History of Chemistry in Ancient and Medieval India, Incorporating the History of Hindu Chemistry by Acharya Prafulla Chandra Ray c43.s2.2
History of Chemistry in Ancient and Medieval India, Incorporating the History of Hindu Chemistry by Acharya Prafulla Chandra Ray c43.s2.2
- Language
- English
c43.s2.2
रसोपरसलोहानि वसनं काञ्जिकं विड़म् ।
धमनी लोहयन्त्राणि खल्लपाषाणमर्दकम् ॥
कोष्ठिका वकनालञ्च गोमयं सारमिन्धनम् ।¹
मृन्मयानि च यन्त्राणि मुसलोलूखलानि च ॥
संड़सीतन्त्रसंदंशं मृत्पात्राण्यःकरोटकम् ।²
प्रतिमानानि च तुला छेदनानि कषोत्पलम्³ ॥
वंशनाली लोहनाली मूषामार्गास्तथौषधी ।
स्नेहाम्ललवणक्षारविषाण्युपविषाणि च ॥
एवं संगृह्य सम्भारं कर्मयोगं समाचरेत् ॥
द्रवद्रव्येण भाण्डस्य पूरितार्द्धोदरस्य च⁴ ।
मुखे तिर्यक्कते भाण्डे रसं सूत्रेण लम्बितम् ।
तं स्वेदयेत्तत्र गतं डोलायन्त्रमिति स्मृतम् ॥
लोहमूषाद्वयंङ्कत्वा द्वादशाङ्गुलमानतः ।
ईषच्छिद्रां छिद्रमितामेकां गन्धकसंयुताम् ॥⁵
Linked texts (1)
- Rasārṇava — Sanskrit