Pramāṇa · Search · About · API

History of Chemistry in Ancient and Medieval India, Incorporating the History of Hindu Chemistry by Acharya Prafulla Chandra Ray c43.s1: वृन्दलिखितसिद्धयोगादुद्धृतानि वचनानि—

History of Chemistry in Ancient and Medieval India, Incorporating the History of Hindu Chemistry by Acharya Prafulla Chandra Ray c43.s1

Language
English

वृन्दलिखितसिद्धयोगादुद्धृतानि वचनानि—

c43.s1.1

रसेन्द्रेण समायुक्तो रसो धत्तूरपत्रजः।
ताम्बूलपत्रजो वापि लेपनं यौवनाशनम् ॥ VI, 13.
त्रिफलाव्योषसिन्धूत्थयष्टीतुल्यरसारञ्जनम् ।
प्रपौण्डरीकं जन्तुघ्नं लोध्रं ताम्रं चतुर्दश ॥
द्रव्याण्येतानि संचूर्ण्य वर्त्तिः कार्या नभोऽम्बुना ।
नागार्जुनेन लिखिता स्तम्भे पाटलिपुत्रके ॥
LX, 148-149,
सर्वेषां लोहजातानां कान्तं भवति कान्तिदम् ।
* * पाचयेल्लोहमादौ सप्तदिने ततः ॥
धात्रीपिण्डारकोद्भूतखरसेनाकर्करश्मिषु ।
स्थापयेत् * * * ॥
काकमाचीरसे पश्चात् * * ।
पुनर्मज्जन्ति सर्व्वत्र खलितव्यं प्रयत्नतः ॥
पश्चाच्चूर्ण विधातव्यमप्रमत्तेन धीमता ।
इति सूर्य्यमुखेनैव मारणं परिकीर्त्तितम् ॥
* * * * लोहमारणम् ।
रसगन्धकताम्राणां चूर्णं कृत्वा समाक्षिकम् ।
पुटपाकविधौ पक्त्वा मधुनालोड्य संलिहेत् ॥

c43.s1.2

**Abbreviations used** • M. Ms = Madras Manuscript. K. Ms = Kásmír Manuscript. R. R S. = Rasaratnasamuchchaya Rr by Nag. = Rasaratnákara by Nágárjuna

c43.s1.3

सितं सुवर्णं बहुघर्म्मभावितं
करोति साक्षाहरकुङ्कुमप्रभम् ॥ 4.

c43.s1.4

दरदशुद्धिः ।
कुलत्थकोद्रवक्वाथे नरमूत्रेण पाचयेत् ।
वेतसाद्यम्लवर्गेण दत्त्वा क्षारं पुटत्रयम् ॥ 5
किमत्र चित्रं कदलीरसेन
सुपाचितं सूरणकन्दसंस्थम् ।
वातारितैलेन घृतेन ताप्यं
पुटेन दग्धं वरशुद्धिमेति ॥ 6.

c43.s1.5

माक्षिकशोधनम् ।
द्विगुणा विमला पथ्या रम्भातोयेन संयुता ।
लवयैर्वर्कदुग्धेन ताम्रपत्राणि लेपयेत् ॥ 9.
अग्नौ सन्ताप्य निर्गुण्डीरससिक्तानि सप्तधा ।
मासान् वसुरसेनेव शुल्वशुद्धिर्भविष्यति ॥ 10

c43.s1.6

परतः सर्व्वलोहशोधनम् ।
अम्लवेतसधान्याम्लमेषीतोयेन शुध्यति ॥ 11.

c43.s1.7

विमलशुद्धिः ।
चपलाद्या धातवः सर्व्वे जम्बीररसभाविताः ।
शोधितास्त्रिदिनं पञ्चमृत्तिकाभस्मलावणैः ।
संयुताः संशोध्यन्ति पुटपाकेन काञ्चनम् ॥ 12

c43.s1.8

हेमशोधनम् ।
नागेन क्षारराजेन क्षापितं शुद्धिमृच्छति¹ ।
तारं त्रिवारनिक्षिप्तं पिशाचीतैलमध्यगम् ॥ 13.²

c43.s1.9

¹ The text reads दक्ष, which is incorrect.

