History of Chemistry in Ancient and Medieval India, Incorporating the History of Hindu Chemistry by Acharya Prafulla Chandra Ray c61: अथ नवमोऽध्यायः ।
History of Chemistry in Ancient and Medieval India, Incorporating the History of Hindu Chemistry by Acharya Prafulla Chandra Ray c61
- Language
- English
Contents
- c61.s1 अथ यन्त्राणि । — 8 parts
- c61.s2 अथायःपातनायन्त्रम्— — 2 parts
- c61.s3 अथ दीपिकायन्त्रम्— — 1 part
- c61.s4 अथ ढेकीयन्त्रम्— — 1 part
- c61.s5 अथ बालुकायन्त्रम्— — 15 parts
अथ नवमोऽध्यायः ।
अथ यन्त्राणि ।
c61.s1.1
अथ यन्त्राणि वच्यन्ते रसतान्त्राण्यशेषतः ।
समालोक्य समासेन सोमदेवेन साम्प्रतम् ॥ 1
c61.s1.2
अथ दोलायन्त्रम्—
c61.s1.3
द्रवद्रव्येण भाण्डस्य पूरितार्द्धोदरस्य च ।
मुखमुभयतो द्वारद्वयं कृत्वा प्रयत्नतः ॥ 3.
तयोस्तु निक्षिपेद्दण्डं तन्मध्ये रसपोटलीम् ।
बद्धा तु स्वेदयेदेतद्दॊलायन्त्रमिति स्मृतम् ॥ 4.
c61.s1.4
अथ स्वेदनीयन्त्रम्—
c61.s1.5
साम्बुस्थालीमुखाबद्धे वस्त्रे पाक्यं निवेशयेत् ।
पिधाय पच्यते यत्र स्वेदनीयन्त्रमुच्यते ॥ 5.
c61.s1.6
अथ पातनायन्त्रम्—
c61.s1.7
अष्टाङ्गु लपरिणाहमष्टाङ्गु लमुच्छ्रितम् ।
चतुरङ्गुलकीत्सेधं तोयाधारं गलादधः ॥
c61.s1.8
अधोभाण्डे मुखं तस्य भाण्डस्योपरिवर्त्तिनः
षोडशाङ्गु लविस्तीर्णपृष्ठस्यास्ये प्रवेशयेत् ॥
पार्श्वयोर्महिषीक्षीरचूर्णमण्डफाणितैः ।
लिप्तवा विशोषयेत् सन्धिं जलाधारे जलं क्षिपेत् ।
चुल्लयामारोपयेदेतत् पातनावन्त्रमीरितम् ॥ 6-8.
अथायःपातनायन्त्रम्—
c61.s2.1
अथोर्द्धभाोजने¹ लिप्त' स्थापितस्य जले सुधौः ।
दीप्तैर्वनोपलैः कुर्य्यादधःपातं प्रयत्नतः ॥ 9
c61.s2.2
¹ (I) K reads अय, which we have retained.
अथ दीपिकायन्त्रम्—
c61.s3.1
कच्छपयन्त्रान्तर्गतमृन्मयपीठस्थदीपिकासंस्थः ।
यस्मिन्निपतति सूतः प्रोक्त तद्दीपिकायन्त्रम् ॥ 10
अथ ढेकीयन्त्रम्—
c61.s4.1
भाण्डकण्ठादधश्छिद्रे वेणुनालं विनिचिपेत् ।
कांस्यपात्रद्वय कत्वा सम्पुटं जलगर्भितम् ॥
नलिकास्यं तत्र योज्य दृढं तच्चापि कारयेत् ।
युक्तद्रव्यैर्विनिक्षिप्तः पूर्व्वं तत्र घटे रसः।
अग्निना तापितो नालात्तोये तस्मिन् पतत्यधः ॥
यावदुष्णां भवेत्सर्व्वं भाजनं तावदेव हि।
जायते रससन्धानं ढेकीयन्त्रमितीरितम् ॥ 11-14
अथ बालुकायन्त्रम्—
c61.s5.1
सरसां गूढ़वक्त्रां मृद्वस्त्राङ्गु लघनावृताम् ।
शोषितां काचकूपीं पूरयेत् त्रिषु भागयोः ॥
भाण्डे वितस्तिगम्भीरे बालुका सुप्रतिष्ठिता ।
तद्भाण्डं पूरयेत् त्रिभिरन्याभिरवगुण्ठयेत् ॥
c61.s5.2
भाण्डवक्त्रं माणिकया सन्धिं लिम्पेन्मृदा पचेत् ।
चुल्लयां तृणस्य चादाहान्मषिकापृष्ठवर्त्तिनः ॥
एतद्धि बालुकायन्त्रं तद्यन्त्रं लवणाह्वयम् ॥34-36.
