History of Chemistry in Ancient and Medieval India, Incorporating the History of Hindu Chemistry by Acharya Prafulla Chandra Ray c45: नवमः पटलः ।
History of Chemistry in Ancient and Medieval India, Incorporating the History of Hindu Chemistry by Acharya Prafulla Chandra Ray c45
- Language
- English
Contents
- c45.s1 एकादशः पटलः। — 22 parts
नवमः पटलः ।
c45.1
[टीका—बीजप्रशंसनमाह—]
c45.2
इति रक्तोऽपि रसेन्द्रो बीजेन विना न कर्मकृद्भवति ।
द्विविधं तत् पीतसितं² नियुज्यते सिद्धयेच्च रसम्³ ॥
c45.3
² B reads पीतं सितं, which destroys the metre
c45.4
³ नियुद्यये सिद्धयेच्च रसं, an incorrect variant in A नियुज्यते सिद्धमेव तत, a variant in B. Both texts are collated in our adopted reading.
c45.5
[टीका—रसोपरसधातूनां बहुविधत्वात् शोधनमाह—]
c45.6
तस्य विशुद्धिर्बहुधा⁴ गगनरसोपरसलोहचूर्णैश्च ।
द्विविधं बीजं तैरपि नाशुद्धैः शुध्यते कदाचिदपि⁵ ॥
c45.7
⁴ रक्षति गुद्धिर्धात्वा, a variant in A, wherein the first term seems to be incorrect
c45.8
⁵ B reads नैतत instead of कदाचिदपि । This is incorrect, since it contains two negatives.
c45.9
[टीका—अशुद्धबीजप्रभावमाह—]
c45.10
यः पुनरेतैः कुरुते कर्म्माशुद्धैर्भवेद्रसस्तस्य ।
अव्यापकः पतङ्गो⁶ न रसे न रसायने योग्यः⁷ ॥
c45.11
⁶ अव्यापकपतङ्गि, a variant in A, which is incorrect
c45.12
⁷ A reads योज्यै । B reads रसायनवने योग्यः । Both the readings are incorrect
c45.13
[टीका—रससंशृङ्कानाह—]
c45.14
वैक्रान्तकान्त⁸सस्यकमाक्षिक⁹विमलाद्रिदरदसत्त्वाश्च¹⁰ ।
c45.15
⁸ A omits कान्त ।
c45.16
⁹ A reads माचीक, which mars the metre.
c45.17
¹⁰ A reads दणदरसक्यैच ।
c45.18
पन्नादष्टगुणं दत्वा सत्वादिष्टगुणं द्रुति ।
घृतेरष्टगुणं बीजं तस्माद्वीजं तु जारयेत् ॥
c45.19
अष्टौ रसास्तथैषां सत्त्वानि¹ रसायनानि स्युः ॥
[टीका—उपरससंज्ञकानाह—]
गन्धकगैरिकसुशिल²ञ्चितिखेचरमञ्जनञ्च कङ्कुष्ठम् ।
उपरससंज्ञमिदं³स्यात् सिखिशिखिनौ मारणोक्ताख्यौ ॥
[टीका—पूतिसंज्ञके आह—]
ताम्रारतीक्ष्णकान्ताभ्रकमण्डलोहानि⁴ नागवङ्गौ च⁵ ।
कथितौ च पूतिसंज्ञौ⁶ तेषां संशोधनं कार्य्यम् ॥
[टीका—लवणक्षारसंज्ञे आह—]
सौवर्चलसैन्धवकं चूलिकसामुद्ररोमकविडानि ।
षड्लवणान्येतानि तु सर्जियवटङ्कणाः क्षाराः ॥⁷
[टीका—शोधकद्रावकगणमाह—]
सूर्य्यावर्त्तः⁸ कदली कन्या⁹ कोषातकी च सुरदाली ।
श्रीपुञ्च¹⁰ वज्रकन्दो नीरकणा काचमाची च ॥
आमासिकरसेन तु लवणक्षाराम्लभाविता बहुशः ।
शुद्ध्यन्ति रसोपरसा ध्माता मुञ्चन्ति सत्त्वानि ॥¹¹
c45.20
¹ A reads चत्वारि which is not accurate.
c45.21
² B reads शिलानक, which destroys the metre
c45.22
³ B reads संज्ञकमिदं, which mars the metre
c45.23
⁴ B reads सत्तलोहानि ।
c45.24
⁵ B reads वङ्गनागौ च ।
c45.25
⁶ B reads कथितौ दुमृवसंज्ञो which is incorrect
c45.26
⁷ This verse is not found in A
c45.27
⁸ A reads सूर्य्यावर्त्तकः ।
c45.28
⁹ B reads चम्पा ।
c45.29
¹⁰ A reads श्रिपुञ्ज ।
c45.30
¹¹ This verse is found in A only.
