A History of Hindu Chemistry from the Earliest Times to the Middle of the Sixteenth Century A.D. v2.c35.s8.59
A History of Hindu Chemistry from the Earliest Times to the Middle of the Sixteenth Century A.D. v2.c35.s8.59
- Language
- English
v2.c35.s8.59
मेच्छ्रं माहलाद्(?)भूतं सहायं धातुशेषयोः । एतानि त्रपुनामानि सुसिद्धं कार्यकारकम्¹ ॥५४॥ सीसकं² धातुभङ्गं च मृतकं रोचकं परम् । रक्तं च रक्तवीर्यं³ च रक्तस्तुविवर्धनम् ॥५५॥ अन्तरूप्यं च गम्भीरं धातुभञ्जनकारकम् । ग्राहकं रसराजेन अच्छोभ्याच्छोभणं परम् ॥५६॥ विचित्रं विनतं चैव नानारङ्गप्रदायकम् । नागं नगालयं प्रोक्तं सिक्थकं कण्ठशोधनम् ॥५७॥ षण्डं षण्डकरं⁴ चैव दुरितं षण्डकारकम् । एतानि⁵ नागनामानि कार्यकाले प्रयोजयेत् ॥५८॥ लोहं च आयसं शूरं सूर्यकर्मविशारदम् । हन्तकं खननं स्वर्णमारकं⁶ ताटकं मलम् ॥५९॥