History of Chemistry in Ancient and Medieval India, Incorporating the History of Hindu Chemistry by Acharya Prafulla Chandra Ray c48.s1.2
History of Chemistry in Ancient and Medieval India, Incorporating the History of Hindu Chemistry by Acharya Prafulla Chandra Ray c48.s1.2
- Language
- English
c48.s1.2
मगधिकामधुना सह गुञ्जिकार्-
द्वयमितश्च सदा परिसेवितः ।
ललितकामविलासविधायकः
स्थविरकोऽपि रतौ तरुणायते ॥
गटहरो बलटोऽपि हि वष्टिठो
भवति कम्म्रविपाजज्रोगहा ।
सकलसूतकशास्त्रविमन्त्रणो
द्विजवरेण मया प्रकटोकृतः ॥
इति उदयभास्कररसः ॥
अदिदानीं प्रवक्ष्यामि धातुशोधनमारणम् ।
अनुभूतं मया किञ्चित् किञ्चिच्छास्त्रानुसारतः ॥
सुवर्णं रजतं चेति लोहं शुद्धमुदीरयेत् ।
ताम्रं चैवाश्मसारञ्च नागवङ्गे तथैव च ॥
तीक्ष्णलोहं निगदितं द्वितयं रसवेदिभिः ।
ममित्रलोहवितयं सौराष्ट्रीतिवर्त्तकाः ।
एतेऽष्टौ धातवो ज्ञेया लौहान्येवं भवन्ति हि ॥
अथ रसकगुणाः ।
द्विविधो रसकः प्रोक्तः कारवेल्लकदुर्दुरः¹ ।
सत्त्वपाते परः प्रोक्तः प्रथमश्चौषधादिषु ॥
स तुं² मेहहरश्चैव पित्तश्लेष्मविनाशनः ।
रञ्जनः पारदस्याथ नेत्ररोगक्षयापहः³ ॥