c43.s1.10

² This verse also occurs in Rasárnava

c43.s1.11

तारशुद्धिः ।

c43.s1.12

अहो नु चित्रं पृथिवीभवेन
क्षारेण मेषोपयसा घृतेन ।
तैलेन शुद्धं द्रुतषोड़शांशं
भवेच्च शुक्लं शशिशृङ्गसन्निभम् ॥ 14
मोक्षमारेोटपालाक्ष-क्षारगोमूत्रभावितम् ।
वज्रकन्दशिखाकल्क-फलमूलसमन्वितम् ॥ 23.
तत्कल्कं कष्टकं साक्षाच्चूर्ण वैक्रान्तसम्भवम् ।
सारघेन¹ समायुक्तं मेषशृङ्गैद्रवान्वितम् ॥ 24.
पिण्डितं मूकभू

c43.s1.13

गृहधूमं घृतं क्षौद्रं संयुक्तं पुनरेव च।
ध्मामितं मूकभूषायां शशिशुक्लनिभं भवेत् ॥ 29
कदलीरसशतभावितं घृतमन्वेरण्डतैलपरिपक्वम् ।
ताप्यं मुञ्चति सत्त्वं रसकश्चैव निसङ्गति ॥ 30.

c43.s1.14

### माक्षिकसत्त्वपातनविधिः ।
क्षारस्नेहैश्च धान्याम्लै रसकं भावितं बहु ।
ऊर्णा लाक्षा तथा पथ्या भूता धूमसंयुक्तम् ॥ 31
मूकभूषागतं ध

c43.s1.15

मुक्ताफलानि सप्ताक्षं वेतसाम्लेन भावयेत् ।
पुटपाके ततश्चूर्णे द्रवते सलिलं यथा ।
कुरुते योगराजोयं रत्नानां द्रावणे परम् ॥ 51

c43.s1.16

अभ्रकादिद्रुतपातनविधिः ।

c43.s1.17

तालेन वङ्गं दरदेन तीक्ष्णं
नागेन हेमं शिलया च नागम् ।
गन्धाश्मना चैव निहन्ति शुल्कं
तारञ्च माक्षीकरसेन हन्यात् ॥ 52.

c43.s1.18

शुल्वम् अजाक्षीरसुगन्धकेन
तारं स्नुहीक्षीरसुमाक्षिकेण ।
यद्यस्य धातोर्विहितञ्च युक्तं
निरुत्थघातं कथितञ्च तीक्ष्णैः ॥ 54
मृतानि लोहानि रसीभवन्ति
रसेन युक्त्यामयनाशनानि ।
अभ्यासयुक्त्या पलितादिनाशं
कुर्व्वन्ति तेषाञ्च जराविनाशम् ॥ 55.

c43.s1.19

इति नागार्जुनविरचिते रसरत्नाकरे वज्रमारण-
सत्त्वपातन-अभ्रकादिद्रुतिद्रावण-वज्रलोह-
मारणाधिकारी नाम द्वितोयः ।

c43.s1.20

अथातो रसबन्धाधिकारं व्याख्यास्यामः ।
जम्बीरजेन नवसारचनाम्लवर्गैः
क्षाराणि पञ्च लवणानि कटुत्रयञ्च ।
शिग्रूदकं सुरभिसूरणकन्द एभिस्-
संमर्दितो रसन्टपश्वरतेष्टलोहान् ॥ 1.

