A History of Hindu Chemistry from the Earliest Times to the Middle of the Sixteenth Century A.D. v2.c35.s8.177
A History of Hindu Chemistry from the Earliest Times to the Middle of the Sixteenth Century A.D. v2.c35.s8.177
- Language
- English
v2.c35.s8.177
आनयेत् पारदं दिव्यम् अधऊर्ध्वविपातितम् । चालयेद्यत्नपूर्वेण खल्ले पिष्टं तु कारयेत् ॥ ४५ ॥ तैलेनानेन आमर्द्य भावना क्षणमात्रतः । निम्ने डमरुके यन्त्रे अग्निं दद्याद्विचक्षणः ॥ ४६ ॥ उत्थयेद्यामयुग्मेन स्वाङ्गशीतं समुद्धरेत् । पुनः समाननागेन पूर्ववत् चालयेत् सुधीः ॥ ४७ ॥ पुनरेव हठादग्नौ उक्तयामेन सिध्यति । रसे द्विवारके चैव होनहेमोत्तमोत्तमः¹ ॥ ४८ ॥ तौलिके रक्तिकायुग्मं दापिते वर्णपञ्चकम्² । अनेनैव प्रकारेण जायन्ते षोडश कलाः ॥ ४९ ॥ द्रव्यवृद्धिकरं तच्च जायते नात्र संशयः । पुनरेव क्रिया रम्या पारदे नागचारिणी ॥ ५० ॥ द्विगुणे चारिते तत्र³ जायते चन्द्रिका शुभा । आभासेन शिखिग्रीवा जायते नात्र संशयः ॥ ५१ ॥