History of Chemistry in Ancient and Medieval India, Incorporating the History of Hindu Chemistry by Acharya Prafulla Chandra Ray c44.69
History of Chemistry in Ancient and Medieval India, Incorporating the History of Hindu Chemistry by Acharya Prafulla Chandra Ray c44.69
- Language
- English
c44.69
हेम्नो योनिस्तीक्ष्णं¹ रागान् गृह्णाति तीक्ष्णेन ॥
[टीका—तीक्ष्णहिङ्गलयोगेन गुणाधिक्यमाह—]
तदपि च दरदेन हतं कृत्वा माक्षीकेण रविसहितम्²।
वासितमपि वासनया घनवच्चार्थञ्च जात्यञ्च ॥
[टीका—तीक्ष्णवदेतानाह—]
कान्तं वा तीक्ष्णं वा काण्डीं वा वज्रसस्यकं वापि³।
एकतमं सर्व्वं वा रसरजने सङ्करोऽभीष्टः⁴ ॥
[टीका—स्वे स्वे विकारे वक्ष्यमाणमाह—]
कुटिले⁵ वलमप्यधिकं रागस्तीक्ष्णे तु पन्नगे स्नेहः⁶।
रागस्नेहवलानि तु कमले शंसन्ति धातुविदः⁷ ॥
सर्व्वैरभिलोहैर्माक्षिकमहितैरमृतैस्तथा गर्भे।
विड़योगेन तु जीर्ण्णो रसराजो विशति लोहेषु ॥⁸
[टीका—रसबन्धाना मारणे विधानमाह—]
तालकं⁹दरदशिलाभिः क्षीरक्षाराम्ललवणसहिताभिः।
समकद्दिगुणत्रिगुणान् पुटो वहेद्वङ्गशस्त्रादीन्¹⁰ ॥
[टीका—पुटितधातुकृत्यमाह—]
रक्तास्नेहनिषेकैः सेकं¹¹ कुर्य्याद्रसस्य पिष्टिरियम्¹² ।