Pramāṇa · Search · About · API

History of Chemistry in Ancient and Medieval India, Incorporating the History of Hindu Chemistry by Acharya Prafulla Chandra Ray c43.s2: रसार्णवादुद्धृताः श्लोकाः ।

History of Chemistry in Ancient and Medieval India, Incorporating the History of Hindu Chemistry by Acharya Prafulla Chandra Ray c43.s2

Language
English

रसार्णवादुद्धृताः श्लोकाः ।

c43.s2.1

श्रीभैरव उवाच—

c43.s2.2

रसोपरसलोहानि वसनं काञ्जिकं विड़म् ।
धमनी लोहयन्त्राणि खल्लपाषाणमर्दकम् ॥
कोष्ठिका वकनालञ्च गोमयं सारमिन्धनम् ।¹
मृन्मयानि च यन्त्राणि मुसलोलूखलानि च ॥
संड़सीतन्त्रसंदंशं मृत्पात्राण्यःकरोटकम् ।²
प्रतिमानानि च तुला छेदनानि कषोत्पलम्³ ॥
वंशनाली लोहनाली मूषामार्गास्तथौषधी ।
स्नेहाम्ललवणक्षारविषाण्युपविषाणि च ॥
एवं संगृह्य सम्भारं कर्मयोगं समाचरेत् ॥
द्रवद्रव्येण भाण्डस्य पूरितार्द्धोदरस्य च⁴ ।
मुखे तिर्यक्कते भाण्डे रसं सूत्रेण लम्बितम् ।
तं स्वेदयेत्तत्र गतं डोलायन्त्रमिति स्मृतम् ॥
लोहमूषाद्वयंङ्कत्वा द्वादशाङ्गुलमानतः ।
ईषच्छिद्रां छिद्रमितामेकां गन्धकसंयुताम् ॥⁵

c43.s2.3

¹ Cf कोष्टिका वक्रनाल' च गोमयं सारमिन्धनम् । Rr by Nág Ch IV

c43.s2.4

² M Ms reads मण्डपीपट्टसन्दशा मृत्पात्र येकभोरकम् ।

c43.s2.5

³ M Ms has कषोत्पलम् ।

c43.s2.6

⁴ K. Ms reads भाण्डंच पूरितार्द्धरसेन च । The reading adopted in the text is that of the M Ms, which quite agrees with R. R S (see p 73, Poona ed ).

c43.s2.7

⁵ M Ms reads ईषच्छिद्रान्वितामेकाम् ।

c43.s2.8

मूषायां रसयुक्तायामन्यस्यां तां प्रवेशयेत्।
तोयं स्यात्सूतकस्याध उर्द्ध्वमधो वह्निदौपनम्॥
रसोनकरसं भद्रे यत्नतो वस्त्रगालितम्।
दापयेत्प्रचुरं यत्नादाप्लाव्य रसगन्धकौ॥
स्थालिकायां निधायोर्द्ध्वं स्थालीमन्यां दृढां कुरु।
सन्धिं विलेपयेद्यत्नान्मृदा वस्त्रेण चैव हि¹॥
स्थाल्यन्तरे कपोताख्यं पुटं कर्षाग्निना सदा।
यन्त्रस्याधः करीषाग्निं दद्यात्तौव्राग्निसंव च॥
एवन्तु त्रिदिनं कुर्य्यात्तप्ततोये विमर्दयेत्।
न तत्र चौयते सूतो न च गच्छति कुवचित्॥
उर्द्ध्वं वह्निरधश्चापो मध्ये तु रससङ्ग्रहः।
मूषायन्त्रमिदं देवि जारयेद् गन्धकादिकम्²॥
गर्भयन्त्रं प्रवक्ष्यामि पिष्टिकाभस्मकारकम्।
चतुरङ्गुलदौर्घा⁴ च मूषिकां मृन्मयीं दृढाम्॥
अङ्गुलमध्यविस्तारं वर्त्तुलं कारयेन्मुखम्।
लोहस्य⁵ विंशतिर्भागा एकभागस्तु गुग्गुलोः॥

c43.s2.9

¹ Rr by Nág reads मध्ये तु रससंस्थिति ।

c43.s2.10

² M Ms. has सारयेत ।

c43.s2.11

³ गगनादिकम् in R S S (p 74 Poona ed) Couplets लीन्नसूषाद्यं गच्छति कुवचित् have been borrowed by R. R S in the Book on apparatus

