A History of Hindu Chemistry from the Earliest Times to the Middle of the Sixteenth Century A.D. v2.c35.s8.41
A History of Hindu Chemistry from the Earliest Times to the Middle of the Sixteenth Century A.D. v2.c35.s8.41
- Language
- English
v2.c35.s8.41
कथ्यतां देवदेवेश लक्षणलक्षणसंस्कृतिः । भेदोऽभेदोऽथ योगश्च मारणं चारणं तथा ॥ ३१ ॥ पातनं द्रावणं चैव त्रोटनं जारणं तथा । सारणं जीवनं षष्ठं गोपनं लेपनं पुनः ॥ ३२ ॥ जातिभेदः सुगन्धश्च मिलनं जरणं परम् । समग्रं कथ्यतां देव उपधातुकरी क्रिया ॥ ३३ ॥ महादेव उवाच । शृणु देवि प्रवक्ष्यामि धातुस्थानानि लक्षणम् । उपधातुर्नेका हि तेषां मारणचारणम् ॥ ३४ ॥ अक्षयं राग(?)कारं च शोधनं बन्धनं तथा । मारणादि च यत् प्रोक्तं तत् सर्वं श्रूयतां शुभे ॥ ३५ ॥