Pramāṇa · Search · About · API

History of Chemistry in Ancient and Medieval India, Incorporating the History of Hindu Chemistry by Acharya Prafulla Chandra Ray c45.19

History of Chemistry in Ancient and Medieval India, Incorporating the History of Hindu Chemistry by Acharya Prafulla Chandra Ray c45.19

Language
English

c45.19

अष्टौ रसास्तथैषां सत्त्वानि¹ रसायनानि स्युः ॥
[टीका—उपरससंज्ञकानाह—]
गन्धकगैरिकसुशिल²ञ्चितिखेचरमञ्जनञ्च कङ्कुष्ठम् ।
उपरससंज्ञमिदं³स्यात् सिखिशिखिनौ मारणोक्ताख्यौ ॥
[टीका—पूतिसंज्ञके आह—]
ताम्रारतीक्ष्णकान्ताभ्रकमण्डलोहानि⁴ नागवङ्गौ च⁵ ।
कथितौ च पूतिसंज्ञौ⁶ तेषां संशोधनं कार्य्यम् ॥
[टीका—लवणक्षारसंज्ञे आह—]
सौवर्चलसैन्धवकं चूलिकसामुद्ररोमकविडानि ।
षड्लवणान्येतानि तु सर्जियवटङ्कणाः क्षाराः ॥⁷
[टीका—शोधकद्रावकगणमाह—]
सूर्य्यावर्त्तः⁸ कदली कन्या⁹ कोषातकी च सुरदाली ।
श्रीपुञ्च¹⁰ वज्रकन्दो नीरकणा काचमाची च ॥
आमासिकरसेन तु लवणक्षाराम्लभाविता बहुशः ।
शुद्ध्यन्ति रसोपरसा ध्माता मुञ्चन्ति सत्त्वानि ॥¹¹