c61.s5.3
अथ लवणयन्त्रम्—
c61.s5.4
एवं लवणनिक्षेपात् प्रोक्तं लवणयन्त्रकम् । 38
c61.s5.5
अथ नालिकायन्त्रम्—
c61.s5.6
लोहनालग्रतं सूतं भाण्डे लवणपूरिते ।
निरुद्धं विपचेत् प्राग्वन्नालिकायन्त्रमेरितम् ॥ 41
c61.s5.7
अथ तिर्य्यक्पातनयन्त्रम्—
c61.s5.8
क्षिपेद्रसं घटे दीर्घनताधोनालसंयुते ।¹
तन्नालं निक्षिपेदन्यघटकुक्ष्यन्तरे खलु ॥
तत्र रुद्धा मृदा सम्यग्वदने घटयोरधः ।
अधस्ताद्रसकुम्भस्य ज्वालयेत् तीव्रपावकम् ॥
इतरस्मिन् घटे तोयं प्रक्षिपेत् स्वादुशीतलम् ।
तिर्य्यक्पातनमेतद्धि वार्त्तिकैरभिधीयते ॥ 48-50.
c61.s5.9
¹ (I) दीर्घनताधौ, a variant in the Poona ed., which also agrees with B. and K.
c61.s5.10
अथ हिङ्गलाकृष्टिविद्याधरयन्त्रम्—
c61.s5.11
स्थालिकोपरि विन्यस्य स्थालीं सम्यङ्निरुध्य च ।
ऊर्द्धस्थाल्यां जलं क्षिप्त्वा वह्निं प्रज्वालयेदधः ॥
एतद्विद्याधरं यन्त्रं हिङ्गलाकृष्टिकृत्हितवे ॥ 57-58
c61.s5.12
अथ धूपयन्त्रम—
c61.s5.13
विधायाष्टाङ्गुलं पात्रं लौहमष्टाङ्गुलोच्छ्रयम् ।
कण्ठाधो द्व्यङ्गुले देशे गलाधारे हि तत्र च ॥
तिर्य्यग्लोहशलाकाश्च तन्वोस्तिर्यग्विनिक्षिपेत् ।
तनूनि स्वर्णपत्राणि तासामुपरि विन्यसेत् ॥
c61.s5.14
पात्राधो निक्षिपेद्धूमं वक्ष्यमाणमिहैव ह
तत् पात्रं न्यग्जयतेण छादयेदपरेण हि ॥
मृदा विलिप्य सन्धिं च वह्निं प्रज्वालये :।
तेन पत्राणि कृत्स्नानि¹ हतान्युक्तविधानतः
⁂ ⁂ ⁂ ⁂
गन्धाश्मक्रगिलानां हि कज्जल्या वा मृताहिना ॥
धूपनं स्वर्णपत्राणां प्रथमं परिकीर्त्तितम्।
तारार्थं तारपत्राणि मृतवङ्गेन धूपयेत् ॥
धूपयेच्च यथायोग्यैरन्यैरूपरमैरपि ।
धूपयन्त्रमिदं प्रोक्तं जारणाद्रव्यसाधनम् ॥ 70-76.
c61.s5.15
¹ झात्नानि, another reading in the Poona ed., which we have accepted
Linked texts (1)
- Rasaratnasamuccaya — Vāgbhaṭa (alchemist), Sanskrit