History of Chemistry in Ancient and Medieval India, Incorporating the History of Hindu Chemistry by Acharya Prafulla Chandra Ray c48.s1.1
History of Chemistry in Ancient and Medieval India, Incorporating the History of Hindu Chemistry by Acharya Prafulla Chandra Ray c48.s1.1
- Language
- English
c48.s1.1
विमलसूतवरो हि पलोन्मितं
तदनु धातुघटोत्पटकौंचिकाः ।
पृथगिमाश्च चतुःपलभागिकाः
स्फटिकशुद्धपलाष्टसमन्विताः ।
सह जलेन विमर्द्द्य च यामकं
लवणकाङ्क्षजलेन विमिश्रितम् ।
उदितधातुगणस्य च मूषिकां
कुरु रसं विनिवेशय तत्र वै ।
डमरुकाभिधयन्त्रवरेण तं
द्विदृशयाममजाचयवह्निना ।
पवनपित्तकफक्षयकारकं
सकलरोगहरं परमं सदा ।
गजपतेर्बलवद्बलदो नृणां
द्विजपतौक्षणवन्नयनप्रदः ।
युवतिकामविलासविधायको
भवति सूतवरः सुखदः सदा ।
सघनसाररसः किल कान्तिद-
स्त्वखिलकुष्ठहरः कथितो मया ॥
इति कर्पूररसः ॥
उदयभास्करनामरसो ह्ययं
भवति रोगविशान्तकरः स्वयम् ।