A History of Hindu Chemistry from the Earliest Times to the Middle of the Sixteenth Century A.D. v2.c35.s8.236
A History of Hindu Chemistry from the Earliest Times to the Middle of the Sixteenth Century A.D. v2.c35.s8.236
- Language
- English
v2.c35.s8.236
तत्राद्यं स्वर्णतन्त्रस्य कल्पं शृणु सुपुत्रक । तैलकन्दाभिधः कन्दः सिद्धकन्दः प्रकीर्त्तितः ॥११॥ कन्दः कमलवत्तस्य पत्राणि कञ्जवच्छशो । तथैव तु महत्पत्वं तैलं स्रवति सर्व्वदा ॥ १२ ॥ जलमध्ये सदा पुत्र त्वार्द्र एव प्रतिष्ठते । विषकन्देति विख्यातो विषाच्च कायनाशनः ॥ १३ ॥ तैलस्रावी महाकन्दः परितस्तैलवञ्जलम् । दशहस्तमिते देशे सरते तैलवञ्जनम् ॥ १४ ॥ महाविषधरः पुत्र तदधो वसति ध्रुवम् । कन्दाधः कन्दच्छायायां नान्यत्र गच्छति प्रिय ॥१५॥ तत्परोच्चाविधानार्थं कन्दे सूचीं प्रवेशयेत् । सूचीद्रावः क्षणात् पुत्र तत्कन्दन्तु समाहरेत् ॥ १६ ॥ तत्कन्दं तु समादाय शुद्धसूतं खलेक्षिधा । मूषायां निक्षिपेत् तन्तु तत्तैलं तत्र निक्षिपेत् ॥१७॥ दीप्ताग्निं तु महाराम वंशाङ्गारैण दापयेत् । तत्तत्क्षणात्प्रतिमायाति लक्षवेधी भवेत् सुत ॥ १८ ॥ ततः प्रभन्नयेद्राम क्षुन्निद्राहारको ध्रुवम् । तालं शुद्धं समानीय तत्तैलेन खलेत् सुत ॥ १९ ॥
Cites (1)
- Suvarṇatantra — Sanskrit