Pramāṇa · Search · About · API

History of Chemistry in Ancient and Medieval India, Incorporating the History of Hindu Chemistry by Acharya Prafulla Chandra Ray c43.s2.15

History of Chemistry in Ancient and Medieval India, Incorporating the History of Hindu Chemistry by Acharya Prafulla Chandra Ray c43.s2.15

Language
English

c43.s2.15

सुश्लक्ष्णं पेषयित्वा तु तोयं दद्यात् पुनः पुनः ।
मूषालेपं ततः कुर्यात्तिलपिष्टञ्च निक्षिपेत्¹ ॥
कुर्य्यात्तुषाग्निं भूमौ च² मृदुस्वेदन्तु कारयेत् ।
अहोरात्रं त्रिरात्रं वा रसेन्द्रो भस्मतां व्रजेत् ॥
जारणे सारणे चैव रसराजस्य रञ्जने ।
यन्त्रमेव परं कर्म यन्त्रविद्या महाबला ॥³
औषधिरहितश्चायं हठादृढन्तरेण बध्यते ।
तस्माद्यन्त्रबलं चैकं न विलंब्यं विजानता ॥ 3-24.
खर्परं सिकताकारं कृत्वा तस्योपरि न्यसेत् ।
अपरं खर्परं तत्र शनैर्मृद्वग्निना पचेत् ॥
पञ्चक्षारैस्तथा मूत्रैर्लवणैश्च विडैस्ततः ।
हंसपाकः स विज्ञातो⁴ यन्त्रतत्त्वार्थकोविदैः ॥
कृष्णा रक्ता च पीता च शुक्लवर्णा⁵ च मृत्तिका ॥
आदद्या श्रेष्ठा कनिष्ठा च मध्यमा मध्यमा मता ॥
दग्धधान्यतुषोपेता मृत्तिका कोष्ठकारिका⁶ ।
वक्रनालकृते वापि शस्यते सुरसुन्दरि ॥
गौरा दग्धा तुषा दग्धा दग्धा वल्मीकमृत्तिका ।
अजाश्वानां मलं दग्धं दग्धा मृतकृष्णातां गता ॥
वासकस्य च पत्राणि वल्मीकस्य मृदा सह ।
पेषयेदग्नितोयेन अनेन वज्रतां गतम् ॥