v2.c35.s8.171

⁴ Do. ते, Do.

v2.c35.s8.172

एतादृशं च जासत्वं शोधितं गन्धकेन च । धालधौतेन ताम्रेण पुञ्जितं¹ सुभगं सदा ॥ ६८ ॥ पुञ्जितं जायते दिव्यं शुल्बपीतं शुभोदितम् । निर्मलं जायते तच्च हीनहाटकसन्निभम् ॥ ६९ ॥ लघुता जायते तस्य किञ्चिन्नाव्या गुरुता सदा । जायते गुरुता दिव्या पुञ्जिते हाटकेन च ॥ ७० ॥

v2.c35.s8.173

२८ पटलदुद्धृताः श्लोकाः ।

v2.c35.s8.174

पार्वत्युवाच । पूर्वंमुक्तं त्वया नाथ धने सिद्धिस्तु जायते । लघुद्रवकृते धातौ² वद³ किं तत्र मुच्यते ॥ ४३ ॥

v2.c35.s8.175

महादेव उवाच । क्रया अग्नेः शुभा तेषां द्रव्यसिद्धिर्विधायिनी । शृणु यत्नेन तां भद्रे क्रियां रंगोति नागजाम् ॥ ४४ ॥

v2.c35.s8.176

(१) A and B read पुंजितं. (२) A and B read धाति, which is incorrect. (३) A reads वच, B reads वचः.

v2.c35.s8.177

आनयेत् पारदं दिव्यम् अधऊर्ध्वविपातितम् । चालयेद्यत्नपूर्वेण खल्ले पिष्टं तु कारयेत् ॥ ४५ ॥ तैलेनानेन आमर्द्य भावना क्षणमात्रतः । निम्ने डमरुके यन्त्रे अग्निं दद्याद्विचक्षणः ॥ ४६ ॥ उत्थयेद्यामयुग्मेन स्वाङ्गशीतं समुद्धरेत् । पुनः समाननागेन पूर्ववत् चालयेत् सुधीः ॥ ४७ ॥ पुनरेव हठादग्नौ उक्तयामेन सिध्यति । रसे द्विवारके चैव होनहेमोत्तमोत्तमः¹ ॥ ४८ ॥ तौलिके रक्तिकायुग्मं दापिते वर्णपञ्चकम्² । अनेनैव प्रकारेण जायन्ते षोडश कलाः ॥ ४९ ॥ द्रव्यवृद्धिकरं तच्च जायते नात्र संशयः । पुनरेव क्रिया रम्या पारदे नागचारिणी ॥ ५० ॥ द्विगुणे चारिते तत्र³ जायते चन्द्रिका शुभा । आभासेन शिखिग्रीवा जायते नात्र संशयः ॥ ५१ ॥

v2.c35.s8.178

¹ होनहेमोत्तमः, an incomplete variant in A.

v2.c35.s8.179

² पञ्चकः is the reading in A and B, which is in correct.

v2.c35.s8.180

³ ते च is the incorrect reading in A and B.

v2.c35.s8.181

पुञ्जिते हीनहेमेन जायते क्रयविक्रयः । अनेनैव प्रकारेण जायते धनसंपदः ॥ ५२ ॥ अतऊर्द्धं क्रिया या च¹ विद्या नागस्य सम्भवा । रसे तु नागजे चैव विधिनानेन वर्त्तते ॥ ५३ ॥ तायते² सकला विद्या नागतैल्स्य संभवा । सब्बी सा³ शोभना विद्या तोव्रदारिद्रनाशिनी॥५४॥ अथातः संप्रवक्ष्यामि वपूणां विधिमुत्तमम्⁴ । येन विज्ञानमात्रेण जायते रजतं महत् ॥ ५५ ॥ अनेका राजती सिद्धिः जायते परमोत्तमा । जायते धनसिद्धिञ्च⁵ जायते नात्र संशयः ॥ ५६ ॥

v2.c35.s8.182

(1) A and B read ये च, which is incorrect.
(2) A and B have ताते, which is incomplete.
(3) A and B have ता, which is not correct.
(4) A and B have विधिरुत्तमा, which is grammatically incorrect.
(5) A and B have स्यात् instead of च, which is a tautology.

