Pramāṇa · Search · About · API

History of Chemistry in Ancient and Medieval India, Incorporating the History of Hindu Chemistry by Acharya Prafulla Chandra Ray c70.s2: श्रीगणेशाय नमः ।

History of Chemistry in Ancient and Medieval India, Incorporating the History of Hindu Chemistry by Acharya Prafulla Chandra Ray c70.s2

Language
English

श्रीगणेशाय नमः ।

c70.s2.1

पार्व्वत्युवाच ।
अथानन्तरं¹ देवेश ब्रूहि धातुसुसंस्कृतिम्² ।
येन विज्ञानमात्रेण साधयेद्धातुमञ्जितः ॥ 1

c70.s2.2

¹ A reads अथानतर, which is grammatically incorrect.

c70.s2.3

² A reads धातव्य सस्कृति, which is grossly incorrect.

c70.s2.4

महादेव उवाच ।
धातुर्मुख्यविधः प्रोक्तः तुर्य्यन्तुर्य्यं स्वपन्नतः (?)³ ।
सत्त्वं रजस्तमश्चैव चतुर्थ्यन्तु निरामयः ॥ 2
राजसे राजसो सिद्धिसामसि तामसो सदा ।
सत्त्वसाधनं सात्त्विक्ये आनौति⁴ सर्व्वसाधनम् ॥ 3.

c70.s2.5

³ The sense here is not clear

c70.s2.6

⁴ A reads अनीति, which seems to be incorrect

c70.s2.7

पार्व्वत्युवाच ।
कथ्यतां देवदेवेश सत्त्वं राजसतामसम् ।
अतीव गुणवत्⁵ धातोः कार्य्यं लक्षणलक्षितम्⁶ ॥ 4

c70.s2.8

⁵ A has गुणवती, which appears to be incorrect.

c70.s2.9

⁶ कार्य लक्षणलक्षिता., a variant in A, which is not correct.

c70.s2.10

[^asterisk]: The Ulwar MS (A) reads धातुक्रिया, a part of the Rudrayámala, but the Benares MS. (B) reads धातुमञ्जरी, a part of the same. The two MSS. are exactly the same in subject matter, differing only in name.

c70.s2.11

उपधातुकमेणैव तेषां लक्षणसाधनम् ।
विटकौ च मुदा युक्ता तेषां कम्मसु¹ साधनम् ॥ 5
उपकारो² गुणज्ञत्वं नाना कार्य्यक्रिया शुभा ।
वियोगयोगचाञ्चल्यं वर्णभेदैस्तु मारणम् ॥ 6.
समग्रं देवदेवेश विशेषा धातुहत्क्रियाः ।
येन विज्ञानमात्रेण साधयेत् गन्धकौः क्रियाः ॥ 7.

c70.s2.12

¹ A reads erroneously कर्मंसु ।

c70.s2.13

² A reads उपकार, which is grammatically incorrect

c70.s2.14

महादेव उवाच ।

c70.s2.15

पृथिव्या गर्भमध्ये तु अनेका धातुस्तिष्ठति³ ।
विस्तृता⁴ कियत्कालेन धातुर्नानाविद्योदिता⁵ ॥ 8
गुणलक्षणसंयुक्तां⁶ साम्प्रतं न स्मरामि ह⁷ ॥
कथं ते कथयिष्यामि⁸ वद ब्रह्माण्डवासिनि ॥ 9.

c70.s2.16

³ अनेका धातु तिष्ठति, a variant in A, which treats the word धातु in the mascu-line as well as in the feminine genders

c70.s2.17

⁴ A reads विष्ट ता, which is not correct

c70.s2.18

⁵ धातुनानाविद्योदिता, an incorrect variant in A

c70.s2.19

⁶ A reads संयुक्ता, which is grammatically incorrect

c70.s2.20

⁷ A reads स्मरति ह, which is incorrect.

c70.s2.21

⁸ कथयामास is the incorrect reading in A

c70.s2.22

पार्व्वत्युवाच ।

c70.s2.23

ये केचित् स्मर्य्यन्त⁹ ईश व्यक्तां कथय साम्प्रतम् ।
भवतो¹⁰ऽनुग्रहेणैव साधनार्थञ्च¹¹ सिध्यति ॥ 10

c70.s2.24

⁹ A and B read स्मरते, which is grammatically incorrect.

c70.s2.25

¹⁰ भवता is the reading in A and B, which is not correct

c70.s2.26

¹¹ साधनार्मथं is the incorrect reading in A and B

c70.s2.27

महादेव उवाच ।

c70.s2.28

शृणु देवि प्रवक्ष्यामि धातुं नानाविधस्थितिम् ।
गुणलक्षणसंयुक्तां यथा बुद्धिः¹² कथिष्यति ॥ 11.

