A History of Hindu Chemistry from the Earliest Times to the Middle of the Sixteenth Century A.D. v2.c35.s8.43
A History of Hindu Chemistry from the Earliest Times to the Middle of the Sixteenth Century A.D. v2.c35.s8.43
- Language
- English
v2.c35.s8.43
पार्वत्युवाच । प्रथमं वद देवेश धातवनुक्रमलक्षणम् । प्रत्येकस्थानरूपं हि गुणसम्बन्धकारकम् ॥ ३६ ॥ महादेव उवाच । शृणु देवि प्रयत्लेन सिद्धान्तवचनं मम । येन विज्ञानमात्रेण जायते धातुकृत्क्रिया ॥ ३७ ॥ प्रयमे धातुनामानि संक्षेपात् कार्यकारणम् । कथयामि च ते भद्रे पश्चात् स्थानस्य संपदः¹ ॥३८॥ आदौ सुवर्णनामानि संक्षेपात् शृणुतां प्रिये । स्वर्णं सुवर्णं सूर्य्यश्च हाटकं वङ्गिरोचनम् ॥ ३९ ॥ सु(स)रङ्गं च तथा लोहं देवधातुमनोहरम् । वेशी² विश्वासगं चैव धम्मंदं ऋषिदेवता ॥ ४० ॥ जीवनम् अमृतं चैव हेम³ हिमवतोद्भवम्⁴ । देववल्लभगं दिव्यं संसारोत्तारणं महत् ॥ ४१ ॥