c45.31
[टीका—शोधकद्रावकाणां शोधनद्रावणविधानमाह—]
स्विन्नं सञ्चारान्धैः¹ ध्मातं वैक्रान्तकं हठाद्द्रवति² ।
तद्द्द्रुतमात्रं³ शुष्यति कान्तं शशरक्तभावनया ॥
c45.32
¹ A reads सचारान्धैः।
c45.33
² A reads हुताद्द्रवति, which is incorrect
c45.34
³ A reads नद्रुतमात्रं, which is incorrect
c45.35
[टीका—तच्चाह—]
सस्यकमपि रक्तागणैः⁴ सुभावितं स्नेह रागसंयुक्तम्⁵ ।
शुष्यति वारैः⁶ सप्तभिरतः परं युज्यते कार्ये⁷ ॥
c45.36
⁴ B reads रसगणैः, which seems to be incorrect
c45.37
⁵ भावनतः स्नेहरागसंसिक्तं, a variant in A
c45.38
⁶ A reads रागैः।
c45.39
⁷ सप्तभिरुतः परं योजयेत् कार्ये, a variant in A, which mars the metre B reads सप्तभिरमितः परं, wherein अमितः is incorrect as well as a defective metre.
c45.40
[टीका—तच्चाह—]
क्षारैः स्नेहैरादौ पश्चादाम्लेन⁸ भावितं विमलम् ।
शुष्यति तथाच रसकं दरदं माक्षीकमप्येवम्⁹ ॥
c45.41
⁸ B reads पयात् खण्डेन।
c45.42
⁹ दरदमाक्षिकमप्येषं तथा शुद्धयन्ति, a variant in A, wherein the last two words are superfluous and incorrect
c45.43
[टीका—ताम्रशोधनमाह—]
तनुरविपत्रं लिप्तं¹⁰ लवणक्षाराम्लरविस्नुक्छीरैः¹¹ ।
ध्मातं निर्गुण्डीरससिक्तं बहुशो वहेद्द्द्रवत्वञ्च¹² ॥
c45.44
¹⁰ B reads तनुरपि पत्रलिप्तं, which has no sense
c45.45
¹¹ A reads क्षुहि। B reads क्षुहा। Both the readings destroy the metre.
c45.46
¹² A reads बहुशो वहेद्रक्तं । B reads बहुशो द्रबलञ्च । Both the readings are defective.
c45.47
[टीका—लोहशोधनमाह—]
c45.48
शुद्धति नागो वङ्गो घोषो रविणा च वारमुनिसंख्यैः¹।
निर्गुण्डीरससेकै²स्तन्मूलरजःप्रवापैश्च ॥
c45.49
¹ घोषो रविरोधमपि च मुनिसंख्यैः, a variant in A. B reads रविणा च वारमुनिभिः। Both the readings are incorrect.
c45.50
² B reads सिताँ, which is not correct.
c45.51
[टीका—तच्चाह—]
c45.52
रक्तगणगलितपशुजलभावितपुटितं च रज्यते³ तीक्ष्णम्।
शुद्धति कदलीशिखिरसभावितपुटितं⁴ त्रिभिर्वारैः ॥
c45.53
³ A reads रञ्जते, which is incorrect
c45.54
⁴ शुद्धति कदलीलाङ्गिरसभावितं पुटितं, an incorrect variant in B.
c45.55
[टीका—मारणमाह—]
c45.56
भर्व्वः शुद्धति लोहो रज्यति⁵ सुग्गोपमन्निभो वापात्।
माक्षिकमत्त्वे शृङ्गं⁶ शुल्वं वा गन्धकेन हतम्⁷ ॥
c45.57
⁵ A and B read रञ्जति, which is grammatically incorrect.
