History of Chemistry in Ancient and Medieval India, Incorporating the History of Hindu Chemistry by Acharya Prafulla Chandra Ray c48.s1.23
History of Chemistry in Ancient and Medieval India, Incorporating the History of Hindu Chemistry by Acharya Prafulla Chandra Ray c48.s1.23
- Language
- English
c48.s1.23
अथातः संप्रवक्ष्यामि धातूनां कौतुकं परम् ।
स्वानुभूतं मया किञ्चित् श्रुतं यच्छास्त्रतः खलु ॥
तदहं कथयिष्यामि यत् कृत्वा न सुखी भवेत् ॥
रसकं दरदं ताप्यं गगनं कुनटीसमम् ।
रक्तस्नुहीपयोभिश्च मर्दयेद्दिनसप्तकम् ॥
जलयन्त्रेण वै पाच्यं चतुर्विंशतियामकम् ।
तेन वेध्यं द्रुतं ताम्रं तारं वा नागमेव वा ॥
सहस्र(शत)वेधी तु तत्कल्को जायते नात्र संशयः ॥
एकभागस्तथा सूतो वज्रवङ्गाथ मर्दितः ।
खल्ले निर्निंप्पाच्य रसे पञ्चभागसमन्विते ।
वेत्रयष्ट्या च रागिण्या पीतकल्कं प्रजायते ॥
षोडशांशेन दातव्यं द्रुते ताम्रे सुशोभने ।
जायते प्रवरं हेम शुद्धं वर्णचतुर्दशम् ॥
इति हेमक्रिया ॥