Pramāṇa · Search · About · API

A History of Hindu Chemistry from the Earliest Times to the Middle of the Sixteenth Century A.D. v2.c35.s8.208

A History of Hindu Chemistry from the Earliest Times to the Middle of the Sixteenth Century A.D. v2.c35.s8.208

Language
English

v2.c35.s8.208

अनेनैव प्रकारेण क्रमादग्निं प्रदापयेत् । प्रहराष्टकऽष्टकेनैव त्रिवारं हठं दापयेत् ॥ ७९ ॥ जायते च रसं दिव्यं भक्षणे च सुधासमम् । नारीणां दापयेद्यत्ने संयोगे नागकेसरैः¹ ॥ ८० ॥ तदर्द्धाः सुष्ठु² गोधूमाः सहैव तोलकार्द्धम् । अतिसौख्यकरं तच्च³ रक्तिमाचार्द्धं वर्द्धते ॥ ८१ ॥ पुंसि अजगुणोपेते यथा च गन्धकी गतिः । नरार्थे भक्षणे यातो जातित्रयसमन्वितः ॥ ८२ ॥ अनेनैव प्रकारेण क्रमेण वर्द्धयेद्रसम् । जायते रसजा सिद्धिः नात्र कार्या विचारणा ॥८३॥ सुकृत् सुधाकरं वङ्गं गालयेद्यत्नपूर्वकम् । तज्जलं शोषयत्येव शतांशे रसदापिते ॥ ८४ ॥ रजतं जायते शुद्धं कलाद्वात्रिंशतः स्फुटम् । अन्यं वै मेलयत्येव विक्रये शुभदं महत् ॥ ८५ ॥

Linked texts (1)