Pramāṇa · Search · About · API

History of Chemistry in Ancient and Medieval India, Incorporating the History of Hindu Chemistry by Acharya Prafulla Chandra Ray c43.s1.32

History of Chemistry in Ancient and Medieval India, Incorporating the History of Hindu Chemistry by Acharya Prafulla Chandra Ray c43.s1.32

Language
English

c43.s1.32

सुवर्ण्णरत्नभाण्डारं कुमारी मदसुन्दरी ।
निवेदितो मयात्मा मे आदेशो देवि दीयताम् ॥
साधु साधु महाप्राज्ञ ममादेशप्रपालक ।
साधयामि न सन्देहो युष्मत्सत्येन साधकम् ॥
पुनरन्यं प्रवक्ष्यामि माण्डव्येन यथा कृतम् ।
रसोपरसयोगेन सिद्धं सूतं सुसाधितम् ॥
विट्छ्रुल्वायर्न नागं यथार्थकाञ्चनं कृतम् ।
* * * * ॥
शास्त्रं वशिष्ठमाण्डव्यं गुरुपार्श्वे यथा श्रुतम् ।
तदहं सम्प्रवक्ष्यामि साधनञ्च यथाविधि ॥
सहायशोभनाः प्राज्ञा निरालम्भा दृढव्रताः ।
कुलीनाः पापहीनाश्च साधयन्ति जितेन्द्रियाः ॥
कोष्ठिका वक्रनालञ्च गोमयं सारमिन्धनम् ।
धमनं लोहपत्राणि औषधं काञ्जिकं विडम् ॥
कन्दराणि विचित्राणि * * *
सर्व्वमेलनयं कृत्वा ततः कर्म्म समारभेत् ॥