History of Chemistry in Ancient and Medieval India, Incorporating the History of Hindu Chemistry by Acharya Prafulla Chandra Ray c43.s1.41
History of Chemistry in Ancient and Medieval India, Incorporating the History of Hindu Chemistry by Acharya Prafulla Chandra Ray c43.s1.41
- Language
- English
c43.s1.41
अथ प्रवक्ष्ये सुगुरूपदेशात्
यः पाटलाख्यस्य रसस्य हृद्यः।
यस्य प्रभावात् क्षयमेहकृच्छ्र-
ज्वरादिकुष्ठामयनिग्रहः स्यात् ॥
निक्षिप्य खल्ले त्रिपुरान्तकस्य
बीजं द्विगुह्वार्धपलप्रमाणम्।
क्वाथेन तस्य त्रिपुरोद्भवेन
सम्मर्द्दयेत्तु त्रिदिनानि यावत् ॥
कन्यारसेन त्रिदिनं ततश्च
ससार्चिषा चाथ दिनत्रयञ्च।
चूर्णैस्सिकाया रजनीरजेन²
सम्मर्द्दितं तम् उषणतोयधौतम् ॥
त्रीणि प्रमाणान्यथ सप्तमञ्च
सम्पातयेत् पातनयन्त्रयोगात् ।