History of Chemistry in Ancient and Medieval India, Incorporating the History of Hindu Chemistry by Acharya Prafulla Chandra Ray c63.1
History of Chemistry in Ancient and Medieval India, Incorporating the History of Hindu Chemistry by Acharya Prafulla Chandra Ray c63.1
- Language
- English
c63.1
लोहादेरपुनर्भावो गुणाधिक्यं ततोऽयता ।
अनप्सु मज्जनं रेखापूर्णता पुटतो भवेत् ॥ 51.
निम्ने विस्तरतः कुण्डे दिहस्ते चतुरस्रके ।
वनोपलसहस्रेण पूरिते पुटनौषधम् ॥
कोष्ठयां¹ रुद्धं प्रयत्नेन विष्ठिकोपरि निक्षिपेत् ।
वनोपलसहस्रार्धं कोष्ठिकोपरि विन्यसेत् ॥
वह्निं प्रज्वालयेत् तत्र महापुटमिदं स्मृतम् । 54-56.
सुवर्णं रजतं ताम्रं त्रपु सौसकमायसम् ।
षड़ेतानि च लोहानि कृत्रिमे कांस्यपित्तले ॥ 70.
लवणानि षड़ुच्यन्ते सामुद्रं सैन्धवं विड़म् ।
सौवर्चलं रोमकं च चूलिकालवणं तथा ॥
चारद्वयं समाख्यातं यवसर्जिकाटङ्गणम् ॥ 71.