Pramāṇa · Search · About · API

History of Chemistry in Ancient and Medieval India, Incorporating the History of Hindu Chemistry by Acharya Prafulla Chandra Ray c47.9

History of Chemistry in Ancient and Medieval India, Incorporating the History of Hindu Chemistry by Acharya Prafulla Chandra Ray c47.9

Language
English

c47.9

त्रिंशत्पलमितं नागं भानुदुग्धेन मर्दितम्।
विमर्द्य पुटयेत्तावत् यावत् कर्षोवशेषितम् ॥
न तत् पुटसहस्रेण क्षयमायाति सर्व्वथा¹।
चपलोऽयं समुद्दिष्टो वार्त्तिकैर्नागसम्भवः² ॥
इत्थं हि चपलः³ कार्य्यो वङ्गस्यापि न संशयः।
तत्स्पृष्टहस्तसंसृष्टः केवलो बध्यते रसः ॥
स रसो धातुवादेषु शस्यते न रसायने⁴।
अयं हि खर्पराख्येन⁵ लोकनाथेन कीर्त्तितः ॥
भ्रामकाख्य रजः सूक्ष्मं पञ्चमांशरसन्वितम्।
कुमारीमूलतोयेन मर्दयेदेकवासरम् ॥
चाङ्गेरीस्वरसेनापि दिनमेकमनारतम्⁶।
एवं भूनागघातेन मर्दयेद्दिवसद्वयम् ॥
अथैकपलमानेन तावता वपुषापि च।
दशनिष्करसेन्द्रेण श्लक्ष्णापिष्टीं समाचरेत् ॥
योजयित्वाथ कल्केन यथापूर्व्वं विमर्दयेत्।
ततः साररसेन्द्रेण सत्त्वेन रसकस्य च।
पिष्टीं कृत्वा तु पूर्व्वेण पूर्व्वकल्केन योजयेत् ॥
अथ प्रक्षाल्य कोष्णेन⁷ काञ्जिकेन प्रशोषयेत्।

Linked texts (1)