Pramāṇa · Search · About · API

History of Chemistry in Ancient and Medieval India, Incorporating the History of Hindu Chemistry by Acharya Prafulla Chandra Ray c70.s2.171

History of Chemistry in Ancient and Medieval India, Incorporating the History of Hindu Chemistry by Acharya Prafulla Chandra Ray c70.s2.171

Language
English

c70.s2.171

शृणु देवि प्रयत्नेन स्थानानि विविधानि च ।
सुवर्णस्योदयो धातोः सर्व्वव्यापकपर्व्वते² ॥ 113.
पार्थिव्यं हि च तत् सर्व्वं³ मृदामभ्यात् प्रजायते ।
तस्मात् स्थानस्य संक्षेपः श्रूयतां सादरं⁴ शुभे ॥ 114
हेमं च प्रथमं कल्पं मेरुमध्ये सदैव हि ।
दुर्लभं मर्त्त्यलोकेषु कष्टेनैव तु लभ्यते ॥ 115.
पुनर्हेमाद्रिणा तेन जायते सर्व्वदा शुभे ।
महाशीतक्षते⁵ तेन दुर्लभं स्यात् सदैव हि⁶ ॥ 116.
पश्चाज्जम्बूनदोद्भूतं जम्बूद्वीPaperेषु जायते ।
तच्च कष्टतरं मन्ये दुर्लभं तत् सदैव हि ॥ 117.
पृथिव्यां धातुमध्येपु सर्व्वेषामधिकं सदा ।
लोहाधिकतरं तत्र ज्ञातव्यं सर्व्वदा शुभे ॥ 118
कष्टे निःसारणं तेषां मौल्यादधिकं जायते ।
तस्मात्तेनैव यत्नेन साधनं क्रियते नरैः⁷ ॥ 119.
असाध्यसाधनं⁸ तस्य जातं सर्व्वयुगे शुभे ।
तस्मात्तु⁹ बहुमूल्येन सर्व्वधातुपरिस्रितिः⁹ ॥ 120.