Pramāṇa · Search · About · API

A History of Hindu Chemistry from the Earliest Times to the Middle of the Sixteenth Century A.D. v2.c35.s8.39

A History of Hindu Chemistry from the Earliest Times to the Middle of the Sixteenth Century A.D. v2.c35.s8.39

Language
English

v2.c35.s8.39

तस्मात्तेनैव यत्नेन सुधामायः¹सुसंस्कृतिः । यथोक्तसंस्कृतियुता² सर्व्वतो धातुरुत्तमा³ ॥ २७ ॥ क्रियोचितसुसंस्कारान्⁴ कारयेद्यत्नतः सदा । यथोदितैस्तु संस्कारैर्युक्ता कार्य्यकरी सदा ॥ २८ ॥ सर्व्वलक्षणसंयुक्ता धातुधौता सदैव हि । जायते नैव सन्देहः कार्य्यकारणकारिका⁵ ॥ २९ ॥ पार्व्वत्युवाच । कियत्परिमिता धातुः संख्या वदतु मे विभो । उत्पत्तिर्लक्षणं तेषां स्थानं चैव⁵ पृथक् पृथक् ॥ ३० ॥