c43.s1.21

चारणजारणविधिः ।

c43.s1.22

प्रज्ञापारमिता निशीथसमये स्वप्ने प्रसादीकृतं
नाम्ना तीक्ष्णमुखं रसेन्द्रममलं नागार्जुनत्रोटितम् ॥ 4

c43.s1.23

\* * * * *
रसं हेमसमं मर्दं पौष्टिकागिरिगन्धकम् ।
द्विपदौरजनौरक्षां मर्दयेत् टङ्गणान्विताम् ॥ 30
नष्टपिष्टञ्च सुश्लक्ष्णं अन्धमूषां निधापयेत् ।
तुषाग्न्यष्टपुटं दत्त्वा यावद्भस्मत्वमागतः ॥ 31

c43.s1.24

वक्ष्ये सर्व्वहितार्थं
कच्क्षपुटं सर्व्वसिद्धिकरम् ॥
श्रीशैलपर्व्वतस्थायी सिद्धो नागार्जुनो महान् ।
सर्व्वसत्वोपकारी च सर्व्वभाग्यसमन्वितः ॥
प्रार्थितो ददते शीघ्रं यस्य पश्यति यादृशम् ।
दृष्ट्वा त्यागञ्च भोगञ्च सूतकस्य प्रसादतः ।
सर्व्वसत्वामयाविधौ खरसेन तथैव च ॥
तेषां मध्ये प्रधानश्च रत्नघोषः प्रचारकः ।
कृताञ्जलिपुटो भूत्वा नागार्जुनपुरः स्थितः ।
पृच्छते रसकर्म्माणि विद्यादानं ददस्व मे ॥

c43.s1.25

श्रीनागार्जुन उवाच—

c43.s1.26

साधु साधु महाप्राज्ञ तुष्टोऽहं भक्तवत्सलः ।
कथयामि न सन्देहस्त्वया परिपृच्छ्यताम् ॥
वलीपलिप्तनाशञ्च तथा कालस्य ध्वंसनम् ।
यथा लोहे तथा देहे क्षमते नात्र संशयः ॥
* * * *
सत्वानां भोजनार्थाय साधिता वटयक्षिणी ।
द्वादशानि च वर्षाणि महाक्लेशः कृतो मया ॥
तत्कालदृष्टद्रव्याणां दिव्या वाणी मया श्रुता ।
अदृष्टप्रार्थिता पश्चाद्दृष्टा त्वं भव साम्प्रतम् ॥

c43.s1.27

श्रीवटयक्षिण्युवाच—

c43.s1.28

साधु साधु महासिद्ध * * *
किंचिन्न्रार्थय मे सिद्ध तत्सर्व्वं प्रददाम्यहम् ॥

c43.s1.29

श्रीनागार्जुन उवाच—

c43.s1.30

यदि तुष्टासि मे देवि सर्व्वदा भक्तिवत्सले ।
दुर्लंभं त्रिषु लोकेषु रसबन्धं ददस्व मे ॥

c43.s1.31

शालिवाहन उवाच—

c43.s1.32

सुवर्ण्णरत्नभाण्डारं कुमारी मदसुन्दरी ।
निवेदितो मयात्मा मे आदेशो देवि दीयताम् ॥
साधु साधु महाप्राज्ञ ममादेशप्रपालक ।
साधयामि न सन्देहो युष्मत्सत्येन साधकम् ॥
पुनरन्यं प्रवक्ष्यामि माण्डव्येन यथा कृतम् ।
रसोपरसयोगेन सिद्धं सूतं सुसाधितम् ॥
विट्छ्रुल्वायर्न नागं यथार्थकाञ्चनं कृतम् ।
* * * * ॥
शास्त्रं वशिष्ठमाण्डव्यं गुरुपार्श्वे यथा श्रुतम् ।
तदहं सम्प्रवक्ष्यामि साधनञ्च यथाविधि ॥
सहायशोभनाः प्राज्ञा निरालम्भा दृढव्रताः ।
कुलीनाः पापहीनाश्च साधयन्ति जितेन्द्रियाः ॥
कोष्ठिका वक्रनालञ्च गोमयं सारमिन्धनम् ।
धमनं लोहपत्राणि औषधं काञ्जिकं विडम् ॥
कन्दराणि विचित्राणि * * *
सर्व्वमेलनयं कृत्वा ततः कर्म्म समारभेत् ॥

