Pramāṇa · Search · About · API

History of Chemistry in Ancient and Medieval India, Incorporating the History of Hindu Chemistry by Acharya Prafulla Chandra Ray c70.s2.131

History of Chemistry in Ancient and Medieval India, Incorporating the History of Hindu Chemistry by Acharya Prafulla Chandra Ray c70.s2.131

Language
English

c70.s2.131

पुष्पा पुष्पवती¹ पत्नो शालिनी रसिनो गुणा ।
एतत्तु च शिलानाम² कार्य्यकाले प्रयोजयेत् ॥ 83.
अभ्रकं चैव व्योमं³ च गगनं ग्राहकं परम् ।
दुष्टवीर्य्यंच्च वातञ्च वङ्गिनादोनताक्षति⁴ ॥ 84.
अजरम् अमरं घोरं घोरषण्ढत्व⁵नाशनम् ।
रसमूलरसातीतं रसज्ञे राज्यवर्द्धनम् ॥ 85.
अमृतम् अमरं⁶ चैव महामृत्युविनाशनम् ।
एतान्यभ्रकनामानि ज्ञात्वा कर्माणि कारयेत् ॥ 86.
सोमलं मल्लराजं च विषं वातविनाशनम् ।
श्वेतवीर्य्यं बलग्रन्थि नीलउज्ज्वलकारकम् ॥ 87.
स्वेदनं भेदनं चैव कामवीर्य्यविवर्द्धनम् ।
बन्धनं⁷ सर्व्वधातूनां मारणं पारदे रसे ॥ 88.
गगनग्राहके दिव्ये रसयुग्मे प्रमेलनम् ।
एतानि मल्लनामानि कार्य्यकाले प्रयोजयेत् ॥ 89.
हौनधातोश्च नामानि संक्षेपात् तानि च शृणु ।
येन विज्ञानमात्रेण जायते पारदौ क्रिया ॥ 90
मुक्ता मुक्ताफलं वारि वारिजं स्वातिसम्भवम् ।
शुक्तिगर्भं⁸ च सगरं शृङ्गारं मङ्गलोदयम् ॥ 91.
तैजसम्⁹ अमृतोद्भूतं शीतलं शिलोमं मनः¹⁰ ।
स्वयम्भुवं फलं दौप्तं¹¹ स्त्रियि सौभाग्यदायकम् ॥ 92.