c43.s2.12

⁴ Rr by Nag. reads—

c43.s2.13

⁵ K Ms reads लौहस्य ।

c43.s2.14

चतुरङ्गुलदैर्घेण विस्तारेण च द्वाङ्गुलम् ।
मूषान्तु मृन्मयीं कुर्य्यात् सुदृढा वर्त्तुला मुख ॥
विंशभागानि लोहस्य भागमेकन्त गुग्गुलोः ।
सुशक्ष्णं पेषयित्वा तु तोयं दत्त्वा पुनः पुनः ॥
मूषालेपं दृढं बद्ध्वा जीर्णावस्त्रचिक्रा बुधः ।
कुर्य्यात्तुषाग्निने मूसीं च भद्रुस्वेदेन स्वेदयेत् ॥

c43.s2.15

सुश्लक्ष्णं पेषयित्वा तु तोयं दद्यात् पुनः पुनः ।
मूषालेपं ततः कुर्यात्तिलपिष्टञ्च निक्षिपेत्¹ ॥
कुर्य्यात्तुषाग्निं भूमौ च² मृदुस्वेदन्तु कारयेत् ।
अहोरात्रं त्रिरात्रं वा रसेन्द्रो भस्मतां व्रजेत् ॥
जारणे सारणे चैव रसराजस्य रञ्जने ।
यन्त्रमेव परं कर्म यन्त्रविद्या महाबला ॥³
औषधिरहितश्चायं हठादृढन्तरेण बध्यते ।
तस्माद्यन्त्रबलं चैकं न विलंब्यं विजानता ॥ 3-24.
खर्परं सिकताकारं कृत्वा तस्योपरि न्यसेत् ।
अपरं खर्परं तत्र शनैर्मृद्वग्निना पचेत् ॥
पञ्चक्षारैस्तथा मूत्रैर्लवणैश्च विडैस्ततः ।
हंसपाकः स विज्ञातो⁴ यन्त्रतत्त्वार्थकोविदैः ॥
कृष्णा रक्ता च पीता च शुक्लवर्णा⁵ च मृत्तिका ॥
आदद्या श्रेष्ठा कनिष्ठा च मध्यमा मध्यमा मता ॥
दग्धधान्यतुषोपेता मृत्तिका कोष्ठकारिका⁶ ।
वक्रनालकृते वापि शस्यते सुरसुन्दरि ॥
गौरा दग्धा तुषा दग्धा दग्धा वल्मीकमृत्तिका ।
अजाश्वानां मलं दग्धं दग्धा मृतकृष्णातां गता ॥
वासकस्य च पत्राणि वल्मीकस्य मृदा सह ।
पेषयेदग्नितोयेन अनेन वज्रतां गतम् ॥

c43.s2.16

¹ K. Ms. has तिलपिष्टं सुनिक्षिपेत् ।

c43.s2.17

² M. Ms reads तुषकणीग्निना भूमौ ।

c43.s2.18

³ M Ms has यन्त्रौषधं परं कर्म यन्त्रौषध्या महारसम् ।

c43.s2.19

⁴ M. Ms reads हंसपादस्तु विख्यातः ।

c43.s2.20

⁵ M Ms. has शुक्लरूपा ।

c43.s2.21

⁶ M Ms reads कोष्ठकाविधौ ।

c43.s2.22

मर्दयेत्तेन वध्नीयाश्चक्रनालञ्च कोष्ठकम् ।
गौण दग्धा तुषा दग्धा दग्धा वल्मीकमृत्तिका ॥
चिरमङ्गारकः किट्टं वज्रेणापि न भिद्यते ।
दग्धाङ्गारस्य षड्भागा भागैका कृष्णमृत्तिका ॥
चिरमङ्गारकः किट्टं वज्रमूषा प्रकीर्त्तिता ॥
तुषदग्धसमा दग्धमृत्तिका चतुरांगिका ।
धर्मपाषाणसंयुक्ता ¹ वज्रमूषा प्रकीर्तिता ॥
प्रकाशा चान्धमूषा च प्रकृतिर्द्विविधा स्मृता ।
प्रकाशमूषा देवेशि शगवाकारसंयुता ॥
द्रव्यनिर्वाहणे मा च वैटिकैः सुप्रशम्यते ² ॥
अन्धमूषा तु कर्तव्या गोस्तनाकारसन्निभा ।
पिधानकमयायुक्ता किञ्चिदुत्तानमस्तका ॥
प्रवलिपे तया भागे ³ दृन्दमिल्लापकं तथा ।
सैवाच्छिद्रान्विता मध्ये गम्भीरा मारणोचिता ॥
सोक्षत्तारम्य ⁴ भागौ द्वौ दृष्टकांशममन्वितौ ।
मूषागास्तारशुद्ध्यर्थमुत्तमा वरवर्णिनि ॥ 29-46
आवर्त्तमाने कनके पीता तारे सिता शुभा ॥
शुल्वे ⁵ नीलनिभा तीक्ष्णे कृष्णवर्णा सुरेश्वरि ॥
वङ्गे ज्वाला कपोता च नागे मलिनधूम्रता ॥
शैले तु धूमरा देवि आयसे कपिलाप्रभा ॥

