History of Chemistry in Ancient and Medieval India, Incorporating the History of Hindu Chemistry by Acharya Prafulla Chandra Ray c47.17
History of Chemistry in Ancient and Medieval India, Incorporating the History of Hindu Chemistry by Acharya Prafulla Chandra Ray c47.17
- Language
- English
c47.17
पलार्धशुद्धसस्येन भृष्टगुञ्जारसेन च ।
विमर्द्य काञ्जिके कुर्यात् मरिचप्रमितां गुटोम्¹ ॥
निरुध्य वज्रमूषायां सन्धिवन्धं विधाय च ।
शुषिरैर्नवभिः² सम्यग्भस्त्राभ्यां च धमेत् खलु ॥
ततो मूषागतं सत्त्वं समादाय समन्ततः ।
धमेत् प्रकटनूषायां वङ्गनालेन शुद्धये ॥
दशशाणं हि तत्सत्त्वं भस्मना लवणेन च ।
सकाञ्जिकेन संवेष्ट्य पुटयोगेन शोधयेत् ॥
द्विनिष्कप्रमिते तस्मिन् पूर्व्वप्रोक्तेन भस्मना ।
अशीतिगुणितं नागं ध्वात्वा निर्वाहयेत् खलु ॥
इयतां³ पूर्व्वसूतोऽसौ जीयते न कथञ्चन ।
चपलोऽयं समुद्दिष्टो लोकनाथेन शम्भुना ॥
अनेनापि रसः शीघ्रं बध्यते पूर्व्ववत् खलु ।
कारवल्लीजटाचूर्णैर्दशधा पुटितो हि सः ।
भवेन्नागविनिर्मुक्तो ग्रासं गृह्णात्यशेषतः ॥
सुखं प्रकटनूषायां भवेच्च विगुणोत्तरम्⁴ ।
जीर्णग्रासो रसोह्येष देहलोहकरो भवेत् ॥
सोऽयं श्रीसोमदेवेन कथितोऽतीव निश्चितम् ॥
भूभुजङ्गभक्षत्तोयैः⁵ प्रक्षाल्यापहृतं⁶ रजः ।
कृष्णवर्णं हि तत् प्रोक्तं धौताख्यं⁷ रसवादिभिः ॥
Linked texts (1)
- Rasaratnasamuccaya — Vāgbhaṭa (alchemist), Sanskrit