History of Chemistry in Ancient and Medieval India, Incorporating the History of Hindu Chemistry by Acharya Prafulla Chandra Ray c47: Extracts from RASENDRACHUDAMANI.
History of Chemistry in Ancient and Medieval India, Incorporating the History of Hindu Chemistry by Acharya Prafulla Chandra Ray c47
- Language
- English
Extracts from RASENDRACHUDAMANI.
c47.1
सोमदेवविरचितात् रसेन्द्रचूड़ामणेः उद्धृताः श्लोकाः ।
c47.2
रूप्येण सह संयुक्तं ध्मातं रूप्येण चेल्लगेत्¹ ।
तदा निरुत्थमित्युक्तं लोहं तदपुनर्भवम् ॥
एवं रूप्यं सनागं चेत् ध्मातं ताम्रे लगेद्यदि ॥
c47.3
¹ The text reads लघु । But रसरत्नसमुच्चय reads लगेत्, which seems to be correct.
c47.4
निष्कमाले तु नागेऽस्मिन् लोहखाय्यां हृते सति ।
खतो लत्तगुणां हैमीं शलाकां ग्रसति ध्रुवम् ॥
कुसुम्भतैलतप्तं तत् स्वर्णमुद्धिरति² ध्रुवम् ।
शुद्धनागोऽयमुद्दिष्टो वक्ति³ स्वच्छन्दभैरवः ॥
तीक्ष्णं नीलाञ्जनोपेतं ध्मातं हि बहुशो दृढ़म् ।
मृदुकृष्णं द्रुतद्रावं⁴ वरनागं तदुच्यते ॥
मृतस्य पुनरुद्भूतिः संप्रोक्तोत्थापनाख्यया⁵ ।
द्रुतद्रव्यस्य निक्षेपो द्रवे तड्ढालनं मतम् ॥
c47.5
² The text reads खर्यं मुद्धिरिं, which is incorrect.
c47.6
³ The texts reads मुद्दिष्टव्यक्ति, which has no sense
c47.7
⁴ The text has द्रुतद्रावी, which is incorrect. We have adopted the text of रसरत्नसमुच्चय ।
c47.8
⁵ The text reads साधीरुत्थापनाख्यया, which seems to be erroneous
c47.9
त्रिंशत्पलमितं नागं भानुदुग्धेन मर्दितम्।
विमर्द्य पुटयेत्तावत् यावत् कर्षोवशेषितम् ॥
न तत् पुटसहस्रेण क्षयमायाति सर्व्वथा¹।
चपलोऽयं समुद्दिष्टो वार्त्तिकैर्नागसम्भवः² ॥
इत्थं हि चपलः³ कार्य्यो वङ्गस्यापि न संशयः।
तत्स्पृष्टहस्तसंसृष्टः केवलो बध्यते रसः ॥
स रसो धातुवादेषु शस्यते न रसायने⁴।
अयं हि खर्पराख्येन⁵ लोकनाथेन कीर्त्तितः ॥
भ्रामकाख्य रजः सूक्ष्मं पञ्चमांशरसन्वितम्।
कुमारीमूलतोयेन मर्दयेदेकवासरम् ॥
चाङ्गेरीस्वरसेनापि दिनमेकमनारतम्⁶।
एवं भूनागघातेन मर्दयेद्दिवसद्वयम् ॥
अथैकपलमानेन तावता वपुषापि च।
दशनिष्करसेन्द्रेण श्लक्ष्णापिष्टीं समाचरेत् ॥
योजयित्वाथ कल्केन यथापूर्व्वं विमर्दयेत्।
ततः साररसेन्द्रेण सत्त्वेन रसकस्य च।
पिष्टीं कृत्वा तु पूर्व्वेण पूर्व्वकल्केन योजयेत् ॥
अथ प्रक्षाल्य कोष्णेन⁷ काञ्जिकेन प्रशोषयेत्।
c47.10
¹ The text has क्षयमायान्ति सर्व्वंदा, which is grammatically incorrect
c47.11
² The text reads नागंसंभवः, which is incorrect
c47.12
³ The text reads इत्थ' चौरपलः, which is senseless.
c47.13
⁴ The text has रसायनम्।
c47.14
⁵ खर्व्वाख्येन is the reading in रसरत्नसमुच्चय।
c47.15
⁶ The text reads दिनमेकमनारसम्, which has no clear sense
c47.16
⁷ The text reads सोष्णेन, which is unintelligible.