c70.s2.29

¹² A and B read युक्त्या।

c70.s2.30

मुख्यप्राधान्यता¹ एते रङ्गलोहकंताम्रकैः ।
रजतेनैव³ संयुक्ता धातोरुत्तमता सदा ॥ 12.
मध्यमा सत्त्वजा धातुः⁴ नीचा च त्रपुसीसयोः ।
संयोगे धातुनामा हि नीचा नीचतरा स्मृता ॥ 13.
संयोगान्ते त्रिधा प्रोक्ता उत्तमा मध्यमाधमा ।
ताम्रजासत्वयोर्योगे⁷ नारौधातुः प्रजायते ॥⁵ 14.
एषा⁶ मध्योत्तमा प्रोक्ता कार्य्यकारणयोगके ।
त्रपुताम्रसंयोगेन⁷ जाता धातुश्च मध्यमा ॥ 15
सीसके⁸ भङ्गदा प्रोक्ता कार्य्यकाले सदोदिता ।
अनेनैव प्रकारेण येन येन च कर्म्मसु ॥ 16.
कर्त्तव्या जाघवो विद्या ज्ञात्वा⁹ बुद्धिविशारदैः ।
अभङ्गं सीसके जातं शुद्ध उत्पत्यकारकम् ॥ 17
हाटके श्वेतता जातेः¹⁰ अच्छया¹¹ रजते यदि ।
लघुद्रावः शुभे शुल्वे लोहे च द्राविणौ कला ॥ 18.
जासत्वे अङ्गहौना च काठिन्याभ्यधिकौ परौ ।
कला एताश्च धातूनां जातिर्भवति शुद्धता¹² ॥ 19.
कला एतादृशो दिव्याः प्राप्तः¹³ सिद्धस्तु जायते ।

c70.s2.31

¹ मुख्यप्रधानता is the correct reading प्राधान्यता is grammatically incorrcet.

c70.s2.32

² A and B have रङ्गलोहताम्रकैं, which mars the metre

c70.s2.33

³ A reads रजतेनेव, which is not correct

c70.s2.34

⁴ धातु' is used here in the feminine gender both by A and B

c70.s2.35

⁵ Vide verse 20.

c70.s2.36

⁶ Both A and B read एतत्, which is grammatically incorrect

c70.s2.37

⁷ संयोगे is the reading in A and B, which mars the metre

c70.s2.38

⁸ A and B reads शीशके ।

c70.s2.39

⁹ A reads वात्वा, which is incorrect

c70.s2.40

¹⁰ A and B read ज्ञाते, —which is incorrect

c70.s2.41

¹¹ A reads अच्छयो । B reads अच्छमो । Both the readings seem to be incorrect

c70.s2.42

¹² जाति भवति शुद्धिता', a variant in A जाति भवति रङ्गद्विवा, an incorrect variant in B

c70.s2.43

¹³ A and B read प्राप्ते, which is grammatically incorrect.

c70.s2.44

शुल्वजासत्वसंयोगे नारौधातुस्तु¹ जायते ॥ 20
कार्य्यानिककरो प्रोक्ता पावामोदसु²कोमला ।
मारणे जारणे दिव्या चारणे त्रोटने तथा ॥ 21
निर्गन्धा वर्णरहिता जातिभेदकरौ स्मृता³ ।
एतावद्⁴गुणसंयुक्ता कार्य्यकारणसंयुता ॥ 22
संस्कारैः संस्कृता सर्व्वैः⁵ सर्व्वसिद्धिकरो स्मृता ।
नानासुवर्णकार्य्येषु रूप्यकार्य्येषु संयुता ॥ 23
धातुधौता च या⁶ धातुः सुधायःसुसंस्कृता ।
कार्य्यसिद्धिकरो⁷ श्रेष्ठा ज्येष्ठकार्य्यविधायिका⁸ ॥ 24
सर्व्वथाशु सुधायः⁹ ग्रासग्रहणग्राहकः(?)।
ग्राहयेत् ग्रासमात्रेण पाचयेदशनं¹⁰ स्त्रियम् ॥ 25.
स्त्रनीयाशनसंपर्के¹¹ जाते भवति सिद्धिदा ।
अन्यथा नैव सिध्यन्ति जायते मृग-शृङ्गव त् ॥ 26.
तस्मात्तेनैव यत्नेन सुधायः¹²सुसंस्कृतिः ।
यथोक्तसंस्कृतिद्युता¹³ सर्व्वतो धातुरुत्तमा¹⁴ ॥ 27
क्रियोचितसुसंस्कारान्¹⁵ कारयेद्यत्नतः सदा ।

c70.s2.45

¹ A reads नारीधन्वस्तु। B reads नारोधन्वस्त । Both seem to be incorrect. (Vide verse 14)

c70.s2.46

² B reads पावामोदक्षु, which is unintelligible.

c70.s2.47

³ A reads मता ।

c70.s2.48

⁴ Both A and B read एतद्, which destroys the metre

c70.s2.49

⁵ A and B want सर्व्वैः, thus rendering the foot incomplete

c70.s2.50

⁶ A and B read ये, which is not correct.

c70.s2.51

⁷ कार्यसिद्धिकरा is the variant in A and B.

c70.s2.52

⁸ A and B read विधायका, which is grammatically incorrect.

c70.s2.53

⁹ A has an incomplete foot सर्व्वतेगधा , B also has सर्व्वोतिग्धा ।

c70.s2.54

¹⁰ A reads पाचयेत् शन, B reads पाचयेत् शनं । Both of them seem to be incorrect

c70.s2.55

¹¹ B reads संपुर्के ।

c70.s2.56

¹² A reads सुधाधाय । B reads युधाधाय । Both are unintelligible.

