Pramāṇa · Search · About · API

A History of Hindu Chemistry from the Earliest Times to the Middle of the Sixteenth Century A.D. v2.c35.s8.125

A History of Hindu Chemistry from the Earliest Times to the Middle of the Sixteenth Century A.D. v2.c35.s8.125

Language
English

v2.c35.s8.125

निर्मलं मानसं जातं तव वाक्यविमोहितम् । कथयामास ते भद्रे गुणलक्षणसंयुतम्¹ ॥ १३७ ॥ स्वर्णोत्पत्तिस्थलं² नित्यं सर्वत्रापि विधीयते । उत्पादनगतिस्तस्य स्थाने स्थाने पृथक् पृथक् ॥ १३८ ॥ श्रूयतां वरदे देवि स्थानं चैव यथोदितम् । तस्य वातोत्थजा रेणुर्धमने स्वर्ण³ जायते ॥ १३९ ॥ पावकाद्रेर्भुवावाहुः⁴ समरत्नाकरे तथा । समुद्रस्य तटे दिव्ये स्थानं स्यात् स्वर्णकस्य च ॥ १४० ॥ स्वल्पं च सिन्धुदेशेन कामरूपैस्तथैव च । अन्यैस्तु विविधैः स्थानैः साम्प्रतोत्पत्तिर्जायते ॥ १४१ ॥

Linked texts (1)