History of Chemistry in Ancient and Medieval India, Incorporating the History of Hindu Chemistry by Acharya Prafulla Chandra Ray c70.s2.143
History of Chemistry in Ancient and Medieval India, Incorporating the History of Hindu Chemistry by Acharya Prafulla Chandra Ray c70.s2.143
- Language
- English
c70.s2.143
रतिराजनग्रहः शोभीकामसन्दीपनं तथा।
मुक्तानामानि रम्याणि¹ ज्ञात्वा कर्माणि कारयेत् ॥ 93.
विद्रुमं वरदं² वेलावल्लोजातं प्रबालकम्।
नौरसम्³ अधरसोभो शिखरं शिखरोद्भवम् ॥ 94.
वर्णदं विवरं चैव ग्रैवेयं⁴ च विभूषणम्।
विद्रुमस्यैतन्नामानि⁵ कार्य्यकाले प्रयोजयेत् ॥ 95.
चर्म्मकं कूर्म्मकं चैव कमठपृष्ठं सकासकम्।
कमठं कर्कशं चैव कलिङ्गजात⁶माशुभम् ॥ 96.
कचहं कहहः⁷ काम्र्म्मे लोके कचकटं तथा।
एताति कूर्म्मपृष्ठस्य नामानि च विशेषतः ॥ 97.
शङ्खं च जलजं चैव देववादित्रमेव च।
विष्णुवल्लभकं⁸ चैव सोमदैवतकं शुभम् ॥ 98.
वरायुधं च वरदं शुभ्रं⁹ माङ्गल्यदायकम्।
अजयं सर्व्वजन्तूनां दानवास्थि वरोदयम् ॥
गम्भीरं घोषशब्दं च पवित्रं पारदं गृहम्।
एतानि¹⁰ शंखनामानि वामदक्षिणकावुभौ¹¹ ॥ 100.
शुक्तिका सौफिका¹² कान्तौ मुक्तामाता गरीयसी।
चन्द्रपत्नी पयोग्राहो संपुटौ पटवादिनौ ॥ 101.
रजताभासिनी दीक्षा वहुवारिविशोषणी।