c70.s2.57

¹³ Both A and B read संपुक्ता, which mars the metre.

c70.s2.58

¹⁴ सर्वे ते धातुरुत्तमा., a variant in A and B, which is grammatically incorrect

c70.s2.59

¹⁵ A and B read only संस्कारा., which is incorrect.

c70.s2.60

यथोदितैस्तु संस्कारैर्युक्ता कार्य्यकरी सदा ॥ 28.
सर्व्वलक्षणसंयुक्ता धातुधौता सदैव हि ।
जायते नैव सन्देहः कार्य्यकारणकारिका¹ ॥ 29.

c70.s2.61

¹ Both A and B read कारका, which seems to be incorrect.

c70.s2.62

पार्व्वत्युवाच ।
कियत्परिमिता धातुः संख्या वदतु मे विभो ।
उत्पत्तिर्लक्षणं तेषां स्थानं चैव² पृथक् पृथक् ॥ 30
कथ्यतां देवदेवेश लक्ष्यलक्षणसंस्कृतिः ।
भेटोऽभेटोऽथ³ योगश्च मारणं चारणं तथा ॥ 31.
पातणं द्रावणं चैव त्रोटनं जारणं तथा ।
सारणं यौवनं षण्ढं गोपनं लेपनं पुनः⁴ ॥ 32.
जातिभेटः सुगन्धश्च मेलनं जरणं परम् ।
समग्रं कथ्यतां देव उपधातुकरौ क्रिया ॥ 33.

c70.s2.63

² B reads स्थानं सैधा ।

c70.s2.64

³ भदामेदाथ is the incorrect reading in A and B.

c70.s2.65

⁴ A reads युतः, which is senseless

c70.s2.66

महादेव उवाच ।
शृणु देवि प्रवक्ष्यामि धातुस्थानानि लक्षणम् ।
उपधातुरनेका हि⁵ तेषां मारणचारणम् ॥ 34.
अचयं राग(?)⁶कारं च शोधनं बन्धनं तथा ।
मारणादि च यत् प्रोक्तं तत् सर्व्वं श्रूयतां शुभे⁷ ॥ 35.

c70.s2.67

⁵ उपधातुरनेकानि, an incorrect variant in A and B.

c70.s2.68

⁶ Both A and B want this word, which may be supposed to be राग or सह here.

c70.s2.69

⁷ तत् सर्व्वं कथयामि ते, a variant in A

c70.s2.70

पार्व्वत्युवाच ।
प्रथमं वद देवेश धात्वनुक्रमलक्षणम् ।
प्रत्येकस्थानरूपं हि गुणसम्बन्धकारकम् ॥ 36

c70.s2.71

महादेव उवाच।

c70.s2.72

शृणु देवि प्रयत्नेन सिद्धान्तवचनं मम।
येन विज्ञानमात्रेण जायते धातुकत्क्रिया ॥ 37.
प्रथमे धातुनामानि संक्षेपात् कार्य्यकारणम्।
कथयामि च ते भद्रे पश्चात् स्थानस्य संपदः¹ ॥ 38.
आदौ सुवर्णनामानि संक्षेपात् शृणुतां प्रिये।
स्वर्णं सुवर्णं सूर्य्यश्च हाटकं वह्निरोचनम् ॥ 39.
सु(स)रङ्गं च तथा लोहं देवधातुर्मनोहरम्।
वैश्यौ² विश्वासगं चैव धर्मदं ऋषिदेवता ॥ 40.
जीवनम् अमृतं चैव हेमं³ हिमवतोद्भवम्⁴।
देववल्लभमं दिव्यं संसारोत्तरणं महत् ॥ 41.
यौवनं सर्व्वलोकानां⁵ नारीणां रञ्जनं शुभम्।
अन्यानि विविधनामानि⁶ गोप्यगोप्यतराणि च⁷ ॥ 42.
रजतं च तथा रूप्यं चन्द्रश्चन्द्रस्य दीपकम्।
शुभ्रज्योतिःकरं⁸ खर्षेषद्वोजं तारकं तथा ॥ 43.
अनन्ता वर्त्तते तेषां कथा दृष्टिकराश्च ये।
स्थापितं लौकिकं चैव⁹ येनाग्रन्यसमूह्नम् ॥ 44.
शीतवीर्य्यं लघुवीर्य्यं विषघ्नं वातनाशनम्।
रसपुञ्जोकरं व्योदं धातुपुञ्जनकारकम् ॥ 45.
रतिदं बहुवीर्य्यं च शुभधाम च संचयम्।

c70.s2.73

¹ Both A and B read संपदि, which has no sense

c70.s2.74

² A reads वशो।

c70.s2.75

³ हेम is generally used.

c70.s2.76

⁴ हिमवदुद्भवं is the correct term

c70.s2.77

⁵ The first term in the previous verse is only जीवनं। But here it is सर्व्वलोकजीवनं। Hence there is no repetition.

c70.s2.78

⁶ अन्यानि विविधान् नामान्, an incorrect variant in A and B.

c70.s2.79

⁷ गोप्यागोप्यतराणि च is the reading in A and B, which has no clear sense.

c70.s2.80

⁸ A and B read शुभ्रद्योतिकरं, which is incorrect.

