History of Chemistry in Ancient and Medieval India, Incorporating the History of Hindu Chemistry by Acharya Prafulla Chandra Ray c43.s2.41
History of Chemistry in Ancient and Medieval India, Incorporating the History of Hindu Chemistry by Acharya Prafulla Chandra Ray c43.s2.41
- Language
- English
c43.s2.41
करञ्जतैलमध्यस्थं दिनमेकं निधापयेत् ।
मध्यस्थमन्धमूषायां क्षापयेत्कोकिलावयम् ॥
इन्द्रगोपकसङ्काशं सत्त्वं पतति शोभनम् ॥ VII, 41-44.
गोपित्तेन शतं वारान् सौराष्ट्रीं भावयेत्ततः ।
धमित्वा पातयेत्सत्त्वं क्रामणातिगुह्यकम् ॥ VII, 72-73.
* * * शृणु लोहान्यतः परम् ।
सुवर्णं रजतं ताम्रं तीक्ष्णवङ्ग्भुजङ्गमाः ।
लोहकं षड्विधं तच्च यथापूर्वं तदक्षयम् ॥ VII, 89-90.
रसजं¹ क्षेत्रजञ्चैव लोहसङ्करजं तथा ।
त्रिविधं जायते हेम चतुर्थं नोपलभ्यते ॥
लोहानां मारणं वक्ष्ये समाहितमनाः शृणु ।
* * * *
नास्ति तल्लोहमातङ्गो यन्न गन्धककेशरी ।
निहन्याद्गन्धमात्रेण यद्वा माक्षिककेशरी ॥ VII, 138-142.