v2.c35.s8.183

पार्व्वत्युवाच । वद वैभवदातारं वङ्गं विज्ञानदायकम्¹ । ज्ञात्वा सिद्धिमवाप्नोति गुणज्ञैः सौख्यकं च यम् ॥५७॥

v2.c35.s8.184

महादेव उवाच । आनयेच्छोभनं वङ्गं विन्ध्याचलसमुद्भवम् । गालयेद्यत्नपूर्वेण ढालैत् कुष्माण्डजे रसे ॥ ५८ ॥ त्रिःसप्तकृत्वस्तत्र³ जायते निर्मलं शुभम् । तदुत्थान् कारयेत् पत्रान्⁴ शुचिविद्वान् यथोदितान् ॥ ५९ ॥

v2.c35.s8.185

रक्षयेद्यत्नपूर्वेण आनयेद्वर्किंक⁵ पयः । भावयेत् शुक्तिकाचूर्णम् उज्ज्वलं वङ्गशोधितम् ॥६०॥

v2.c35.s8.186

(1) दाता च, a variant in A and B.
(2) दायकः, a variant in A and B.
(3) ते च is the incorrect variant in A and B.
(4) A and B read तदोत्थान्, which is incorrect. The word पत्र is used here in the masculine gender.
(5) B reads वद्रिकं.

v2.c35.s8.187

मर्द्‌येद्‌यत्नपूर्वेण यावल्लेपः सुलक्ष्यते¹ । यवाङ्‌ लेपयत्येव पवान्‌ तु यत्नपूर्वकम्‌ ॥ ६१ ॥ छायाशुष्के च संजाते दापयेच्छुक्तिसंपुटे । डाधो लेपयत्येव सन्धौ यत्नेन मुद्रयेत्‌ ॥ ६२ ॥ मेलितौ माषगोधूमौ पिष्टलेपं प्रदापयेत्‌ । छायाशुष्के च संजाते मृन्मयं लेपं दापयेत्‌ ॥ ६३ ॥ सुशुष्के च² गजे पाच्यं स्वाङ्गशीतं³ समुद्धरेत्‌ । जायते उज्ज्वलं वङ्गं वातशुष्कं तु कारयेत्‌ ॥ ६४ ॥ यः कश्चित्‌ मूर्च्छितश्चैव⁴ जीवयेज्जीवनक्रियाम्‌ । स हि वङ्‌गाश्रयेणैव⁵ उज्ज्वलः कठिनो⁶ भवेत्‌ ॥ ६५ ॥

v2.c35.s8.188

(1) यावल्लेपस्य लक्ष्यते, a variant, which seems to be incorrect.

v2.c35.s8.189

(2) सुशुष्केन, a variant in A and B.

v2.c35.s8.190

(3) स्वांगशीते, a variant in A and B.

v2.c35.s8.191

(4) ये केचित्‌ मूर्च्छिते ते च, an incorrect variant in A and B.

v2.c35.s8.192

(5) सहैवंगालयेत्येव, a variant in A and B, which is unintelligible.

v2.c35.s8.193

(6) A and B read उज्ज्वलं कठिनं, which is incorrect.

v2.c35.s8.194

अतिशुद्धतरं तच्च जायते नात्र संशयः । सर्व्वकम्मकरं श्रेष्ठं नानाभागेन पुञ्जितम् ॥ ६६ ॥ भोगभागसमायुक्तं वङ्गं च गुणसंयुतम् । लक्षणार्थे¹ धनार्थे च² संयोगे साधयेत् सदा ॥ ६७ ॥ जायते सुभगं तच्च संसारे शोभनं भवेत् । अनेनैव प्रकारेण जायन्ते धनसम्पदः³ ॥ ६८ ॥

v2.c35.s8.195

¹ B reads भक्षणार्थे.

v2.c35.s8.196

² धनार्थे is omitted in B.

v2.c35.s8.197

³ जायते धनसंपदा, a variant in A and B.

v2.c35.s8.198

पार्व्वत्युवाच । चपौ शुद्धतरे जाते का क्रिया वद मे विभो । लक्षणार्थं धनसंपत्तेः क्रिया या च पृथक् पृथक् ॥ ६९ ॥

v2.c35.s8.199

महादेव उवाच । लक्षणेन⁴ च नारीणां भिन्ना भिन्नैन वर्त्तते । अनेका धनदा विद्या जायते सुभगा महत् ॥ ७० ॥ अतीव शोभना सा च गुणसामर्थ्यदायिका । येन विज्ञानमात्रेण साधके धनमुत्तमम् ॥ ७१ ॥

v2.c35.s8.200

⁴ A and B read भक्षणेन.

First 200 of 346 passages. Read on

Linked texts (47)