A History of Hindu Chemistry from the Earliest Times to the Middle of the Sixteenth Century A.D. v2.c35.s8.201
A History of Hindu Chemistry from the Earliest Times to the Middle of the Sixteenth Century A.D. v2.c35.s8.201
- Language
- English
v2.c35.s8.201
जायते नैव सन्देहो धनसामर्थ्यकं महत् । अतिसौभाग्यसम्पत्तिर्जायते नात्र संशयः ॥ ७२ ॥ आनयेत् शुद्धं तं वङ्गं गालयेत् टङ्गणैः सह । पिण्याकसुरसे दिव्ये ढालयेद्यत्नपूर्वकम् ॥ ७३ ॥ सप्तढालकृते शुद्धे कठिनं रजतॊपमम् । जायते नैव सन्देहः पुञ्जिते रजते शुभे ॥ ७४ ॥ रजतं जायते शुद्धं संभारं कारयेत् सुधीः । अन्ये षेव विधिर्दिव्यो दिव्यरजतसंभवः¹ ॥ ७५ ॥ आनयेत् शोधितं वङ्गं तदर्थं पारदे क्लेत् । निधाय² शोभने खल्ले तुर्यांशे दापयेत्ततः ॥ ७६ ॥ मर्द्दयेत् कन्यकावौर्ये³ यामं षोडश यवतः । हंसपद्या रसे दिव्ये तत्समं मर्द्दयेत् सुधीः ॥ ७७ ॥ समानाण्डरसेनैव मर्द्दयेद्यत्नपूर्वकम्⁴ । छायाशुष्के च⁵ संजाते शोषान्ते⁶ बालुके पचेत् ॥ ७८ ॥
Linked texts (1)
- Rudrayāmala — Sanskrit