c43.s2.23

¹ M. Ms. has वृषीणपाषाण संयुक्त ।

c43.s2.24

² M. Ms reads मा चावैदिकेन् प्रशम्यते ।

c43.s2.25

³ M. Ms has षड्डे ।

c43.s2.26

⁴ M. Ms. reads नोक्ष्क्षारम्य ।

c43.s2.27

⁵ K. Ms. has मुकं, which seems to be incorrect

c43.s2.28

अयस्कान्ते धूम्रवर्णा सस्यके लोहिता भवेत् ।
वज्रे नानाविधा ज्वाला सस्यके¹ पाण्डुरप्रभा ॥
न विस्फुलिङ्गा नच बुद्बुदाश्च
यदा न रेखापटलं न शब्दः।
मूषागतं रत्नसमं स्थिरञ्च
तदा विशुद्धं प्रवदन्ति लोहम् ॥
षोडशाङ्गुलविस्तीर्णं हस्तमात्रायतं शुभम् ।
धातुसत्त्वनिपातार्थं कोष्ठकं वरवर्णिनि ॥ 49-57.

c43.s2.29

¹ M. Ms reads खसत्त्वे ।

c43.s2.30

इति श्रीपार्वतीपरमेश्वरसंवादे रसार्णवे रससंहितायां यन्त्रमूषाग्निवर्णनो नाम चतुर्थः पटलः ।

c43.s2.31

क्षिक्षाराष्टङ्गणक्षारो यवक्षारश्च सर्जिका ।
तिलापामार्गकदलीपलाशशिग्रुमोचकाः ।
मूलाईकविम्बाश्चैत्या वृक्षकक्षाराः प्रकीर्तिताः ॥ V, 35-36.
माक्षिकं विमलं शैलं² चपलो रसकस्तथा ।
सस्यको दरदश्चैव स्रोतोऽञ्जनमथाष्टकम्³ ।
अष्टौ महारसाः * * * VII, 2-3.
क्षौद्रगन्धर्व्वतैलाभ्यां गोमूत्रेण घृतेन च ।
कदलीकन्दसारेण भावितं माक्षिकं मुहुः ।
मूषायां मुञ्चति ध्मातं सत्वं शुल्कनिभं मृदु ॥ 12-13.
विमलं शिग्रुतोयेन काक्षीकासीसटङ्गणैः ।
वज्रकन्दसमायुक्तं भावितं कदलीरसैः ॥

c43.s2.32

² K Ms has शिला ।

c43.s2.33

³ K Ms reads स्रोतोञ्जनमथाष्टकम्, which is incorrect.

c43.s2.34

मोचिकाक्षारसंयुक्तं धापितं मूकमूषया ।
सत्त्वं चन्द्रार्कसङ्काशं प्रयच्छति न संशयः ॥ ¹ 20-21.
गौरः श्वेतोऽरुणः कृष्णश्चपलस्तु प्रशस्यते ।
हेमाभश्चैव ताराभो विशेषाद्रसबन्धकः ॥
शेषौ मध्यौ च लाक्षावद्वह्नौद्रावौ तु निष्कलौ ।
वङ्गवद्द्रवते वह्नौ चपलस्तेन कीर्त्तितः ॥ 26-27
मृत्तिकागुड़पाषाणभेदैतो ² रसकस्त्रिधा ॥ VII, 31.
किमत्र चित्रं रसको रसेन,
* * भावितः ।
क्रमेण भूत्वा तुरगेण रञ्जितः
करोति शुल्वं ³ त्रिपुटेन काञ्चनम् ⁴ ॥ VII, 34.
ऊर्णाल्लाक्षातथापथ्या-भूलताधूमसंयुतः ।
मूकमूषागतो ध्मातष्टङ्गेण समन्वितः ॥
मत्त्वं कुटिलसङ्काशं मुञ्चत्यत्र न संशयः ⁵ ॥ VII, 37-38.
सस्यकं * * *
शशशोणितमध्ये वा दिनमेकं निधापयेत् ।
तस्य चूर्णं महेशानि पादसौभाग्यसंयुतम् ⁶ ॥