c70.s2.81

⁹ A reads लौकिका येना, which leaves out चैव।

c70.s2.82

एतानि रजतनाभानि शतान्यन्यानि सन्ति वै¹ ॥ 46.
ताम्रं च² त्राम्बकाधिष्ठं शुल्बं नागस्य मर्द्दनम् ।
नीलं च नीलविभ्रमं वमनं³ चैव पातकम् ॥ 47
उष्णम् उष्णकरं मिद्धं कृकणं कालमर्द्दनम् ।
हेमगर्भं⁴ च कामोटं विष्टं विपनाशनम् ॥ 48.
आरत्ताय सङ्गायश्च⁵ मन्मथो मार एव च ।
एतानि शुल्बनामानि अन्यानि विविधानि च ॥ 49
जास्त्वं च जरातौतं रजतं यशदायकम् ।
रूप्यभाता वरोयञ्च खेटकं कोमलं लघु ॥ 50.
चर्भकं खर्परं चैव रमकं रसवर्द्धकम्⁶ ।
महापथ्यं वलोपेतं पोतगगं सुभस्मकम् ॥ 51.
एतत्तु⁷ खर्परनाम कार्य्यकर्म्मसु सिद्धिटम्⁸ ।
रसगजाङ्ककं कम्भं⁹ छतंतं सिद्धिपु¹⁰ जायते ॥ 52.
त्रपुस्सापहरं वङ्ग रजतारिञ्च¹¹ नोग्टटम् ।
श्रोतवोर्य्यकरं ग्रौटं रटितं तापहारकम् ॥ 53.
मेल्लन्नं माङ्गलादृ(?)भूतं सङ्गायं धातुशेषयोः ।
एतानि त्रपुनामानि सुसिद्धं कार्य्यकारकम्¹² ॥ 54.

c70.s2.83

¹ A has शतान्यानि वसन्ते । B has शनानानि वर्त्तन्ते । Both the readings are grammatically incorrect.

c70.s2.84

² च is dropped in A and B.

c70.s2.85

³ The sense of नीलविभ्रमं seems to be नीलविम्बम = नीलगोभम् । A reads चसनं, which is incorrect.

c70.s2.86

⁴ A reads हैमगर्भं ।

c70.s2.87

⁵ A and B read सङ्घाय च ।

c70.s2.88

⁶ रसवाईक, the reading in A and B, is not grammatically correct

c70.s2.89

⁷ तत्ते is the reading in A and B, which is incorrect.

c70.s2.90

⁸ Both A and B read कार्य्यकर्म्मंसु सिद्धिदान्, which is grammatically incorrect.

c70.s2.91

⁹ रसगजाङ्ककान् कर्य्यान्, an incorrect variant in A and B

c70.s2.92

¹⁰ A reads कृते सिद्धिषु । B reads हने विद्दिषु । Both are incorrect.

c70.s2.93

¹¹ Both A and B read रजतानि च, which is senseless here

c70.s2.94

¹² सुसिद्ध कार्य्यकारकान्, an incorrect variant in A and B.

c70.s2.95

सीसकं¹ धातुभङ्गं च मृतकं रोचकं परम् ।
रक्तं च रक्तावोर्य्यं च² रक्तवस्तुविवर्द्धनम् ॥ 55.
अन्तरुप्यं च गम्भीरं धातुभञ्जनकारकम् ।
ग्राहकं रसराजेन अच्छेाभ्याच्छोभणं परम् ॥ 56.
विचित्रं विनतं चैव नानारङ्गप्रदायकम् ।
नागं नगालयं प्रोक्तं सिद्घकं कण्ठशोधनम् ॥ 57
घण्टं षयङ्करं³ चैव दुरितं षयङ्कारकम् ।
एतानि⁴ नागनामानि कार्य्यकाले प्रयोजयेत् ॥ 58.
लोहं च आयसं शूरं सूर्य्यकर्कविशारदम् ।
हन्तकं खननं स्वर्णमारकं⁵ ताटकं मलम् ॥ 59.
अजरं च जरायुक्तं धात्वाद्यम् अवनौसुतम् ।
कालेयं जौषणं कालं रुधिरं रोगनाशनम् ॥ 60
ग्रन्थिटं सर्व्वधातूनाम् अछोभ्यं जलवह्निषु ।
वह्निदं वह्निबौजं च सर्व्वधातुसहायकम् ॥ 61.
एतानि लोहनामानि ज्ञात्वा कर्म्माणि कारयेत् ।
जायते⁶ सकला सिद्धिर्वियोगयोगसंयुता⁷ ॥ 62.
नामानि धातुसंयोगे जातानि तानि च शृणु⁸ ।
शुल्बखर्परसंयोगे जायते पित्तलं शुभम् ॥ 63.
पित्तलं चैव नारोकं कपटं गन्धदुर्ज्ययम् ।
वर्णटं दुर्ब्बलं चैव रजतं बङ्गमं लघु ॥ 64.

c70.s2.96

¹ A and B read शौशकं ।

c70.s2.97

² B has only रक्तं वोर्य्यं च, which is incomplete.

c70.s2.98

³ A reads खण्डं खडकरं चैव ।

c70.s2.99

⁴ A and B read एतत्ते, which is incorrect.