c43.s1.33

रत्नघोष उवाच—

c43.s1.34

साधयित्वा प्रयत्नन कोटिवेधी महारसः ।
शरीरेण विनैतेन सर्व्वं भवति निष्फलम् ॥

c43.s1.35

नागार्जुन उवाच—

c43.s1.36

कथयामि न सन्देहः साकाण्डेन यथा कृतम् ॥
आर्द्रत्वञ्च घनत्वञ्च चापल्यं गुरुतेजसः ।
यस्यैतानि न दृश्यन्ते तं विद्याद्गुरुसूतकम् ॥
नानावर्णं भवेत्सूतं विहाय घनचापलम् ।
लक्षणं दृश्यते यस्य मूर्च्छितं तं वदन्ति हि ॥
गुरुत्वमरुणत्वं वा तेजो भास्करसन्निभम् ।

c43.s1.37

अग्निमद्ध्ये यदा तिष्ठेत् खोटबन्धस्य लक्षणम्¹ ॥

c43.s1.38

¹ Cf Rasarnava. Vide Sans Texts, XII. 197—98.

c43.s1.39

अथातो रसेन्द्रमङ्गळानि यन्त्रविधिः।

c43.s1.40

शिलायन्त्रं, पाषाण्यन्त्रं, भूधरयन्त्रं, वंशयन्त्रं, नलिकायन्त्रं, गजदन्तयन्त्रं, दोलायन्त्रं, अधःपातनयन्त्रं, भुवःपातनयन्त्रं, पातनयन्त्रं, नियामकयन्त्रं, गमन(१)यन्त्रं, तुलायन्त्रं, कच्छपयन्त्रं, चाकीयन्त्रं, बालुकायन्त्रं, अग्निसोमयन्त्रं, गन्धकग्राहिकायन्त्रं, मूषायन्त्रं, हण्डिकायन्त्रं, काम(१)भाजनयन्त्रं, घोणायन्त्रं, गुड़ाभ्रकयन्त्रं, नारायणयन्त्रं, जालिकायन्त्रं, चारणायन्त्रम्।

c43.s1.41

अथ प्रवक्ष्ये सुगुरूपदेशात्
यः पाटलाख्यस्य रसस्य हृद्यः।
यस्य प्रभावात् क्षयमेहकृच्छ्र-
ज्वरादिकुष्ठामयनिग्रहः स्यात् ॥
निक्षिप्य खल्ले त्रिपुरान्तकस्य
बीजं द्विगुह्वार्धपलप्रमाणम्।
क्वाथेन तस्य त्रिपुरोद्भवेन
सम्मर्द्दयेत्तु त्रिदिनानि यावत् ॥
कन्यारसेन त्रिदिनं ततश्च
ससार्चिषा चाथ दिनत्रयञ्च।
चूर्णैस्सिकाया रजनीरजेन²
सम्मर्द्दितं तम् उषणतोयधौतम् ॥
त्रीणि प्रमाणान्यथ सप्तमञ्च
सम्पातयेत् पातनयन्त्रयोगात् ।

c43.s1.42

² The text seems to be incorrect.

c43.s1.43

सम्पातितो निश्चलतामुपैति
सर्व्वप्रयोज्योपि हितं प्रशस्तम् ॥
पलं समादाय रसस्य तस्य
शुल्वस्य शुद्धस्य च कर्षमेकम्।
कृत्वाष्टपिष्टी विधिवर्त्तयोश्च
गन्धाश्मचूर्णं द्विगुणञ्च देयम् ॥
घृतप्रयोगेण विपाच्य पश्चान्-
निक्षिप्य खल्ले परिमर्दितञ्च ।
निष्कञ्च मात्रां त्वमृतस्य दत्त्वा
गुञ्जाप्रमाणा गुटिका च कार्य्या ॥
श्रीलोकनाथस्य विभोः प्रसादात्
ज्ञातं मया पोटलिकाविधानम् ॥
\* \* \* \*
इति रसेन्द्रमङ्गलं समाप्तम् ।

Linked texts (3)