c43.s2.35

¹ विमलं शिय तोयेन काक्षीकासीसटङ्गणैः । वज्रकन्दसमायुक्तं भावितं कदलीरसैः ॥ मोचिकाक्षारसंयुक्तं धमितं मूकमूषगम् । सत्त्वं चन्द्रकिसङ्काश पतति नात्र संशयः ॥ Rr by Nag II 35, 36.

c43.s2.36

² M Ms has भेदक ।

c43.s2.37

³ M. Ms reads गन्धम् ।

c43.s2.38

⁴ This sloka is exactly the same as it is in Rr by Nág I 3

c43.s2.39

⁵ ऊर्णाक्षाक्षातथापथ्या-भूलताधूमसंयुत. । मूक मूषागतो ध्मातस्त्वङ्गेण समन्वित ॥ सत्त्वं कुटिलसङ्गाशं पतति नात्र संशय ॥ Rr by Nág II 31-32

c43.s2.40

⁶ M Ms reads पादसान्नाग्यसंयुक्तम् ।

c43.s2.41

करञ्जतैलमध्यस्थं दिनमेकं निधापयेत् ।
मध्यस्थमन्धमूषायां क्षापयेत्कोकिलावयम् ॥
इन्द्रगोपकसङ्काशं सत्त्वं पतति शोभनम् ॥ VII, 41-44.
गोपित्तेन शतं वारान् सौराष्ट्रीं भावयेत्ततः ।
धमित्वा पातयेत्सत्त्वं क्रामणातिगुह्यकम् ॥ VII, 72-73.
* * * शृणु लोहान्यतः परम् ।
सुवर्णं रजतं ताम्रं तीक्ष्णवङ्ग्भुजङ्गमाः ।
लोहकं षड्विधं तच्च यथापूर्वं तदक्षयम् ॥ VII, 89-90.
रसजं¹ क्षेत्रजञ्चैव लोहसङ्करजं तथा ।
त्रिविधं जायते हेम चतुर्थं नोपलभ्यते ॥
लोहानां मारणं वक्ष्ये समाहितमनाः शृणु ।
* * * *
नास्ति तल्लोहमातङ्गो यन्न गन्धककेशरी ।
निहन्याद्गन्धमात्रेण यद्वा माक्षिककेशरी ॥ VII, 138-142.

c43.s2.42

¹ M. Ms has रजक्तं, which is doubtful

c43.s2.43

इति श्रीपार्वतोपरमेश्वरसंवादे रसार्णवे रससंहितायां महारसोपरस-रत्नलोहलक्षणसंस्कारनिर्णयो नाम सप्तमः पटलः ।

c43.s2.44

श्रीभैरव उवाच—

c43.s2.45

कासीसं सैन्धवं माक्षी सौवीरं व्योषगन्धकम् ।
सौवर्चलं व्योषका च मालतीरससम्भवः ॥²
शिग्रुमूलरसैः सिक्तो विड़ोऽयं सर्वजारणः ॥³ IX, 2-3.
* * * * *

c43.s2.46

² M. Ms has सर्जिका and मालतीनीरसम्भवम् ।

c43.s2.47

³ Cf. Rasakalpa II. 51-65. Here व्योषगन्धकौ, सर्जिका and रससंयुतैः seem to be correct

c43.s2.48

गन्धतालकसिन्धूत्थचूल्लिकाण्डगुणं तथा ।
क्षारैर्मूत्रैश्च विपचेदयं ज्वालामुखो विड़ः¹ ॥

c43.s2.49

¹ K Ms reads अयं ज्वालामुखो विड़ः, which is grammatically incorrect.

c43.s2.50

\* \* \*
एवं संगृह्य सम्भारं रसकर्म समाचरेत् ।
तन्ममाचक्ष्व देवेशि किमन्यच्छ्रोतुमिच्छसि ॥ IX, 9-20.