c70.s2.100

⁵ A has स्वर्णं मारकं । B has स्वर्ण मारकं ।

c70.s2.101

⁶ A reads नोयते ।

c70.s2.102

⁷ वियोगायोग is the variant in A. विछोगायोग is the variant in B Both readings seem to be incorrect.

c70.s2.103

⁸ जातानि च ते शृणु, an incomplete variant in A and B.

c70.s2.104

वङ्गताम्रसंयोगेन जायते तेन¹ कांस्यकम् ।
कांस्यकं कोमलं चैव नैरसं रसकाठिनम्² ॥ 65.
तीव्रानादं महाशब्दम्³ उग्रकान्ति रविग्रहम् ।
ज्वालापिधानं रौद्रं च ग्राहकं⁴ धुम्वरोधनम् ॥ 66.
एतानि⁵ कांस्यनामानि कार्य्यकाले प्रयोजयेत् ।
बन्धने धारणे चैव सुद्रणे धूमवन्धने ॥ 67
खर्परैः सह पारदं दिव्यं⁶ किञ्चित् प्रमेलयेत् ।
जायते रसको नाम नानारोगहरो भवेत् ॥ 68.
नागस्तु रहतं⁷ हीनो मृतधातुस्तु जायते ।
स एव कोमलाग्निस्रः⁸ सिन्दूर जायते ध्रुवम् ॥ 69.
अनेकाः⁹ साधयेद्विद्या मन्त्रयन्त्रकरोः क्रियाः ।
पूजनाथें मम गुणाः सर्व्वें कल्पितरोचनाः¹⁰ ॥ 70.
ताम्रदाहजलैर्य्योगे जायते तुत्थकं शुभम् ।
नाना रसायनी विद्या साधयेत् सा¹¹ सदैव हि ॥ 71.
रसरसक(?)¹²योगेषु राजमर्य्यादा जायते ।
राजकं जायते नाम नारी राजकलागतिः¹³ ॥ 72
संयोगे साधनं दिव्यं वियोगे साधनं शुभम् ।

c70.s2.105

¹ A has जातेनैव । B has जायते तेनैव ।

c70.s2.106

² A and B read erroneously कठिण ।

c70.s2.107

³ A reads महुछब्दं । B reads महत्तशब्दं । Both the readings are incorrect.

c70.s2.108

⁴ A reads व्याहकं, which has no clear sense.

c70.s2.109

⁵ A and B read एतत्ते, which is incorrect.

c70.s2.110

⁶ पारदो दिव्यो is the reading in A and B, which is incorrect.

c70.s2.111

⁷ B reads रहरते, which is not correct.

c70.s2.112

⁸ कौमलाग्निस्त is the reading in A and B, which is not correct.

c70.s2.113

⁹ A reads एनेका । B reads एतेका । Both are incorrect.

c70.s2.114

¹⁰ A and B read कल्पितरोचनं ।

c70.s2.115

¹¹ सा is not found in A and B

c70.s2.116

¹² A and B read रसारसयोगेषु, which is incomplete

c70.s2.117

¹³ माराराजकलागनि', a variant in A नारोजकछागति., a variant in B Both the readings seem to be incorreet.

c70.s2.118

वियोगं पुननैर्योगं रसतान्त्रे शुभो विधिः¹ ॥ 73.
अनेका साधनौ विद्या साधयेद्द्रव्यकाङ्क्षितम्² ।
लभते रसायनीं विद्यां खस्थोऽपि विकृतोद्यमौ ॥ 74.
अनेनैव प्रकारेण ज्ञायते नाम कर्मभिः ।
नामकर्मज्ञता³जाते चित्ते निर्मलता⁴ भवेत् ॥ 75.
एतत्ते कथित धातोस्तपधातोस्तु तां⁵ शृणु ।
येन विज्ञानमात्रेण कालकाव्या⁶ न लिप्यते ॥ 76.
उपधातोस्तु मध्येषु श्रेष्ठा माता रसायनी ।
तस्या नामानि वक्ष्यामि पश्चात् स्नानगुणानपि⁷ ॥ 77.
हरितालं विसङ्गञ्च रङ्गदीप्तिकरौ सदा ।
तालं च हरिता हंसी श्वेतपीतविधायिनौ ॥ 78.
नर्त्तकस्य प्रिया देवी निशा चैव निशाचरी ।
पारदस्य क्षयकरी पक्षच्छेदकरी स्मृता⁸ ॥ 79.
रोगहा जौविनी जैत्री जरादारिद्रनाशिनी ।
एतानि तालनामानि संक्षेपात् कथितानि तै⁹ ॥ 80.
युक्तो ज्ञानेन यः¹⁰ कर्त्ता अक्षोभ्यो¹¹ जायते सदा ।
अनेनैव प्रकारेण कर्त्ता कर्माणि साधयेत् ॥ 81.
मनःशिला शिला शृङ्गी कुनटी च क्षतोद्यमा ।
दरदा¹² भगिनी देवी सिन्दूरस्य सखी सदा ॥ 82.

c70.s2.119

¹ A and B read शुभविधिः ।

c70.s2.120

² A reads द्रव्यकोद्धिमं । B reads द्रव्यकांक्षितः ।

c70.s2.121

³ A and B read नामकर्मैरडाजाते, which is unintelligible

c70.s2.122

⁴ A and B read निर्मलता, which is not grammatically correct.