c47.17
पलार्धशुद्धसस्येन भृष्टगुञ्जारसेन च ।
विमर्द्य काञ्जिके कुर्यात् मरिचप्रमितां गुटोम्¹ ॥
निरुध्य वज्रमूषायां सन्धिवन्धं विधाय च ।
शुषिरैर्नवभिः² सम्यग्भस्त्राभ्यां च धमेत् खलु ॥
ततो मूषागतं सत्त्वं समादाय समन्ततः ।
धमेत् प्रकटनूषायां वङ्गनालेन शुद्धये ॥
दशशाणं हि तत्सत्त्वं भस्मना लवणेन च ।
सकाञ्जिकेन संवेष्ट्य पुटयोगेन शोधयेत् ॥
द्विनिष्कप्रमिते तस्मिन् पूर्व्वप्रोक्तेन भस्मना ।
अशीतिगुणितं नागं ध्वात्वा निर्वाहयेत् खलु ॥
इयतां³ पूर्व्वसूतोऽसौ जीयते न कथञ्चन ।
चपलोऽयं समुद्दिष्टो लोकनाथेन शम्भुना ॥
अनेनापि रसः शीघ्रं बध्यते पूर्व्ववत् खलु ।
कारवल्लीजटाचूर्णैर्दशधा पुटितो हि सः ।
भवेन्नागविनिर्मुक्तो ग्रासं गृह्णात्यशेषतः ॥
सुखं प्रकटनूषायां भवेच्च विगुणोत्तरम्⁴ ।
जीर्णग्रासो रसोह्येष देहलोहकरो भवेत् ॥
सोऽयं श्रीसोमदेवेन कथितोऽतीव निश्चितम् ॥
भूभुजङ्गभक्षत्तोयैः⁵ प्रक्षाल्यापहृतं⁶ रजः ।
कृष्णवर्णं हि तत् प्रोक्तं धौताख्यं⁷ रसवादिभिः ॥
c47.18
¹ The text reads मरिचप्रमिता गुटौ, which is incorrect
c47.19
² The text reads शिशिरैर्नवभि., which has no sense
c47.20
³ The text reads इयता, which is incorrect
c47.21
⁴ The text reads विगुणोत्तरा, which is incorrect,
c47.22
⁵ The text reads ताद्यै, which is not accurate
c47.23
⁶ The text has अपहृतं, which is not accurate
c47.24
⁷ The text reads धौताखं, which is not correct
c47.25
स्वरूपस्य विनाशेन पिष्टतापादनं हि यत्।
विप्लुषिर्विर्जितः¹ सूतो नष्टपिष्टः स उच्यते ॥
अथ यन्त्राणि वच्यन्ते रसतन्त्राण्यनेकशः²।
समालोक्य समासेन सोमदेवेन सांप्रतम् ॥
ऊर्ध्वपातनयन्त्रं हि नन्दिना परिकीर्त्तितम् ॥
c47.26
¹ But रसरत्नसमुच्चय reads विवद्भिर्निर्जित' ।
c47.27
² But रसरत्नसमुच्चय reads चशेषतः ।
c47.28
कोष्ठि(ष्टि)कायन्त्रमेतद्धि नन्दिना परिकीर्त्तितम् ॥
c47.29
विन्ध्याद्रौ हिमपर्व्वते च मलये गोमन्तके श्रीगिरौ
सह्याद्रावथ पारियात्रकगिरौ किंकिंविधानामलये ।
माहेन्द्रेऽप्यथ चाह्लवत्क्षितिधरे तद्रूपनामाधिकं
गोपाभीरकसिद्धवैद्यमुखतो वैद्यः समाविदरताम् ॥
c47.30
इति श्रीकरवालभैरवपुरवरपतिश्रीसोमदेवविरचिते
रसेन्द्रचूड़ामणौ रससूत्रस्थाने रसमहिम-
निरूपणं नाम प्रथमोऽध्यायः
समाप्तः ।
Linked texts (2)
- Rasaratnasamuccaya — Vāgbhaṭa (alchemist), Sanskrit
- Rasendracūḍāmaṇi — Somadeva (alchemist), Sanskrit