Pramāṇa · Search · About · API

A History of Hindu Chemistry from the Earliest Times to the Middle of the Sixteenth Century A.D. v2.c35.s8.130

A History of Hindu Chemistry from the Earliest Times to the Middle of the Sixteenth Century A.D. v2.c35.s8.130

Language
English

v2.c35.s8.130

तत्र तत्रोत्पत्तिस्तेषां यत्र यत्र हिमद्रवः । प्रसरन्ति भुवि संघाः¹ संशयो नास्ति ते सदा॥१४२॥ ताम्रोत्पत्तिश्च महता सुखेनैव प्रजायते । तेषां स्थानानि वक्ष्येऽहं² यायातथ्येन च शृणु³ ॥१४३॥ नेपाले कामरूपे च⁴ वङ्गले मदनेश्वरे⁵ । गङ्गाद्वारे मलाद्रौ च म्लेच्छदेशे तथैव च ॥ १४४ ॥ पावकाद्रौ जीर्णदुर्गे रूमदेशे फिरङ्गके । एतान्युदितस्थानानि⁵ सर्वपर्वतके⁷ सदा ॥ १४५ ॥ जासत्वं यत्तु⁸ दिव्यं हि स्थानानि तस्य च शृणु । कुम्भाद्रावथ⁹ काम्बोजे रूमदेशे बलत्तति ॥ १४६ ॥