Pramāṇa · Search · About · API

History of Chemistry in Ancient and Medieval India, Incorporating the History of Hindu Chemistry by Acharya Prafulla Chandra Ray c46.s1.23

History of Chemistry in Ancient and Medieval India, Incorporating the History of Hindu Chemistry by Acharya Prafulla Chandra Ray c46.s1.23

Language
English

c46.s1.23

रसेन्द्रः क्षिप्यते तत्र तारं संजायते क्षणात् ।
अथातः संप्रवक्ष्यामि मूषाबंधं यथा भवेत् ॥ 20.
मृत्तिकाः ग्राहयेत् प्राज्ञस्तृणपाषाणवर्जिताः ।
तुषादग्धास्त्रयो ग्राह्या मृद्भागास्तु त्रयस्तथा ॥ 21.
एक्रीकृत्य तु संबन्धे मूषां तत् कारयेद्बुधः ।
गोस्तनाकारसदृशीमथवामलकं कुरु ॥ 22.
मूषाबंधमिति ख्यातं साधकानां हिताय वै ।
अथान्यत् संप्रवक्ष्यामि रसस्य मारणं यथा ॥ 23
ग्राहयेत् पूर्ववद्भूयः ओषधीस्तिस्रः साधकः ।
मूषां संलेपयेत् तेन धाम्य कर्म समाचरेत् ॥ 24.
रसेन्द्रो म्रियते क्षिप्रं कुरु कर्म यदिच्छया ।
वीतोदकेन कामिन हेमकर्माणि वा शृणु ॥ 25.
कारयेल्लोहमयं पात्रं तस्योर्द्धं मृन्मयं शुभे ।
अन्योन्यपृष्ठसंलग्नं कारयेत् साधकोत्तमः ॥ 26.
अधोयन्त्रेण तं धाम्य आयसं तत्र जारयेत् ।
तप्तखल्वोदरे घृष्टं जरते नात्र संशयः ॥ 27.
तद्गुणं आयसं तत्र हेमं चाष्टगुणं ददेत् ।
क्षौरवच्चं तथा चारौ षट्जारौ उदिरग्रहौ । (?)
ग्राहयित्वा रसं तेषां आयसं जारयेन्नरः ॥ 28.
हेमं संजायते तत्र धर्मकामार्थसाधनं ।
दृष्ट्वा खल्वोदरे तप्ते हेमं षड्गुणतां भजेत् ॥ 29.
पुरा महौषधैर्युक्तं जरते नात्र संशयः ।
जारिते सारितं तद्व्रात् पुनस्तं जारयेद्यदि ॥ 30
कुरुते कर्मसंघांश्च कर्म सिद्धयर्थसाधनं ॥ 31.
जारणं मारणं चैव समासात् कीर्त्तितं मया ।
किमन्यत् पृच्छसे भद्रे तथा ते कथयाम्यहम् ॥ 32.
इति श्रीकाकचंडेश्वरीमते द्वितीयः पटलः ।