Pramāṇa · Search · About · API

A History of Hindu Chemistry from the Earliest Times to the Middle of the Sixteenth Century A.D. v2.c35.s8.158

A History of Hindu Chemistry from the Earliest Times to the Middle of the Sixteenth Century A.D. v2.c35.s8.158

Language
English

v2.c35.s8.158

मर्येद्वयवपूर्वेण छायाशोषितं कारयेत् । काचकूप्ये प्रदातव्यं वल्लिर्बालुकयन्त्रगः² ॥ २६ ॥ नखसंख्यामिते यामे पाचयेद्रसं शोभने । स्वाङ्गशीति तु संजाते पुनः खल्वे निधापयेत् ॥ २७ ॥ रमेनानेन आमर्द्य छायाशोषितं कारयेत् । उक्तायामे रसे³ दत्ते पुनः शोषं⁴ प्रदापयेत् ॥ २८ ॥ उक्ताग्नौ दापयत्येव पुनः संस्कारमाचरेत् । संस्कारे त्रिविधे जाते अग्निपूर्वे क्रमोदिते ॥ २९ ॥ जायते रसराजोऽसौ सर्वसामर्थ्यदायकः । संचयेत्तण्डुलार्धस्तु अतिविक्रमवेगवान् ॥ ३० ॥ जायते प्रबला बुद्धिः त्रिदिने सेवते यदि⁵ । सार्धद्विविक्रमेणैव दिने मासफलं सदा ॥ ३१ ॥