c43.s2.51

इति श्रीपार्व्वतीपरमेश्वरसंवादे रससंहितायां विड़कथनो नाम नवमः पटलः ।

c43.s2.52

काकमाची जया ब्राह्मी मार्जारी रक्तचित्रकः ।
मण्डूका मुद्रपर्णी च शृङ्गवेरं सशङ्करम् ॥
देवदाली शङ्खपुष्पी काकजङ्घा शतावरी ।
कुमारी भृङ्गराजश्च निर्गुण्डी ग्रीष्मसुन्दरः ।
शूलिनी सूर्य्यपर्णी च गोजिह्वा चौरकञ्चुकः ॥ X, 52-54
तद्रसैः सर्व्वदा² पात्यः सप्तधा निर्मलो भवेत् ।
यामेन³ पिष्टिकां कृत्वा पातयेदूर्द्ध पातने ।
वङ्गनागौ परित्यज्य शुद्धो भवति सूतकः ॥ X, 55-56.
कासीसतुवरौसिन्धुटङ्कणक्षारसंयुतः ।
पूर्व्वभेषजयोगेन सूतऋञ्चरति क्षणात् ॥ XI, 24.
सौवर्चलञ्च कासीसं सामुद्रं सैन्धवं तथा ।
आसुरी टङ्कणं चैव नवसारस्तथैव च ॥
कर्पूरञ्चैव माक्षीकं समभागानि कारयेत् ॥
स्नुह्यर्कदुग्धैर्देवेशि मूषालेपं तु कारयेत् ॥
विड़चूर्णं ततो दत्त्वा कनकं जारयेत्प्रिये ॥ XI, 83 86.
नानावर्णं भवेत्सूतं विहाय घनचापलम् ।
लक्षणं दृश्यते यस्य मूर्च्छितं तं वदन्ति हि ॥

c43.s2.53

² M Ms. has मर्द्दितम् ।

c43.s2.54

³ M. Ms. reads साद्येण ।

c43.s2.55

आर्द्रत्वं चपलत्वं¹ च तेजो गौरवचापलम् ।
यस्यैतानि न दृश्यन्ते विद्यात्तं मृतसूतकम् ॥²
XI, 197-198.

c43.s2.56

¹ M Ms reads घनत्वम्, which is preferable.

c43.s2.57

² Cf आर्द्रत्वञ्च घनत्वञ्च चापल्यं गुरुतेजसः । यस्यैतानि न दृश्यन्ते तं विद्यान्मृतसूतकम् ॥ नानावर्णं भवेत् सूतं विहाय घनचापलम् । लक्षणं दृश्यते यस्य मूर्च्छितं तं वदन्ति हि ॥ Rr. by Nág IV.

c43.s2.58

तीक्ष्णं नागं तथा शुल्वं रसकेन तु रञ्जयेत् ।
समस्तं जायते हेम कुष्माण्डकुसुमप्रभम् ॥ XII, 50.

c43.s2.59

पञ्चभूतात्मकः सूतस्तिष्ठत्येव सदाशिवः ॥ XII, 78.

c43.s2.60

भस्मसूतं पलैकञ्च पलमेकञ्च³ गन्धकम् ।
पुटेन जायते भस्म सिन्दूरारुणसन्निभम् ॥ XIV, 81.

c43.s2.61

³ M. Ms. has * * * पलैकं पन्नगस्य च । ताम्रपात्रेण तं कृत्वा मर्दयेत्क्षीरहस्तिना । मृदग्निना ततः पाच्यं यावन्नागेन मेलनम्

c43.s2.62

मयूरग्रीवतुत्थञ्च कुङ्कुमं रसकं तथा ।
बालवत्सपुरीषञ्च विषं हालाहलं तथा ॥
रक्तचित्रकचूर्णंन्तु समभागानि कारयेत् ।
मर्दयेन्मध्यमाम्लेन छायाशुष्कञ्च कारयेत् ॥
मधुना सह संयोज्य नागपत्राणि लेपयेत् ।
मूकभूषागतं ध्मातं नागं रञ्जयति क्षणात् ॥
अशोकपत्ररसेन सप्तवारं निषेचयेत् ।
अष्टाविंशतिकृत्वो वै तैले भूनागसम्भवे ॥
तन्नागं जायते दिव्यं देवाभरणभूषणम् ॥
XVII, 70-74.

Linked texts (3)