c70.s2.123

⁵ A and B read ते, which is incorrect

c70.s2.124

⁶ A reads कालकाव्यू । B reads कालकाष्यू । Both the readings are incorrect.

c70.s2.125

⁷ Both A and B read गुणानि च, which is incorrect.

c70.s2.126

⁸ The 78th and 79th slokas are not found in A

c70.s2.127

⁹ संक्षेपे विक्तयानिने, a variant in A and B, which has no sense.

c70.s2.128

¹⁰ गुरुज्ञानेन थे, an incorrect variant in A and B

c70.s2.129

¹¹ A reads अक्षोग्यो, which is incorrect

c70.s2.130

¹² B reads टैरदा ।

c70.s2.131

पुष्पा पुष्पवती¹ पत्नो शालिनी रसिनो गुणा ।
एतत्तु च शिलानाम² कार्य्यकाले प्रयोजयेत् ॥ 83.
अभ्रकं चैव व्योमं³ च गगनं ग्राहकं परम् ।
दुष्टवीर्य्यंच्च वातञ्च वङ्गिनादोनताक्षति⁴ ॥ 84.
अजरम् अमरं घोरं घोरषण्ढत्व⁵नाशनम् ।
रसमूलरसातीतं रसज्ञे राज्यवर्द्धनम् ॥ 85.
अमृतम् अमरं⁶ चैव महामृत्युविनाशनम् ।
एतान्यभ्रकनामानि ज्ञात्वा कर्माणि कारयेत् ॥ 86.
सोमलं मल्लराजं च विषं वातविनाशनम् ।
श्वेतवीर्य्यं बलग्रन्थि नीलउज्ज्वलकारकम् ॥ 87.
स्वेदनं भेदनं चैव कामवीर्य्यविवर्द्धनम् ।
बन्धनं⁷ सर्व्वधातूनां मारणं पारदे रसे ॥ 88.
गगनग्राहके दिव्ये रसयुग्मे प्रमेलनम् ।
एतानि मल्लनामानि कार्य्यकाले प्रयोजयेत् ॥ 89.
हौनधातोश्च नामानि संक्षेपात् तानि च शृणु ।
येन विज्ञानमात्रेण जायते पारदौ क्रिया ॥ 90
मुक्ता मुक्ताफलं वारि वारिजं स्वातिसम्भवम् ।
शुक्तिगर्भं⁸ च सगरं शृङ्गारं मङ्गलोदयम् ॥ 91.
तैजसम्⁹ अमृतोद्भूतं शीतलं शिलोमं मनः¹⁰ ।
स्वयम्भुवं फलं दौप्तं¹¹ स्त्रियि सौभाग्यदायकम् ॥ 92.

c70.s2.132

¹ A reads पुष्पवर्त्ता ।

c70.s2.133

² एतत्ते च शिला नामान्, an incorrect variant in A and B

c70.s2.134

³ Generally used as व्योम ।

c70.s2.135

⁴ A reads वङ्गिनादे एतः क्षतिः, which is incorrect

c70.s2.136

⁵ A and B read खंण्डल, which is incorrect

c70.s2.137

⁶ A repetition of the name

c70.s2.138

⁷ A reads बले मूद्ध, which is incorrect.

c70.s2.139

⁸ B reads मुक्तिगर्भ, which is not correct

c70.s2.140

⁹ B reads तैनसं, which is incorrect

c70.s2.141

¹⁰ B reads नमः, which is not correct.

c70.s2.142

¹¹ षोडिन सौभाग्यदायिन, an incorrect variant in A and B.

c70.s2.143

रतिराजनग्रहः शोभीकामसन्दीपनं तथा।
मुक्तानामानि रम्याणि¹ ज्ञात्वा कर्माणि कारयेत् ॥ 93.
विद्रुमं वरदं² वेलावल्लोजातं प्रबालकम्।
नौरसम्³ अधरसोभो शिखरं शिखरोद्भवम् ॥ 94.
वर्णदं विवरं चैव ग्रैवेयं⁴ च विभूषणम्।
विद्रुमस्यैतन्नामानि⁵ कार्य्यकाले प्रयोजयेत् ॥ 95.
चर्म्मकं कूर्म्मकं चैव कमठपृष्ठं सकासकम्।
कमठं कर्कशं चैव कलिङ्गजात⁶माशुभम् ॥ 96.
कचहं कहहः⁷ काम्र्म्मे लोके कचकटं तथा।
एताति कूर्म्मपृष्ठस्य नामानि च विशेषतः ॥ 97.
शङ्खं च जलजं चैव देववादित्रमेव च।
विष्णुवल्लभकं⁸ चैव सोमदैवतकं शुभम् ॥ 98.
वरायुधं च वरदं शुभ्रं⁹ माङ्गल्यदायकम्।
अजयं सर्व्वजन्तूनां दानवास्थि वरोदयम् ॥
गम्भीरं घोषशब्दं च पवित्रं पारदं गृहम्।
एतानि¹⁰ शंखनामानि वामदक्षिणकावुभौ¹¹ ॥ 100.
शुक्तिका सौफिका¹² कान्तौ मुक्तामाता गरीयसी।
चन्द्रपत्नी पयोग्राहो संपुटौ पटवादिनौ ॥ 101.
रजताभासिनी दीक्षा वहुवारिविशोषणी।

c70.s2.144

¹ A and B read ते रम्यान्, which is incorrect.