c45.58
⁶ A reads सदृश। B reads दर्ददन शृं। Both are unintelligible
c45.59
⁷ A reads शुल्वेन वा गधकेन हत। B reads मृतं।
एकादशः पटलः।
c45.s1.1
छागास्थिभस्मनिर्मितमूषां कृत्वामलकाकारां ।
दलयोगे घनरन्ध्रां टंकणविषगुञ्जाक्षतलेपां ॥
c45.s1.2
[टीका—अथ ग्रन्थकारयितुर्वंशवर्णनमाह—]
c45.s1.3
शीतांशुवंशसम्भवहृहयकुलजन्मजनितकुल⁸महिमा।
c45.s1.4
⁸ कुल is not found in B
c45.s1.5
जयति श्रीमदनरथः¹ किरातनाथो रसाचार्य्यः ॥
[टीका—अथ चास्य कारयितुर्गुणवर्णनमाह—]
यस्य स्वयमवतीर्णा रसविद्या सकलमङ्गलाधारा² ।
परमश्रेयसहेतुः श्रेयसि परमेष्ठिनः पूर्व्वम्³ ॥
येन चतुर्व्वर्ण्यम्लेच्छादिव्याधादिलब्धसत्वाभम्⁴ ।
दक्षिणरसा गृहीता⁵ आदिवराहेणेव महाप्रलये ॥⁶
नष्टशरीरविवर्णा हीनाङ्गाः कुष्ठिनो गुणाद्यस्य ।
अभिनवसोमेश्वरतामापुरपि पुनर्नवैरङ्गैः ॥
[टीका—कर्त्ता स्वनाममहत्त्वं सूचयन्नाह—]
तस्मात् किरातनृपतेः बहुमानमवाप्य रससुकर्मरतः⁷ ।
रसहृदयाख्यं तन्त्र⁸ विरचितवान् भिक्षुगोविन्दः⁹ ॥
नम्वा मङ्गलविष्णोः सुमनोविष्णोः सुतेन तन्त्रोऽयम्¹⁰ ।
श्रीगोविन्देन कृतः¹¹ तथागतः श्रेयसे भूयात् ॥¹²
c45.s1.6
¹ स जयति श्रीमदनथ, a variant in B,
c45.s1.7
² C reads सकलमङ्गलाचारा ।
c45.s1.8
³ Of the latter half C has only परं सहेतु ।
c45.s1.9
⁴ C reads चतुर्व्वर्ण्यम्लेच्छादिव्यादावलब्धसत्वाभम्, which seems to be incorrect Cf Patala 1, in which the following verse is given --किरातगोपादिकतापसाद्यवनेचराक्षात्-कुशलास्तथान्ये । विदति नानाविधभेषजाना प्रमाणवर्णप्रकृतिनामजातीः ॥
c45.s1.10
⁵ दशनिन्दुरस गृहीत्वा is the incorrect reading in C [In the case of किरातनाथ रसा, गृहीता, 1 e, collected रसs--mercury, minerals, &c and दक्षिण is favorable, and in the case of आदिवराह रसायगृहीता, 1 e , lifted up the earth ]
c45.s1.11
⁶ This verse and the next are not found in B.
c45.s1.12
⁷ C reads रसकर्मोपदेशतो दृष्टा, which destroys the metro
c45.s1.13
⁸ C reads रसहृदयेष्संतं, which seems to be incorrect
c45.s1.14
⁹ C reads विरचिताथा भगवद्गोविन्दः, which is incorrect
c45.s1.15
¹⁰ C has रसाटव्यनाम तन्त्रोयम्, which is incorrect.
c45.s1.16
¹¹ C has श्रीमद्भगवद्गोविन्देन कृतं, which mars the metre
c45.s1.17
¹² This verse and the next are not found in B
c45.s1.18
अष्टादशसंस्कारं रसेन्द्रदेवस्य दिव्यतनु दृष्ट्वा।
लिखितमिदं पुण्यतमं रसहृदयमवाप्यते सकलम् ॥
c45.s1.19
इति श्रीमद्भगवद्गोविन्दविरचितं रसहृदयं समाप्तम्¹
c45.s1.20
¹ MS. A ends abruptly with the colophon, which runs thus :—इति श्रीगोविन्द-भगवत्पादविरचिते रसह्ददये जीर्णरसक्रियाधिकार एकविंशतितमः पटलः ॥ The author's account of himself is altogether wanting in it. B has "इति सकलरसवैद्यकुलकिरीट-भूषायमाणारुणपादपद्मराग सकलविद्यापारीण श्रीमद्भिक्षुगोविन्दकृतौ रसहृदयः समाप्तः। इति श्रीमत्कुरलवंशपयोदधिसुधाकरमित्रमहीशात्मजश्रीचतुर्भुजविरचिवाया . . . खण्डे बाला-न्वयवोधिकाख्याया रसहृदयटीकाया रसप्रशंसात्मक एकोनविंशोऽववोधः। इति श्रीः” ॥
c45.s1.21
शुभमस्तु।
c45.s1.22
संवत् १६०४ समये ज्येष्ठ वदि १३ भौमे जगन्नाथभट्ट लेखि॥ श्रीराम हाल संवत् १८८० पौष वदि ३ भौमे।
Linked texts (1)
- Rasahṛdaya — Govinda, Sanskrit