History of Chemistry in Ancient and Medieval India, Incorporating the History of Hindu Chemistry by Acharya Prafulla Chandra Ray c48.s1.24
History of Chemistry in Ancient and Medieval India, Incorporating the History of Hindu Chemistry by Acharya Prafulla Chandra Ray c48.s1.24
- Language
- English
c48.s1.24
स्वर्णमाक्षिकं संस्वेद्य काञ्जिके दिवसत्रयम् ।
चर्मरंग्या(गा)रसेनैव मर्दयेद्दिनसप्तकम् ।
जलेन धौतं तावच्च यावद्धेमनिभं भवेत् ॥
दरदं रसदेशौर्यं¹ गोमूत्रेणैव स्वेदयेत् ।
दोलायन्त्रेऽह्नि² चत्वारि पश्चाच्छुद्धतमो भवेत् ॥
मनःशिला पद्मनिभा रक्ता चैव सुशोभना ।
स्वेदिता मुनिपुष्पस्य रसेनैव तु दोलया ।
याममर्द्धमिता शुद्धा सर्व्वकार्येषु योजयेत् ॥
नवसारस्तथा सूतः शोधितोऽग्निमति स्थले ।
समभागानि सर्व्वाणि मर्दयेन्निम्बुकारसैः ॥
मातुलुङ्गरसेनैव कुमारीसुरसेन वा ।
सूर्यांतपे विमर्द्दोऽसौ पाचितो जलयन्त्रके ।
दिनानि त्रीणि तीव्राग्नौ कुर्य्यात्तदवतारयेत् ॥
शतांशं वेधयेत्तारं शुद्धहेम प्रजायते ।
जलभेदो यदा न स्यान्नात्र कार्या विचारणा ॥
शिलया मारितं नागं कुमार्य्याः स्वरसेन तु ।
पुटद्वादशयोगेन नागभस्म प्रजायते ॥
शतसंख्यानि वै कुर्य्यात् पुटान्येवं शरावके ।
कुमार्य्याः स्वरसेनैव भावयेद्दिनसप्तकम् ।
पूर्व्ववत् पुटनं कार्य्यं शतसंख्यामितं तथा ।
सूतगन्धशिलाटङ्कसमं चेन्नागभस्मकम् ।
त्रिंशदनोपलैर्दद्यात् पुटं वाराहसंज्ञकम् ॥
अनेन विधिना सम्यक् शतसंख्यानि दापयेत् ।
पुटान्येवं कृते त्रीणि शतानि द्वादशाधिकम् ॥