History of Chemistry in Ancient and Medieval India, Incorporating the History of Hindu Chemistry by Acharya Prafulla Chandra Ray c70.s2.118
History of Chemistry in Ancient and Medieval India, Incorporating the History of Hindu Chemistry by Acharya Prafulla Chandra Ray c70.s2.118
- Language
- English
c70.s2.118
वियोगं पुननैर्योगं रसतान्त्रे शुभो विधिः¹ ॥ 73.
अनेका साधनौ विद्या साधयेद्द्रव्यकाङ्क्षितम्² ।
लभते रसायनीं विद्यां खस्थोऽपि विकृतोद्यमौ ॥ 74.
अनेनैव प्रकारेण ज्ञायते नाम कर्मभिः ।
नामकर्मज्ञता³जाते चित्ते निर्मलता⁴ भवेत् ॥ 75.
एतत्ते कथित धातोस्तपधातोस्तु तां⁵ शृणु ।
येन विज्ञानमात्रेण कालकाव्या⁶ न लिप्यते ॥ 76.
उपधातोस्तु मध्येषु श्रेष्ठा माता रसायनी ।
तस्या नामानि वक्ष्यामि पश्चात् स्नानगुणानपि⁷ ॥ 77.
हरितालं विसङ्गञ्च रङ्गदीप्तिकरौ सदा ।
तालं च हरिता हंसी श्वेतपीतविधायिनौ ॥ 78.
नर्त्तकस्य प्रिया देवी निशा चैव निशाचरी ।
पारदस्य क्षयकरी पक्षच्छेदकरी स्मृता⁸ ॥ 79.
रोगहा जौविनी जैत्री जरादारिद्रनाशिनी ।
एतानि तालनामानि संक्षेपात् कथितानि तै⁹ ॥ 80.
युक्तो ज्ञानेन यः¹⁰ कर्त्ता अक्षोभ्यो¹¹ जायते सदा ।
अनेनैव प्रकारेण कर्त्ता कर्माणि साधयेत् ॥ 81.
मनःशिला शिला शृङ्गी कुनटी च क्षतोद्यमा ।
दरदा¹² भगिनी देवी सिन्दूरस्य सखी सदा ॥ 82.