Pramāṇa · Search · About · API

A History of Hindu Chemistry from the Earliest Times to the Middle of the Sixteenth Century A.D. v2.c35.s8.66

A History of Hindu Chemistry from the Earliest Times to the Middle of the Sixteenth Century A.D. v2.c35.s8.66

Language
English

v2.c35.s8.66

अजरं च जरायुक्तं धात्वाद्यम् अवनीसुतम् । कालेयं जीषणं कालं रुधिरं रोगनाशनम् ॥ ६० ॥ ग्रन्थिदं सर्व्वधातूनाम् अक्षोभ्यं जलवह्निषु । वह्निदं वह्निवोजं च सर्व्वधातुसहायकम् ॥ ६१ ॥ एतानि लोहनामानि ज्ञात्वा कम्माणि कारयेत् । जायते¹ सकला सिद्धिर्वियोगयोगसंयुता² ॥ ६२ ॥ नामानि धातुसंयोगे जातानि तानि च शृणु³ । शुल्वखर्परसंयोगे जायते पित्तलं शुभम् ॥ ६३ ॥ पित्तलं चैव नारोकं कफदं गन्धदुर्ज्यम् । वर्णदं दुब्बलं चैव रजतं वल्लभं लघु ॥ ६४ ॥ वङ्गताम्रसंयोगेन जायते तेन⁴ कांस्यकम् । कांस्यकं कोमलं चैव नैरसं रसकाठिनम्⁵ ॥ ६५ ॥