Pramāṇa · Search · About · API

History of Chemistry in Ancient and Medieval India, Incorporating the History of Hindu Chemistry by Acharya Prafulla Chandra Ray c43.s2.52

History of Chemistry in Ancient and Medieval India, Incorporating the History of Hindu Chemistry by Acharya Prafulla Chandra Ray c43.s2.52

Language
English

c43.s2.52

काकमाची जया ब्राह्मी मार्जारी रक्तचित्रकः ।
मण्डूका मुद्रपर्णी च शृङ्गवेरं सशङ्करम् ॥
देवदाली शङ्खपुष्पी काकजङ्घा शतावरी ।
कुमारी भृङ्गराजश्च निर्गुण्डी ग्रीष्मसुन्दरः ।
शूलिनी सूर्य्यपर्णी च गोजिह्वा चौरकञ्चुकः ॥ X, 52-54
तद्रसैः सर्व्वदा² पात्यः सप्तधा निर्मलो भवेत् ।
यामेन³ पिष्टिकां कृत्वा पातयेदूर्द्ध पातने ।
वङ्गनागौ परित्यज्य शुद्धो भवति सूतकः ॥ X, 55-56.
कासीसतुवरौसिन्धुटङ्कणक्षारसंयुतः ।
पूर्व्वभेषजयोगेन सूतऋञ्चरति क्षणात् ॥ XI, 24.
सौवर्चलञ्च कासीसं सामुद्रं सैन्धवं तथा ।
आसुरी टङ्कणं चैव नवसारस्तथैव च ॥
कर्पूरञ्चैव माक्षीकं समभागानि कारयेत् ॥
स्नुह्यर्कदुग्धैर्देवेशि मूषालेपं तु कारयेत् ॥
विड़चूर्णं ततो दत्त्वा कनकं जारयेत्प्रिये ॥ XI, 83 86.
नानावर्णं भवेत्सूतं विहाय घनचापलम् ।
लक्षणं दृश्यते यस्य मूर्च्छितं तं वदन्ति हि ॥

Linked texts (1)