c70.s2.145

² A reads विद्रुमौ वरदं। B reads विद्रुमौ वरदे।

c70.s2.146

³ A reads नोरसं।

c70.s2.147

⁴ A and B read ग्रैवेयं।

c70.s2.148

⁵ A has विद्रु मैनावि। B has विद्रुमैनानि। Both are incorrect.

c70.s2.149

⁶ कलिङ्गमाशुभं is an incomplete variant in A and B

c70.s2.150

⁷ A has कञ्चकहहुः। B has कचकहहुः।

c70.s2.151

⁸ B reads erroneously विष्णुवल्लभाभक्तं।

c70.s2.152

⁹ Both A and B read वरं देव, which destroys both grammar and metre.

c70.s2.153

¹⁰ A and B read एतत्ने, which is grammatically incorrect

c70.s2.154

¹¹ A reads वामदक्षिणयाकभौ। B reads वामदक्षिणमावुभौ।

c70.s2.155

¹² B has only सीका।

c70.s2.156

पद्मकरौगतिः पद्मगर्भ¹समुद्रसम्भवा ॥ 102.
उत्तमा मध्यमा नीचा त्रिविधा सागरोद्भवा ।
नद्युद्भवा तु सा नीचा² नीचकर्मविशारदा ॥ 103.
एतच् लक्षणं श्रुत्तेः³ कर्मकाले प्रयोजयेत्⁴ ।
ज्ञात्वा यः कुरुते कर्म सिद्ध्येत् सकलं फलम् ॥ 104.
गजोद्भवं रदं⁵ दन्तं द्विजं चैव तु पुष्यकम् ।
नारीसौभाग्यदं चैव गजभूषणसन्मुखम् ॥ 105.
तैलरत्नाकरं श्रौदं संपुटं पुटिकं तथा ।
नामानि गजदन्तस्य अन्यानि मध्यमानि च⁶ ॥ 106
पिच्छुकं कुर्कुटं चैव शिखिपिच्छं सुचित्रकम् ।
हरिमौलिधरं श्रोटं मोहनं चन्द्रकं तथा ॥ 107.
नागारिं सर्पदमनं विषदं विषनाशनम् ।
एतानि शिखिपिच्छस्य नामानि विविधानि च ॥ 108.
नखं सहृदयपुरं⁷ धातुकोमलकारणम्⁸ ।
वज्रं⁹ दुर्गन्धिकं चैव तुरौटापसु चोभकम्¹⁰ ॥ 109.
कचं केशं च बालं च मूर्द्धजालकमेव च ।
श्माभं चैव घनं प्रोक्तं कर्कशं नर्भदं लघु ॥ 110.
एतानि धातुनामानि यथाकर्माभिधानकम् ।
ज्ञात्वा आरभ्यते कर्म स्वस्ये सिद्धिः प्रजायते ॥ 111.

c70.s2.157

¹ A and B read पद्मोगर्भ ।

c70.s2.158

² नद्योद्गवा वनौचा, an incomplete variant in A. नद्योद्गवा वनौवा, an incorrect and incomplete variant in B

c70.s2.159

³ A and B read एतत्ते लचणा श्रुत्ति, which is an incorrect variant

c70.s2.160

⁴ कर्मकार्य प्रयोजने, a variant in A, which seems to be incorrect

c70.s2.161

⁵ A reads वरदं, which is incorrect

c70.s2.162

⁶ अन्यास्ते मध्यमानि च, a variant in A and B, which is grammatically incorrect.

c70.s2.163

⁷ न हृद्यपुरं, a variant in A. न हृदयपुरं, a variant in B Both are incorrect.

c70.s2.164

⁸ B reads कारकं ।

c70.s2.165

⁹ B reads वज्रो, which is not correct.

c70.s2.166

¹⁰ A reads तुरौटापसुचोभकं ।

c70.s2.167

पार्व्वत्युवाच।

c70.s2.168

शम्भो शङ्कर विश्वेश विश्वनाथ जगद्गुरो ।
श्रुतानि चैव नामानि स्थानानि कथ्यन्तां¹ प्रभो ॥ 112.

c70.s2.169

¹ A and B read कथ्यता, which is grammatically incorrect.

