A History of Hindu Chemistry from the Earliest Times to the Middle of the Sixteenth Century A.D. v2.c35.s8.233
A History of Hindu Chemistry from the Earliest Times to the Middle of the Sixteenth Century A.D. v2.c35.s8.233
- Language
- English
v2.c35.s8.233
पूर्वं तु कथितं देव रत्नतन्त्रं त्वया मम । गुटिकाः कथिताः पूर्वं सहस्रद्वितयं शिव ॥ ३ ॥ पारदाः कथिताः पूर्वं षट्शतं मृतिरूपकाः । धातूनामष्ट कल्पास्तु पूर्वमेव प्रकाशिताः ॥ ४ ॥ धातुयोगाख्यकल्पस्तु पूर्वमेव प्रकाशितः । रत्नानां करणे तन्त्रं पूर्वमेव प्रकाशितम् ॥ ५ ॥ किन्तु स्वर्णाख्यतन्त्रं तु न मह्यं कथितं प्रभो । कश्यपेन महेशानाभ्यर्थितोऽस्मि महेश्वर ॥ ६ ॥ भूमिदानं मया दत्तं ऋषये कश्यपाय वै । कश्यपेन मयि प्रोक्तं भूमिभागं त्यज प्रभो ॥ ७ ॥ स्थानार्थं तु महेशान रत्नाब्धिः प्रार्थितो मया । वाणमात्रं स्थलं तेन दत्तं मम महेश्वर ॥ ८ ॥ स्थानं प्राप्तं महेशान भक्षणं मम नास्ति वै । भक्षणं देहि मे देव यदि पुच्छोऽस्मि शङ्कर ॥ ९ ॥
Cites (1)
- Suvarṇatantra — Sanskrit