History of Chemistry in Ancient and Medieval India, Incorporating the History of Hindu Chemistry by Acharya Prafulla Chandra Ray c70.s2.104
History of Chemistry in Ancient and Medieval India, Incorporating the History of Hindu Chemistry by Acharya Prafulla Chandra Ray c70.s2.104
- Language
- English
c70.s2.104
वङ्गताम्रसंयोगेन जायते तेन¹ कांस्यकम् ।
कांस्यकं कोमलं चैव नैरसं रसकाठिनम्² ॥ 65.
तीव्रानादं महाशब्दम्³ उग्रकान्ति रविग्रहम् ।
ज्वालापिधानं रौद्रं च ग्राहकं⁴ धुम्वरोधनम् ॥ 66.
एतानि⁵ कांस्यनामानि कार्य्यकाले प्रयोजयेत् ।
बन्धने धारणे चैव सुद्रणे धूमवन्धने ॥ 67
खर्परैः सह पारदं दिव्यं⁶ किञ्चित् प्रमेलयेत् ।
जायते रसको नाम नानारोगहरो भवेत् ॥ 68.
नागस्तु रहतं⁷ हीनो मृतधातुस्तु जायते ।
स एव कोमलाग्निस्रः⁸ सिन्दूर जायते ध्रुवम् ॥ 69.
अनेकाः⁹ साधयेद्विद्या मन्त्रयन्त्रकरोः क्रियाः ।
पूजनाथें मम गुणाः सर्व्वें कल्पितरोचनाः¹⁰ ॥ 70.
ताम्रदाहजलैर्य्योगे जायते तुत्थकं शुभम् ।
नाना रसायनी विद्या साधयेत् सा¹¹ सदैव हि ॥ 71.
रसरसक(?)¹²योगेषु राजमर्य्यादा जायते ।
राजकं जायते नाम नारी राजकलागतिः¹³ ॥ 72
संयोगे साधनं दिव्यं वियोगे साधनं शुभम् ।