c70.s2.170

महादेव उवाच ।

c70.s2.171

शृणु देवि प्रयत्नेन स्थानानि विविधानि च ।
सुवर्णस्योदयो धातोः सर्व्वव्यापकपर्व्वते² ॥ 113.
पार्थिव्यं हि च तत् सर्व्वं³ मृदामभ्यात् प्रजायते ।
तस्मात् स्थानस्य संक्षेपः श्रूयतां सादरं⁴ शुभे ॥ 114
हेमं च प्रथमं कल्पं मेरुमध्ये सदैव हि ।
दुर्लभं मर्त्त्यलोकेषु कष्टेनैव तु लभ्यते ॥ 115.
पुनर्हेमाद्रिणा तेन जायते सर्व्वदा शुभे ।
महाशीतक्षते⁵ तेन दुर्लभं स्यात् सदैव हि⁶ ॥ 116.
पश्चाज्जम्बूनदोद्भूतं जम्बूद्वीPaperेषु जायते ।
तच्च कष्टतरं मन्ये दुर्लभं तत् सदैव हि ॥ 117.
पृथिव्यां धातुमध्येपु सर्व्वेषामधिकं सदा ।
लोहाधिकतरं तत्र ज्ञातव्यं सर्व्वदा शुभे ॥ 118
कष्टे निःसारणं तेषां मौल्यादधिकं जायते ।
तस्मात्तेनैव यत्नेन साधनं क्रियते नरैः⁷ ॥ 119.
असाध्यसाधनं⁸ तस्य जातं सर्व्वयुगे शुभे ।
तस्मात्तु⁹ बहुमूल्येन सर्व्वधातुपरिस्रितिः⁹ ॥ 120.

c70.s2.172

² A reads पश्नोत। B reads पर्त्तात्त। Both the readings are incorrect.

c70.s2.173

³ पार्थिव्यानि च ते सर्वे, an incorrect variant in A and B.

c70.s2.174

⁴ A and B read सादरात्, which is incorrect

c70.s2.175

⁵ A reads महत्सीतक्षते, which is incorrect.

c70.s2.176

⁶ B reads सदैव हि, which is incorrect

c70.s2.177

⁷ A has ह्ययने नरा.। B has ह्ययते नरा.। Both are incorrect

c70.s2.178

⁸ A and B read तस्मात्ते, which is incorrect.

c70.s2.179

⁹ सर्वधातोपरिस्रिति, an incorrect variant in A and B.

c70.s2.180

पुनः स्नानं कृतं तेन लङ्कायां च सदैव हि।
उच्छिष्टं तेन यत्नेन मर्त्ताद्द्भौतं मया शुभे ॥ 121

c70.s2.181

पार्व्वत्युवाच ।
महारुद्र शङ्कर श्रीमन्² लोकनाथ जगत्पते ।
कथं ते मानुषी भौतिः³ कथ्यतां परमेश्वर ॥ 122

c70.s2.182

² श्रीमान्, a reading in A and B, is not correct.

c70.s2.183

³ मानुषाद्भौतिः is the correct form.

c70.s2.184

महादेव उवाच ।
सुवर्णस्यैषा महती⁴ भौतिर्मानुषसम्भवा ।
उच्चो नीचपदं सम्यक् जायते बहुले रतिः ॥ 123.
मया मानुषभौतेन⁵ उच्छिष्टं सादरेण च।
दुर्ल्लभं च विशेषेण प्राक् कलियुगे इदम्⁶ ॥ 124

c70.s2.185

⁴ A and B read सुवर्णस्यैषा महतान्, which is not correct.

c70.s2.186

⁵ मा च मानुषभौतेन, an incorrect variant in A and B

c70.s2.187

⁶ A and B read दूती । This foot is incomplete.

c70.s2.188

पार्व्वत्युवाच ।
मदीये मानसे नाथ जातोऽसौ संशयो महान् ।
भवतां मानुषी भौतिः कथं तु जगदीश्वर⁷ ॥ 125.

c70.s2.189

⁷ A reads कथं ते जगदीश्वरं । B reads कथं ते जगदीश्वरः। Both are incorrect

c70.s2.190

महादेव उवाच ।
कारणं वर्त्तते देवि अव्याख्येयं सदैव हि।
कथनीयं त्वयि भद्रे यतस्त्वं⁸ मम वल्लभा ॥ 126.
बुद्धिच्चतुरताहद्धिर्जायते च कलौ युगे।
मानुषे च भवतौह⁹ मम क्षोभानुवर्त्तिनी ॥ 127

c70.s2.191

¹ A and B read erroneously सृश्याद्।

c70.s2.192

⁸ यतस्त्वं is an incorrect variant in A and B.

c70.s2.193

⁹ A and B read भवंतोह, which is not correct.

c70.s2.194

तस्मात्तैर्बहुले¹ द्रव्ये साध्यते गन्धकौ क्रिया ।
अथवा पारदौ चैव मम ह्योभानुवर्त्तिनौ ॥ 128.

c70.s2.195

¹ A and B read तस्मात्ते, which is incorrect.

c70.s2.196

पार्व्वत्युवाच ।

c70.s2.197

श्रुता सा गन्धकौ विद्या सर्व्वसौभाग्यदायिनौ ।
सङ्ग्रभक्षणता सा च² न सिध्यति गरीयसी ॥ 129.
भवता पूर्व्वमुक्तं³ हि सङ्ग्रभक्षणयोगतः ।
न सिध्यति च ते विद्या सदा गन्धकपारदौ ॥ 130.
तस्मात् कथ्यतां देव मनोऽज्ञानविवर्जितम् ।
सुवर्णसाधिनीं विद्यां⁴ तस्माद्वदतु मे विभो ॥ 131.

c70.s2.198

² A and B read ते च।

c70.s2.199

³ A reads मृत ।

c70.s2.200

⁴ A and B read सुवर्णसाधिनी विद्या ।

First 200 of 336 passages. Read on

Linked texts (2)